________________
६२
तत्त्वार्थ सूत्र
सप्तमोऽध्यायः
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्॥१॥ देशसर्वतोऽणुमहती ॥२॥
तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥ ३ ॥
हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥४॥
दुःखमेव वा ॥ ५ ॥
मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ६ ॥
जगत्कायस्वभावौ च
संवेगवैराग्यार्थम् ॥७॥
प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥८॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org