________________
विज्ञप्तित्रिवेणि
कैश्चक्राणा, ययाऽपि सर्वः श्राद्धसङ्घो नाम सुतरां साधुवादाद्वैतवादी समवृतत् । अन्यो मुग्धलोकस्तु ताम्बूलादिप्राचुर्यं दृष्ट्वा ह्यसमयेऽपि पर्युषणापर्वभ्रमं दधार । तदयं सर्वजनीनो महान् पुण्यलाभः। तथौपैषीच्छ्रीमत्प्रसादितं लेखद्वयं, परिजग्मे च ततोऽवस्थानादिनैयत्यम् । पुनरपि यथावसरं खसुखावस्थानादिसमाचारसुधांशुव्यापारणेन प्रह्लादनीयो नश्चित्तसागरः सुगुरुभिः।
तथा वयमितः प्रस्थातुकामा अपि कल्याणी- भक्तिश्रीसमुदायोपरोधात् तपोधनावन्दापनोत्सुका अपि स्थिताः । अथाद्यश्वीनश्रीमम्मणवाहनीय-श्रीफरीदपुरीयसङ्घागमः संभाव्यमानोऽस्ति । तदागतौ यद्योग्यताझं भविष्यति तद् विधास्यतेऽवश्यम् । तथाऽत्रयो मेघराजगणि-सत्यरुचिगणि-प्रभृतियति सा० नगराज-सा० हांसा-सा० हापा-श्रे० भोजासा० पाहा-सा० मण्डलिकगोला-सा० रेला-द० भीमा-सा० आह्ना-सा० देपाल-सा 10 विधा-सा० जिणिया-सा० देवा-सं० रतन-सं० घुम्मण-सा० सहजा-सा० कान्हड-सा० मूला-सा० वस्तुपालसवालक्खा-सं० लद्धाप्रमुखो निखिलोऽपि त्रिवर्णः श्रीसङ्घ श्रीमत्पादपयोजन्मसु चिराचश्चरीकेलिं कलयतितमाम् । __ [अथ प्रान्ते पुनः सूरिगुणप्रशंसात्मकाः स्तुतिश्लोकाः-]
तथागाम्भीर्यालब्धमध्यो धुतसगुणमणिधीरतासानुमद्भिः, सन्नद्धो मध्यमेधोउवलतरसलिलोलोलमालोत्सहिष्णुः ।। माद्यद्विद्यानदीनां घनरसरसितः श्रीधरोपासनीयः, बोभूयेत श्रियाढ्यः सुगुरुजलनिधिः सूरिनीराशयेषु ॥ २४ ॥ संसारसरसीसूर उरूराः सरसोरिसः । रसासारो रिरंसोऽरं सूरिः सूरिसु साररः ॥ २५॥ (- द्विव्यञ्जनः ।) सत्कल्याणधरः सुरागमधुरस्तारोदयानुत्तरः, सद्रत्नोपलसद्विभूतिरुचिरो गौरश्रिया भास्वरः । शश्वद्धीरतरः स्फुरद्वसुभरः सत्सौमनस्योद्धरो, जीयाच्छ्रीजिनभद्रसूरिसुगुरुः सर्वसहायां चिरम् ॥२६॥ सद्भिः सुवंशजातैः संश्रितपादो वरेण्यशाखीव । सद्भिः सुवंशजातैः संश्रितपादो गुरुर्जीयात् ॥ २७ ॥
विहाय पङ्कोच्चयमुत्सृतानां सद्वासनाश्रीसमधिष्ठितानाम् । प्रबोधनायार्यमनोऽम्बुजानां प्रकल्पते यद्वचनं रविश्च ॥ २८॥ यन्मूर्तिवत्रीतिकरी सरखती सरस्वतीवन्मधुरा गुणावली ।
गुणावलीवद्विपुला मनीषा नन्दन्तु ते पूज्यतमा जगत्याम् ॥ २९॥ (-रसनोपमा ।) रोगोरुगोरुगारीरैगौराङ्गगुरुरुग्गुरुः । आगोगागारिरागारंगिरांगोगेरिगो गुरुः ॥ ३०॥ (-द्विव्यञ्जनश्लोकः।) प्यानध्यानधुतापदो घनतमःसम्भेदने साधवो, विश्वेनाञ्चितसत्पदो भवभिदो रङ्गन्महाभानवः। चेतोहृद्गुणसम्पदो जनमतोत्सृष्टौ सुरोवीरुहः, कल्याणं ददतां सतां गुरुरसावन्येऽपि चानारतम् ॥ ३१ ॥
(-महाद्भुतम् । प्रथमैकवचन-बहुवचनाभ्यां व्याख्येयं विद्वद्भिः ।) जीयासुर्गुरवोऽवन्यां वन्यामिवावनीरुहाः। यमाश्रित्य चयं याति विद्याव्रततिसन्ततिः ॥३२॥ (- गुरुवर्णनम् ।) 30
विशां हि सेव्याः सरसारवावरा विश्वा विहायोहरयः सुसंवराः। साहस्यसाराः सलयाः सुसूरयः सारश्रियो वैरविशारसूरयः ॥३३॥ (-पञ्चवर्गपरिहारेण छत्रबन्धः ।) वर्णनीययशोराशिवरो विततलोचनः । वरदो मम सम्भूयाद् वर्यस्ताररवो गुरुः ॥ ३४॥
(-खस्तिकबन्धेन काव्यम् ।) आलवालतुलं येषामभिधानं स्थिरीकृतौ । लललक्ष्मीमहाकारस्करस्यारं निरन्तरम् ॥ ३५ ॥ (- चामरबन्धः ।) ।
Jain Education Intemational
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org