________________
श्रीचन्द्रसूरिसंरचिता जीतकल्पबृहचूर्णिविषमपदव्याख्या
000000000
नत्वा श्रीमन्महावीर स्वपरोपकृतिहेतवे ।
जीतकल्पबृहचूर्णेाख्या काचित् प्रकाश्यते ॥ अत्रादौ शास्त्रारम्भे विघ्नोपशमनायेष्टदेवता-गणधर-स्थविर-प्रवचनानां यथाक्रमं वर्णनाय रूपकचतुष्टयमाह
१. 'सिद्धत्थे'त्यादि । सिद्धा निष्पन्ना अर्थाः प्रयोजनानि यस्य ज्ञानावाप्तौ सत्यां स सिद्धार्थः; समाप्तकर्तव्य इत्यर्थः। सिद्धं प्रसिद्ध शासनं संघो यस्य स तथा। सिद्धा अनादिप्रवाहतया नित्याः प्रसिद्धा अर्था जीवादयो यत्र श्रुते तत् सिद्धार्थ तच्छ्रुतं यस्य । ततः पदत्रयस्य कर्मधारयः । सिद्धार्थस्य राज्ञः सुतं चापत्यम् । कम् ?-वीरेभ्योऽतिक्रान्तेभ्यो वरः श्रेष्ठः, उपसर्गादिसहनप्रत्यलत्वाद्वीरवरस्तम् । वराः श्रेष्ठा वरा ईप्सितार्थलाभरूपातान् ददाति यस्तम् । वरा देवादयो यतयश्च तेभ्यो वरकाः प्रधानाः शक्रादयो गणथराश्च तैर्महितं पूजितम् । नमत प्रणमत हे जनाः जीवेभ्यो हितो मोक्षमार्गप्रदर्शकत्वेन स तथा तम् ॥
२. एकादशापि गणधरान् दुर्धरगुणधारकान् ; धराधिपो मेरुस्तद्वत्सारा अचलत्वात् , तान्; चस्स गम्यमानस्वातू जम्बुप्रभवादींश्च समस्तसूत्रधरान् सूरीन् प्रणमत ॥
३. दशपूर्वधरान् नवपूर्वधरांश्च; अतिशयिन अवधिमनःपर्यायज्ञानिनः; अवशेषज्ञानिनश्च मतिश्रुतज्ञानिनः; यत्नेन सर्वानपि यतिगुणप्रवरान् सर्वकालं त्रिकरणशुद्धेन भावेन नमत ॥ __४. इतः स्थविरनमस्कारादूर्ध्व प्रवचनं नमत । निर्वाणाङ्गमित्येतदेव व्याख्यानयति । निर्वाणस्याचं कारण जीवानां तद्गमकत्वात्-तत्प्रापकत्वादित्यर्थः। निर्वाणं मोक्षं गमयति प्रापयति जन्तून् निर्वाणगमिति प्राप्ते-अनुखारोऽलाक्षणिको निर्वाणमिति । प्रवचनमित्यस्यार्थमाह-प्रकर्षण गतं स्थितं जीवादिवस्तुवाचकतयेति प्रगतम्, आगामिफलजननसमर्थ यत्तत् । प्रशस्तं वर्णादिगुणोपेतं कष्टप्राप्यं च यत्तत् । प्रधानं-तथा च दधिर्वादयः प्रशस्ता उच्यन्ते न तु प्रधानानि, प्रधानः पटादिरपि भवति न तु प्रशस्त इति व्यवह्रियते, इत्यनयोर्विशेषः । ततः प्रशस्तानि संसारोत्तारीणि वचनानि यत्र तत्प्रशस्तवचनम् । प्रधानानि द्रव्याणि वचनानि यत्र तत्प्रधानवचनम् । इत्यर्थत्रयोपेतं प्रवचनं नमत ॥
५. अधुना जीतकल्पसूत्रकर्तुर्जिनभद्रगणेवर्णनाय श्लोकषट्कमयं कुलकमाह-नमहेत्यादि-तं जिनभद्रक्षमाश्रमणं च नमतेति योगः। शेषाणि तद्विशेषणानि। युगप्रधानमिति–तत्कालीना आगमार्थवेदिनः पुरुषा युगमभिप्रेतं तेषु प्रधानस्तम् । प्रधानज्ञानिनां बहुमतम् । सर्वश्रुतिशास्त्राणि शन्दशास्त्रप्रभृतीनि तेषु कुशलं तद्वेदिनम् । दर्शनज्ञानयोर्योऽसावुपयोगमार्गस्तत्र स्थितं तत्परम् ॥
६. जस्सेत्यादि-यस्य पादपद्मं भ्रमरा इव मुनिवरा यतयो रात्रौ च दिवा च सेवन्ते सदा नित्यं तं नमतेति योगः । अनन्यसाधारणविशेषणसामर्थ्यादनुक्तमपि विशेष्यं लभ्यते। कीदृशा भ्रमराः?-मकरन्दः किझल्कस्तत्र सृषितास्तत्पिपासवः। यतयः कीदृशाः?-ज्ञानमेवाझानकादिभेदभिन्नं मकरन्दस्तत्तृषितास्तद्गृहीतुमिच्छवः। पुनः कीदृशा भ्रमराः!-अमृतमयवशगन्धाभिवासिताः-अमृतं जलं तेन निर्वृत्तममृतमयं पद्मम् , तस्य वशोऽधीनो यो गन्धस्तेनाभिसामस्त्येन वासिता आहताः शब्दिता इति यावत् । वासूशब्दे-इत्यस्य ख(ए)रूपम् । यतयः कीदृशाः?-मुखमेव निर्झरोऽपां प्रसवस्थानम्, तत्रामृतमिव यन्मतं जिनागमस्तस्य वशोऽधीनो यो गन्धः परिमलः माहात्म्यरूपस्तेनाभिवासिताः-तदाकृष्टमानसा इत्यर्थः ॥
७. समयशब्द आचारार्थोऽत्र, ततः खाचार-पराचारयोः प्रतिपादको य आगमः शास्त्रनिवहस्स च । लिपयश्चाष्टादशभेदाः। गणितं पाटीगणितादि । छन्दांसि च पिङ्गलादीनि । शब्दशास्त्रम् [व्याकरणं] । तैनिर्मितों जनितो यशापटहो दशस्वपिदिश्वनयोगविषयेऽनुपमो यस्य भ्राम्यति तं नमत ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org