________________
5
10
15
20
30
तदमूनमूदृशो दान- शील- तपो भावनाभेदान् परिपोषितखखसामर्थ्यान्नासीरतया परिस्फुरता चतुरङ्गचमूभावेन व्यवस्थाप्य तैरेवाधृष्य विपक्षपक्षक्षो भमुद्भावयन्ननिवारितनिजैश्वर्यकलया सपक्षानावर्जयन्नगणितखपरपक्षः सर्वत्र समदृष्टिरुदारचरितः सम्यक्त्वसामायिकश्वेतगजारूढः प्रौढश्रीः पर्वराजः श्रीजिनराजशासन राजधानी मध्युवास । तदा चआशिषः स्थानेन चास्माभिः श्रीकल्पवाचनाव्यापारविषत् श्रीकालिकाचार्यकथाद्वयोपदेशॐ व्यपदेशेन तत्तत् तदुत्पत्त्यादिव्यावर्णनं निर्णयद्भिश्च द्वारभट्टपटिमा खात्मनि घटयांचक्रे च । सुश्राद्ध महाजनेन तु साङ्गतिक क्रमुकनालिकेरी विविधवर्णवर्णनीयवासःप्रदानसाराभिरेकादशकृत्वः प्रभावनोपदाभिरुपस्थितश्चायं पर्वराजः । किं चात्र साधुमेहाक - सं० जसूश्रावकौ मासक्षपको, श्राद्धैका तु द्वादशपक्षक्षपका, अष्टाहिका कारिण्यस्त्वगारिण्यो गणनातीताः समपत्सत । एतच्च पर्वस्वरूपं पुरापि श्री पूजेभ्यः प्राभृतीकृतमभूत्, तथाऽप्यधुना स्थानाशन्यार्थं पुनरपि व्यज्ञपीति न पौनरुक्तमाशङ्क्यम् ।
[ चतुर्मासानन्तरसञ्जातनन्दि महोत्सववर्णना - ]
35
विज्ञप्तिलेखसंग्रह
दान इत्यक्षरद्वन्द्वं विभज्य जगृहे जनैः । उदारैरादिमो वर्णः स्पर्द्धयेवापरैः परः ॥ ७ ॥ राजानो दुर्जना मातापितरो गुरुबान्धवाः । त्रिह्यन्ते के न दानेन चिरं विमुखिता अपि ? ॥ ८ ॥
तथा -
1
कष्टानुष्ठानकर्त्तारो भूयांसः सन्ति पूरुषाः । केऽपि ते विरला एव शीलशुभ्राः सदैव ये ॥ ९ ॥ कलिदुर्वातपातेन कथञ्चिद् विधुरा अपि । शीलबोहित्थमास्थाय भव्यास्तीर्णा भवार्णवम् ॥ १० ॥ न त्रातारो न दातारो योगिनो न न भोगिनः । शीलपालकलोकानामर्घन्त्येकां कलामपि ॥ ११ ॥ अन्तरङ्गद्विषद्व्यूहं गलहस्तकदायकम् । तपः सुसाधुभिस्तप्तं निर्जराङ्गमकृत्रिमम् ॥ १२ ॥ विषमाण्यपि कर्माणि दुचीर्णानि कथंचन । तपस्तपनयोगेन क्षयं यान्त्यन्धकारवत् ॥ १३ ॥ प्रत्यूहव्यूहतो नाम लोको यद्येष शङ्कते । नादधीत कथंकारं तपस्तध्वंसमांसलम् ॥ १४ ॥ यदगम्यं यद् दुरापं दुःश्रद्धेयं च यद् भुवि । तदायासं विना भूता लभन्ते तपसा प्रियम् ॥ १५ ॥ दुष्कर्ममलसंस्पृष्टस्तावदात्मा न शुद्ध्यति । तपोऽग्निना स्वर्णमिव न यावज्जातु तप्यते ॥ १६ ॥ यक्षरक्षःफणिव्याघ्रा न तानाक्रमितुं क्षमाः । सिद्धमन्त्रोपमे येषां तपस्यास्था सनातनी ॥ १७ ॥
Jain Education International
तथा -
नरके नारकाः सन्ति सहन्ते दुःखमेव च । न तेषां भावना शुद्धा तस्माल्लाभो न किंचन ॥ १८ ॥ पुण्डरीका दिभिस्तैस्तैः श्रेष्ठैकाहव्रतादपि । कर्मग्रन्थिस्त्रोटितो यद् भावना तत्र कारणम् ॥ १९ ॥ सुचिरादविवेकोऽपि कृताज्ञानतपा अपि । भावनातो नरः शुद्ध्येत् तामली वामलाशयः ॥ २० ॥ दानं शीलं तपस्तुण्डमुण्डनादि सुबह्वपि । अफलं त्रुहिशाखीव यद्येका नहि भावना ॥ २१ ॥ अहो ! भावस्य भव्यत्वं विरत्यां विगताग्रहः । आर्जिजत् तीर्थकुलक्ष्मीं श्रेणिकः पृथिवीमिव ॥ २२ ॥ दानं दुरितनाशाय शीलं सौभाग्यवर्द्धकम् । तपः पङ्कविशोषाय भावना भवनाशिनी ॥ २३ ॥
९३. अथ सम्प्रति मिलितसर्वमहाजनो महाविस्तारस्फारो वाद्यदातोयस्तोमः पौषसित - पञ्चम्यां श्रीनन्दिमहः सम्पन्नः । तत्र च श्रावकाश्चत्वारः, श्राविकास्तु चतुर्विंशतिः, संयताश्च त्रयः, सर्वविरतिवर्जं तत्तत्तपश्चरणप्रमुखानभिग्रहविशेषान् परमयाऽहमहमिकया यथार्ह सर्वेऽप्यादद्रिरे । तदा च ताम्बूलादिदानप्रधाना विश्वाश्चर्यकरी सा काचित् प्रभावना श्राव
For Private & Personal Use Only
www.jainelibrary.org