________________
१८
विजयपाल- विरचितं
अथ द्वितीयोऽङ्कः ।
( ततः प्रविशति निजनिजमञ्चस्थितसकलभूपालचक्रपरिगतो भग वासुदेवेन सह द्रुपदः । )
द्रुपदः - अयि प्रतीहार ! समाकारय कन्यान्तः पुराद् याज्ञसेनीम् । ( प्रतीहारस्तथा कृत्वा द्रौपदीसहितः प्रविशति ।
द्रौपदी - ( सलज्जाकौतुकं ) ( क ) सयलदिशागदविविहदेसविसेसकयवेसन रेसरपलोअणपल्लविदको दुहलफुल्लं पि मह हिअयं लज्जाए मउलाविज्जदि ।
सखी - ( ख ) सहि ! का इत्थ लज्जा । अणेगसो इन्दुमदीपदीणं पुरावि रायकन्नाणं सयंवरो संवृत्तो ।
द्रौपदी - ( ग ) सहि ! एहि ताव तायं पणमामो ( इति तथा करोति । )
द्रुपदः - वत्से ! वृणीष्व यदृच्छया वरम् । ( इति स्वयंवर - मालाहस्ता सखीदत्तहस्तावलम्बा मञ्चान्तरपथेन परिक्रामति । )
दुर्योधनः -- ( सहसा द्रौपदीमायान्तीमालोक्य सोन्मादं )
( क ) सकलदिशागत विविध देशविशेषकृत वेशन रेश्वरप्रलोकन पल्लवितकुतूहलफुलमपि मम हृदयं लज्जया मुकुलायते ।
( ख ) सखि ! काsत्र लज्जा । अनेकश इन्दुमती प्रभृतीनां पुराऽपि राजकन्यानां स्वयंवरः संवृत्तः ।
( ग ) सखि ! एहि तावत्तातं प्रणमावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org