________________
विज्ञप्तिलेखसंग्रह
तौ च-वृषभ-मृगवराको ध्वस्तसंसारपङ्कौ कनककमलकान्ती शान्तकारितान्ती ।
त्रिभुवनजनगेयौ मारुदेवाचिरेयौ नुतिविरचनयुक्त्या भूरिभक्त्या प्रणम्य ॥५१॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय -श्रीविनयविजयगणिना श्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखनाम्नि लेखप्रबन्धे 'स्वस्तिश्री अमुकजिनं प्रणम्ये ति प्रथमा
वयवव्यावर्णनरूपश्चित्रचमत्कारनामा प्रथमोऽधिकारः।
॥ अलङ्कारचमत्कारनामा द्वितीयोऽधिकारः॥
21
अथ श्रीपरमगुरुतपागच्छाधिराजचरणतामरसपवित्रतरश्रीस्तम्भतीर्थनगरवर्णनम् -
नन्दीश्वरस्वीकृतवापिकानां यदीयवाप्यः कलयन्ति लीलाम् । उत्तुङ्गशृङ्गप्रतिबिम्बदम्भादगीकृतां केशयशैलशीलाः ॥५२॥ आलापयन्तीव समेतबाला वाप्यो यदीयाश्चलवीचिमालाः । स्मिताननाः फेनततिच्छलेन खगारवैः खागतवाक्यवत्यः ॥५३॥ शशाङ्कभिन्नाममलां खभित्तिं विभाव्य तं जेतुमना महौजाः । यियासतीवोर्ध्वमदभ्रकान्तिमरुत्पथे वप्रभटो यदीयः ॥ ५४॥ वृत्ताकृतौ सारसुधातिरेके जयोद्धरे वीक्ष्य यदीयदुर्गे ।
खतोऽतिरिक्तां परिखां विभाव्य शङ्के शशाङ्कः परिधिं दधाति ॥ ५५॥ अथ वा-यदीयदुर्गप्रचुरप्रतापाऽऽविर्भूततापातिशयादिदानीम्।
शङ्के शशाङ्कः परिधिच्छलेन शेते प्रदीयाञ् जलकुण्डमध्ये ॥५६॥ अनेकशीर्ष विविधायुधाढ्यं यदुर्गमायान्तमवेक्ष्य चन्द्रः।
स्त्रीत्याह यत् खं तदहो प्रसिद्धिरद्यापि सा ज्योतिषशास्त्रसिद्धा ॥ ५७ ॥ अथ वा-कलङ्कपङ्काविलमस्थिराङ्गं मिथ्याभिमानादुदयन्तमिन्दुम् । वीक्ष्य क्रुधा वप्रविभुर्विचके वपुर्महद् भीममनेकशीर्षम् ॥५८॥
॥ इति वप्रवर्णनम् ॥ विभान्ति यत्रोपवनानि वल्लीघनानि वेलत्पवनानि नूनम् । नृत्यन्ति नित्यं विशदास्पदाप्तिप्रीत्या कृतार्थीकृतसम्पदानि ॥ ५९॥ उत्तुङ्गतालादितरूज्वलेन पुरं यदुद्दीविकया वनेन । विलोक्य हपोदिव शीषमूहे विधूयते वायुधुतिच्छलेन ॥६॥ वनी यदीया नवनीतगौरैः सुमैः समन्तादवनीतलस्य । पूजां सृजन्ती निजमातृभक्त्या व्यक्तीकरोति खकृतज्ञभावम् ॥ ६१ ॥ तालादिसाला गगनाग्रलग्नाः समर्मराः किं गिरमुद्रिन्ति । भो नन्दनादीनि वनानि ! यूयं गतानि कि मेरुमिमामपास्य ? ॥ ६२॥ धिग् धिक् समृद्धिं भवतामुदारमन्दारसारामपि दानशून्याम् ।
एतानि धन्यानि वनानि यानि फलादिभिः खैरुपकुर्वते क्षमाम् ॥ ६३ ॥ - युग्मम् । १ प्र. ०भित्तादमलां'। २ प्र. 'सशङ्कः'। ३ प्र० शयात् कदाचित्'।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org