SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ कविकौस्तुभः। [१०-१८] यदा द्वितीयं च तथा चतुर्थ सखे भवेत् पञ्चमकं च दीर्घम् । तथाष्टमं वा दशमं तथान्त्यमुपेन्द्रवज्रां *नृप तां गिरन्ति ॥१०॥ इति वृत्तद्वये व्याहृते सति, वंशस्थे उपेन्द्रवज्राचरणप्रवेशभिन्नत्वाच्छन्दोभ्रष्टदोषः । तथा च सुश्रुते [?] वटप्ररोहो मधुकुष्टमुत्पलं सलाजचूणैर्गुटिकां विदध्यात् । सुसंहिता सा वदनेऽवधारिता तृष्णां प्रवृद्धामपि हन्ति सज्वराम् ॥११॥ छन्दोरत्नावल्यां यथा यत्राक्षरं स्यात् प्रथमं द्वितीयकं तुर्य तथा पश्चमकं नृपाष्टमम् । __ एकादशाद्यान्त्यमकं यदा गुरु तामिन्द्रवंशां फणिभाषितां जगुः ॥१२॥ इति वृत्तमेदे सति, वंशस्थे इन्द्रवंशाचरणप्रवेशभिन्नत्वाच्छन्दोभ्रष्टदोषः । तथा च माघे [शिशुपालवधे १.६५] तपेन वर्षाः शरदेत्यत्र [॥ १३ ॥] प्र(नक्लप्तिमित्यत्र संयोगाद्यगुरुत्वाज्जगणे यगणप्राप्तिहेतोश्छन्दोभ्रष्टदोषः । ६२.) क्रियाव्यस्तं यथा क्रियाभ्रष्टं तु यद्वाक्यं क्रियाव्यस्तं स्मृतं बुधैः । यथा शम्भु सदानन्दं मनसा कुसुमैनवैः ॥ १४ ॥ अन्यच्च रघुवंशे [ १६.६७]उद्बद्धकेशच्युतपत्रलेखो विश्लेषिमुक्ताफलजातशोभः । मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥१५॥ मुहूर्तचिन्तामणौ [५.४१] कवीज्यचन्द्रलँग्नपा रिपो मृतौ *व्रतेऽधमाः। व्ययेऽब्जभार्गवौ तथा तनौ मृतौ सुते खलाः ॥१६॥ किरातार्जुनीये [ ५.२५] कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश्व वरणावरणाः करिणां मुदे सनलदानलदाः॥१७॥ तथा च मम्मटः [ काव्यप्रकाशे १.१] काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥१८॥ १°मुपेन्द्रवज्रारपुपुना गीता. २ वषा:. ३ प्रसुन ४ लमपास्तनौ for लमपा रिपो ५ सुतेधमाः. for व्रतेऽधमा:. ६ तथ. ७ किरातार्जुनिये. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003431
Book TitleKavi Kaustubh
Original Sutra AuthorN/A
AuthorRajasthan Puratan Granthmala
PublisherRajasthan Puratan Granthmala
Publication Year1968
Total Pages54
LanguagePrakrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy