SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विजयपाल- विरचितं ( प्रविश्य पटाक्षेपेण ) पारिपार्श्वकः - ( सविनयं ) ( क ) भाव ! एसो म्हि । सूत्रधारः - अद्याहं श्री चौलुक्यकुलराज्यकमलाकेलिकाञ्चनकमलेन भुजपरिघपरित्रातधरित्रीमण्डलेन जयलक्ष्मीकर्णकुण्डलेन पृथ्वीतलाखण्डलेन नयवर्त्मवर्त्तनाभिरामतारामदेवेन अभिनवसिद्धराज - महाराजश्री भीमदेवेन समादिष्टोऽस्मि । यदस्मिन्वसन्तोत्सवे त्रिभुवनाद्भुतप्रभाववैभवानां श्रीमत्रिपुरुषदेवानां पुरतः प्रमोदिताणहिलपाटकं नाटकं भवताऽभिनीयतामिति । पारिपार्श्वकः - ( ख ) भाव ! किं पि अवरं पुच्छिदुकाम म्हि । सूत्रधारः - यदृच्छया पृच्छ । पारिपार्श्वकः ( ग ) नरिंदमणाणंदणाय जं अच्चन्भुदं करणं तुम्हेहि मह आणतं तं अवरे वि कवडघडणानिउहि नाहि नच्चिदं प्रारद्धं । ता किं मए कायव्वं । सूत्रधारः - मा कार्षीर्विषादम् । वृथैव तैरयं शृगालजागरः प्रारब्धः । न खलु बहुभिरप्याखुचर्मभिः सिन्धुराधिराजबन्धननिबन्धनं दाम निगड्यते । न च गगनाङ्गणावगाहसम्भृताभियोगैर्गणनातिगैरपि खद्योतैस्तिमिरमलिनभुवननिर्मलीकरणकमठस्य कर्मसाक्षिणः कर्म निर्मीयते । तदलं चिन्तया । यतः ( क ) भाव ! एषोऽस्मि । ( ख ) भाव ! किमप्यपरं प्रष्टुकामोऽस्मि । ( ग ) नरेन्द्रमनआनन्दनाय यदत्यद्भुतं करणं युष्माभिर्ममाज्ञप्तं तदपरै रपि कपटघटना निपुणैर्नरैर्नर्तितुं प्रारब्धम् । तत् किं मया कर्तव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003432
Book TitleDropadiswayamvaram
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1928
Total Pages52
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy