________________
लेखप्रबन्धनामकविज्ञप्तिपत्रम् यित्रावटाष्ठात्कृतिकारिणोऽच्छारघट्टमालाजपमालिकाढ्याः । तुलां दधत्युद्भटमात्रिकाणां निदाघधर्मोग्रपिशाचजैत्राः ॥ ६४ ॥
॥ इति वनवर्णनम् ॥ पुरं यदष्टादशवर्णशोभावभासितं सङ्गतसार्द्धवर्णाम् । दिवं जयत्यत्र किमद्भुतं स्यान्न कृच्छ्रजय्यो बलिना बलोनः ॥ ६५ ॥ वर्णागमोऽर्थातिशयेन योगो यत्रास्ति नो वर्णविपर्ययश्च । न वर्णलोपो न च तद्विकारस्तथापि यत्रेष्टपदार्थसिद्धिः ॥६६॥ विनोपसर्ग बहुधा तु यत्र धातोर्विशुद्धा द्विविधार्थसिद्धिः । ततः कथं व्याकरणस्य जैत्रं पुरं नयचित्रमनव्ययार्थम् ॥ ६७ ॥ लसद्बहुव्रीहि सकर्मधारयं भृतं च तत्तत्पुरुषैर्बहुद्विगु । सदाव्ययीभावमविप्रयोगवद् द्वन्द्वं तथाप्यङ्ग न यत् समासवत् ॥ ६८॥ अविप्रयुक्तानपि विप्रयुक्तान् घनान् जनान् यन्नितरां बिभर्ति । अद्वन्द्वनामापि 'लसद्विलासिद्वन्दं विशालं च सुशालमेव ॥ ६९ ॥ यस्यातिचातुर्यवतः पुरस्य पुरः स नाकोऽपि पशूपमानः ।
युक्तं ततस्तस्य कृतं कवीन्द्रैर्गुणागतं गौरिति गोत्रमत्र ॥ ७० ॥ अथ वा-निरीक्ष्य यस्याः पुरतो भयेन लङ्कां सशङ्कां जलधौ निमग्नाम् ।
अवध्यतायै तविषोऽपि नूनं सुधीर्दधौ गौरिति नामधेयम् ॥ ७१ ॥ कदाप्यरङ्गं न ततोऽन्विताख्यं यत्राऽस्ति 'नारङ्गसरो'ऽभिरामम् । गर्जन्निमज्जज्जयकुञ्जरोरुसिन्दूरपूरारुणितोभिमालम् ॥ ७२ ॥ शङ्के सपकेरुहमच्छनीरं निरीक्ष्य सुस्वादु सरो यदीयम् । क्षीरोदधिः क्लप्तलघुस्वरूपः क्षारोदधेः प्राधुणतामियाय ॥ ७३ ॥ पयोनिधिर्यामधिगम्य लीलानिकेतनं सुन्दरमिन्दिरायाः । स्थाने नरीनृत्यत इत्यपत्यप्रेमप्रकर्षो हि जने गरीयान् ॥ ७४ ॥ मदङ्गजायाश्चपलस्वभावमपाकरोदित्यधिकादजर्यात् । संलग्नवेलावलयच्छलेन यामालिलिङ्गेव मुदा पयोधिः ॥ ७५ ॥ पुरा मुरारिप्रमुखाणि पुत्रि ! स्थानानि तान्यस्थिरयोज्झितानि । अथेदृशं प्राप्स्यसि नेति गर्जन् पयोनिधिः शिक्षयतीव लक्ष्मीम् ॥ ७६॥ वार्षिर्जगादेन्दुमिदं प्रमोदादभ्रङ्कपोदस्ततरङ्गहस्तैः। स्थिरस्वभावास्ति तवाऽत्र जामिसुधा किमु भ्राम्यसि तां दिक्षुः १ ॥ ७७॥ द्वीपान्तरोत्तीर्णविचित्रवस्तुभृतानि यस्मिन् वहनानि भान्ति । इह स्थिताया 'निजनन्दनायाः कृतेऽम्बुधिप्रेषितढौकनानि ॥ ७८ ॥
॥ इति समुद्रवर्णनम् ॥
। प्रत्यन्तरे पद्यमिदमेतादृशं दृश्यते- 'यत्रावटाष्टास्कृतिकारिकाष्टारघट्टमालां जपमालिका द्वार । भावर्तयन्तः सठकारमंत्रं जपन्ति धर्मोत्कटदोषजैत्रम् ॥' प्र. "यस्तु'। २प्र. पिच स'। ३प्र. 'नृत्यति चेदप"। ४प्र. ननु नन्द।
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org