________________
महाकविविजयपाल-विरचितं द्रौपदीस्वयंवरम् ।
श्रीसरस्वत्यै नमः। अम्भोजासनसारथौ क्षितिरथे चन्द्रार्कचक्रे स्थितो
लक्ष्मीनायकसायकं युधि दधद्देवाद्रिबाणासनम् । निर्भिद्य त्रिपुरं पुरा जयरमामासाद्य मोदं दधन्
सोऽयं धन्विधुरन्धरो विजयते चन्द्रार्धचूडामणिः ॥ १॥ अपि चआश्चर्योदयबन्धुसिन्धुमथनप्रारम्भसंरम्भिणं
दुर्वारामरवैरिवारणच पञ्चत्वपञ्चाननम् । दैत्यादैत्यपराङ्मुखी गुरुगुणग्रामानुरागानुगा यं लक्ष्मीरवृणोत्स्वयं स भगवांल्लक्ष्मीपतिः पातु वः ॥२॥
( नान्द्यन्ते ) सूत्रधारः- नेपथ्याभिमुखमवलोक्य ) कस्कोऽत्र अस्मत्परिजनेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org