________________
३. अथ ज्येष्ठकल्पविधानाद्यर्थप्रस्ताविका तृतीया वेणिः प्रारभ्यते ।
[साधुपार्श्वदत्त - हेमाभिधकृतसुकृत्यप्रशंसा -] ६१. अथ सङ्घागमनानन्तरं नितान्तमुदितचित्तौ सङ्घपतिभ्रातरौ साधुपार्श्वदत्त-हेमाभिधसुश्राद्धौ ज्येष्ठे भ्रातरि सौभ्रात्रवल्लरी पल्लवयन्तौ खं धन्यं मन्यमानौ निस्समानमानसोत्साहौ तत्तत्प्रभूतसाधर्मिकादिसत्क्षेत्रेषु विविधाशनादिप्रकारेण न्यायार्जितवित्तबीजवापं तथाऽकार्टी यथा कल्पान्तकालकीर्तनीयकीर्तिमतां मतिमतां सत्त्ववतां सत्पुरुषाणां द्वितीयतां धुरीणतां वा किलाश्चतुः। तत् किं बहूच्यते? यतः-य एव केचन यात्रारम्भे मनागवज्ञामनाटयन् , त एवाथ सर्वाध्यक्षं स्वात्मानं निन्दन्तः सुनिष्पन्नसङ्घकाणि श्रावं श्रावं प्रमोदाश्रूणि चातिविस्मयात् नावं स्रावं भद्दा इवैकान्तसङ्घकार्यभट्टिममुखरितमुखाः साक्षादीक्षिताः। तदहो! खलु लोको जितद्वितीयः कामितकामुको वाऽस्तीति विदांकुर्वन्तु श्रीपूज्या लौकिका- ॥ चारम् । किं च-सामान्येनाऽप्यनेन सङ्ग्रेन सङ्घद्वयमीलनादतिस्फारीभूतेन तेषु तेषु स्थानेषु सङ्घान्तरेभ्योऽसामान्यैः करणीयैः सर्वथाप्यत्यरिच्यत । तच्च सर्वमागन्तुका एव न्यक्षेण वक्ष्यन्तीत्यलम् । अथ यावद्दिनानि कानिचित् तत्रावस्थानमभूत् तावता श्रीमलिकवाहणीयः श्रीमम्मणवाहणीयश्च समुदायस्तत्र वन्दक आकारकश्च तुल्यकाल समुपागात् ।
ताततश्च खवास्पदमस्मान् विहारयितुं भृशमाग्रहीष्टाम् । वास्तव्योऽपि तथैवावस्थापयितुं निर्बन्धपरायण 5 आसीत् । ततोऽस्माभिर्वास्तव्यो यावद् रहस्याक्षरमन्त्रेण सम्बोधितोऽत्याग्रहाद् विरराम, 'आम' इत्याह च । तद् द्वयं तु तथैवान्योऽन्यं विवदमानं शकुनान्वेषणव्यपदेशेन समाधाय तत् प्रथमं मम्मणवाहनं प्रति प्रस्थिताः । सायं च दक्षिणेन गोमायवोऽरटन् । ततो मम्मणवाहनगमनमुपेक्ष्य सह तत्सङ्घन तदैव श्रीमलिकवाहनं प्राप्ताः । तदा च साधु द. मालाकेन प्रवेशोत्सवरङ्गः परिमितप्रसारोऽपि निखिलजनशोभासम्भारसम्पादको व्यधायि । येन सर्वजमो मनसि चमदकरोत्, इति।
[ तीर्थयात्राकरणानन्तरसमागतपर्युषणापर्ववर्णना -] ६२. अथ श्रीतीर्थयात्रामहापुण्यपीयूषकुण्डारचितसवना इव सुतरां सुस्थिरस्वास्थ्यभाज: सपरिच्छदाः ससङ्घाः सुपरिणामाः पुरा यावद् वर्तामहे; इतः प्रतिवर्षप्रतिनियतागमा श्रीपर्युषणाऽपि प्रत्यासीदिति।
ततश्चदान-शील-तपो-भावरूपो धर्मश्चतुर्विधः । भृशं प्राप्तावकाशोऽभूदेष्यति ज्येष्ठपर्वणि ॥१॥ अर्थमुक्तोऽपि दातॄणां करो गुरुतरो भवेत् । तत्पूर्णोऽपि पुनर्लातुर्लघुरेवेति मे मतिः ॥२॥ दानं दौर्गत्यनाशाय दानं दुरितदारकम् । आशाकल्पद्रुमो दानं प्रियं त्रिजगतोऽपि तत् ॥ ३॥ दानेन शासनौन्नत्यं यादृशा तादृशेन वा । तस्माद् दीक्षाक्षणारम्भे तद्व्यापारि जिनैरपि ॥४॥ 3॥ पश्य दानस्य सौभाग्यं वस्तुपालादयो यतः । जीवन्त इव मन्यन्ते यदुत्थयशसश्छलात् ॥ ५॥ अहो! दानसमं नास्ति जगत्रितयमोहनम् । यस्माद् दुष्टोऽपि तुष्टः स्यात् तथा शत्रुः सुहृद्यते ॥६॥
Jain Education Intemational
cation International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org