SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥ खरतरगच्छ-सूरिपरंपरा-प्रशस्तिः ॥ मिथ्यास्विसंगृहीतः प्राग महाकालजिनालयः। आत्मसाद्विहितो येन जिनशासनभास्वता॥२८॥ नव्यस्तोत्रप्रभावेण पार्थमातः प्रकाशिता । त्रिनेत्रपिण्डिकामध्यात् स्फटाटोपैविभूषिता ॥२९॥ श्रीवृद्धवादिसूरीन्द्र-पट्टपङ्कजभास्करम् । संतोष्टुवीमि ते भक्त्या सिद्धसेनदिवाकरम् ॥३०॥ -चतुर्भिःकलापकम् । पैर्याकिनीभगवतीवचनात्प्रबुद्धेस्त्यक्त्वाभिमानमखिलं जगृहे चरित्रम् । यैः सोगता विधिषलेन वधोपनीतास्ते सागसोऽपि यतिनीवचनाच्च मुक्ताः॥३१॥ तद्वयापत्तेः समीहोद्भवदुरितभिदे खाब्धिवेदेन्दुसंख्या जैना ग्रन्थाः कृताः स्युर्घनतिमिरभिदो नव्यगाथाप्रबंधैः । यैरप्यात्मीयशिष्यव्यपगमनभवदुःखतापामृतौघ थके ग्रन्थो रसालो धुरिकृतललितो विस्तराख्यो नवीनः ॥३२॥ ते हरिभद्रमुनीन्द्रा निस्तन्द्राश्चन्द्रकिरणसंकाशाः। ____ श्री आवश्यकलघुगुरुविवृतिकराः संघजयकाराः॥३॥-त्रिभिः कुलकम् । . वन्देऽहं देवसूरीशं नेमिचन्द्रगुरुत्तमम् । नमः सुविहितायाथ श्रीउद्योतनसूरये ॥३४॥ तत्पट्टदेवाचलकल्पवृक्षा भव्याङ्गिनां कल्पितदानदक्षाः। - सूरीश्वरास्ते सुमनोभिरामा श्रीवर्धमाना गुरवो विरामाः ॥ ३५ ॥ ये अर्बुदाद्रावृषभेश्वरस्य मणीमयीमूर्तिमतिप्रभावाम् । प्रकाशयामासुरथोरगेन्द्रासंप्राप्तसाम्नायकसूरिमन्त्राः ।। ३६ ॥ तत्पद्वपकेरुहराजहंसा जैनेश्वरा सूरिशिरोवतंसाः। . जयन्तु ते ये जिनशैवशासनश्रुतप्रविणा भववासमक्षिपन् ॥ ३७॥ श्री पत्तने दुर्लभराजराज्ये विजित्य वादे मठवासिसूरीन् । वर्षेऽब्धिपक्षानंशशिप्रमाणे लेभेऽपि यैः खरतरो बिरुद्दयुग्मं (१)॥३८॥ संवेगरङ्गशाला विहिता प्रस्तावकुसुमवरमाला । तं जिनचन्द्रमुनीन्द्रं नमत जनानन्दाक्षितिचन्द्रम् ॥ ३९ ।। वृत्तिश्चक्रे नवाझ्या ललितपदयुता देवतादेशतो यै नव्यस्तोत्रेण येषां प्रकटतनुरभूद भूमितो दिव्यरूपी । पार्श्वः स्फूर्जत्फणालः कलिमलमथनः स्तम्भनाधीश्वरोऽय मस्य स्नात्रांबुसेकाद्विगतगदतनौ दिव्यरूपं यदीयम् ॥ ४०॥ सानिध्यकारा सकलातिहारिणी पद्मावती यत्पदपङ्कजे श्रिता । ते पूज्यराजाभयदेवसूरयो यच्छन्तु संघे सकलार्थसम्पदम् ॥४१॥ मृदुपक्षीयसूरेः प्राशिष्यः कच्चोलवर्षिणः। जिनवल्लभनामाभूद्विरागी कर्मभेदतः ॥४२॥ तस्याभयगुरोः पार्थादुपसंपत्ततोऽभवत् । जिनवल्लभशिष्योऽथ सर्वसिद्धान्तपारगः॥४३॥ . क्रमशोऽभयसूरीणां पट्टकन्दरकेसरी । जिनवल्लभसूरीन्द्रो द्रव्यलिङ्गगजाईनः ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy