SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेणि ॥ परिशिष्ट स्वरूपाः पंक्तयः ॥ [ उपसंहारात्मिका विज्ञप्तिः - ] विज्ञप्तिसत्रिवेण्यां सूक्तलसल्लहरिवारहारिण्याम् । गुणगृह्यनिपुणमानसवृन्दानि स्नान्तु चिरकालम् ॥ १ ॥ जर्लेधि-वर्सु-भुर्वेन-सङ्ख्ये वर्षे माघे सिताष्टमीदिवसे । रविसुतवारे रुचिरे समर्थितोऽयं महालेखः ॥ २ ॥ यन्यूनं यच्चाधिकमसङ्गतं वा यदत्र लिखितं स्यात् । तच्छोध्यं धीमद्भिर्यतः सतां रीतिरियमेव ॥ ३ ॥ किं च - श्रेष्ठिनो नरसिंहस्य तनयो विनयावनिः । भोजाख्यः साक्षरः क्षिप्रं प्राञ्जलिः प्रणमत्यसौ ॥ ४ ॥ * विशेषखरूपावलीज्ञाप्या निष्पन्नेयं विज्ञप्तित्रिवेणीनामग्रन्थपद्धतिः । संवत् १४८४ वर्षे माघमासि दशम्याम् । * किं च Jain Education International द्विवन्दनीकगच्छीयाः श्रीदेवगुप्तसूरयः श्रीसाधुरत्नोपाध्याया वा यदीह स्युस्तदा तेषां विशिघ्यास्मदीया प्रतिपत्तिरौचित्येन प्रकाश्येति । शिवमस्तु सर्व्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ १ ॥ * ॥ भद्रमस्तु जिनशासनाय । स्वस्ति श्रीसङ्घाय । आयुष्यमस्तु गुणगृह्येभ्यः । समाधिरस्तु स्वयूथ्यानामिति ॥ ( ग्रंथाग्रं १०१२ ) ॥ समाप्तं विज्ञप्तित्रिवेणीनामकं बृहद् विज्ञतिपत्रम् ॥ ६९ For Private & Personal Use Only 15 21 www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy