________________
विज्ञप्तिलेखसंग्रह प्रीतिस्फीतिततिं येषां प्रशस्यास्यशशी नयेत् । सुसाधुजनताचेतःश्रोतःकान्तं ततं स्मितम् ॥ ३६॥ (-चामरः।) एवं पूज्यगुणोद्भानविधानमुखराननः । श्रीजिनभद्रसूरीन्द्रान् वन्दते सोमकुञ्जरः॥ ३७॥
दोषज्ञहस्तीन्द्रसुरेशकुञ्जराः सन्मानसाम्भोनिधिशर्वरीवराः । भूयो गुणश्रेणिहिरण्यमन्दिरं जयन्ति ते श्रीगुरवो निरन्तरम् ॥ ३८॥ विद्यावलीवल्लिवरेण्यमण्डपं कृपापयोधारणविस्फुरन्निपम् । वचश्चयै रञ्जितसर्वविष्टपं गुरुं स्तुवे पादनतोरुभूमिपम् ॥ ३९॥ गुणालिताराधरणान्तरिक्षं विध्वस्तसम्मोहमहाविपक्षम् ।
नीरन्ध्रदोषोत्करभेददक्षं गुरुं स्तुवेऽहं सुयशोवलक्षम् ॥ ४०॥ यच्छति स्फीतिसन्तोषं यद्भारती सभासदम् । यथाम्भोदपयोधारा राजत्सारङ्गसन्ततः॥४१॥ (आसनबन्धेन वृत्तम्।)
नरकसंहरणे कमलाधवः सदवनीनलिनीनलिनीधवः । कविजनग्रहराशितमीधवः शुचिधियेऽस्तु गुरुमधुरारवः ॥ ४२ ॥ भुवनमन्दरशैलसुरागमं जिनपशासनभासनसोद्यमम् । विमलचेतनयावगतागमं गुरुवरं प्रणुमः सुगुणोत्तमम् ॥ ४३॥ कल्याणवारांकुरवृद्धिनीरदाः कारुण्यभूयोलहरीलसन्नदाः।
सुसेवकानां सुतरामभीष्टदा जयन्तु पूज्याः परिणामिसम्मदाः ॥ ४४ ॥ इत्थं नत्वा गुरूँश्चित्ते सुस्थिरः स्थिरसंयमः । श्रीजिनभद्रसूरीशान् नन्नन्ति विनयान्वितः ॥ ४५ ॥
[सूरिपार्श्वे संस्थितानां मुनिगणादीनां नामस्मरणपूर्वकं वन्दनादिविधानम् -] ६४. तत्रत्यस्य पं० पुण्यमूर्तिगणि-पं० लक्ष्मीसुन्दरगणि-पं० मतिविशालगणि-वा० लब्धिविशालगणि-पं० मतिराजगणि-प्रमुखसाधवः, प्र० तपःप्रभागणिनी प्रबर्हयतिन्यः, सा० 20 गेला०-सा० करणा-सा० धणपति-सा० वज्राङ्ग-श्रे० रूपा-भं० गुणराज-सा० आसा-सा० पद्मसिंह-सा० गुणराज-श्रे० हरिराजमुख्या महागारिणः; सौ० गङ्गादे-सौ० सोधू-सौ. जासलदेवी-सौ० पद्मलदेवीप्राग्ग्रहराः श्रमणसेवकपत्यश्च तत्तदनुवन्दना-धर्मलाभमयोचिताशीर्वादकदलीफलप्रदानेन सम्यगानन्दमेदुराः सम्भावनीयाः। तथा श्रीमद्भिः सर्वदापि
समुचितशिक्षाप्रेषणे क्षणमप्युपेक्षणीयं न । तथाऽविनयविलसितादि तितिक्षणीयं क्षमा13 श्रमणप्रवीणैः। तथाऽधुनाऽत्र किमप्यसमञ्जसासमाधिसदृशं नास्ति, तेनात्यन्तं श्रीमतां प्रसादाद् वयं सपरिच्छदा अपि समाहितास्तेष्टीयामहे ।
अपरं चधातुर्विश्वविधाननैपुणमयात् पाणेर्जगद्विश्रुताद्, विज्ञानातिशयो यदीयवचने कोऽप्यद्भुतो वर्त्तते । भाले तेन लिपीकृतां तनुभृतां यन्मौढ्यवर्णावली, तत्तत्तत्त्वमहोपदेशसलिलप्लावैः प्रमार्टि क्षणात् ॥ ४६॥
तान् विस्मेरविद्याम्बुजिनीप्रसर्पद्यशःपरागैर्मुदितज्ञभृङ्गान् ।
परप्रतीक्ष्यान् जिनभद्रसूरिपादान् प्रणन्नन्ति स मेघराजः॥४७॥ इति लिखितलेखरङ्गत्प्रासादोपरि चिरं परिस्फुरतु । मम वन्दनापताका श्रीमन्जिनभद्रसूरिभ्यः ॥४८॥
॥ इति विज्ञप्तित्रिवेण्या ज्येष्ठकल्पविधानाद्यर्थप्रस्ताविका
यमुनाकल्लोलाख्या तृतीया वेणिः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org