________________
विज्ञप्तित्रिवेणि स्तव्यास्तिकांश्च कांश्चन प्रवीणयन्तः, पञ्चाहोरात्राणि तस्थिवांसः। अथ पारेविपाशस्थितं श्रीवीरस्वामिपादमहाप्रासादकलितं श्रीनन्दवनपुरं प्रापिवांसः। तत्र च पूज्यपूजां विधिवद्विधाय सह तत्रत्यसङ्घनाऽऽगन्तुकसङ्घोऽपि खल्वात्मानं धन्यममन्यत । तत्र च सुविहितगुणपक्षपातरसिकमनोभिरात्मकरणीयातिनन्दिभिः शुद्धमार्गाभिनन्दिभिः सौजन्यसम्भिन्नसर्वभावैः पार्वतिकभूपाललोकपालितवचोभिः सह स्वयूथ्यैरनुमितसंविग्नपाक्षिक- । पदस्थैर्भृशमजर्यमासोसूत्र्यामहि रूपम्। ततोऽपि प्रस्थायातिनिविडतमसि निश्यपि पुरोवहमानाभि?तमानखद्योतरिंछोलीभिरन्तरान्तरा त्रुटत्तडिद्भिरिव समुजृम्भितचक्षुरायुष्याः कोटिल्लग्रामे क्रमेणाभिनवोत्तुङ्गशृङ्गरङ्गत्प्रासादे श्रीवामेयजिनेन्द्रदर्शनेन सफलप्रयासा बभूवांसः। सङ्घो यावता पूजादिककर्मणि प्रवृत्तोऽथ तावता वयं तमिति स्तोतुं प्रवृत्ताः
तथा चअभिमतफललाभकरं चिन्तामणिपार्श्वनाथतीर्थकरम् । यरलवशषसहवर्णैः किञ्चिदहं वर्णयिष्यामि ॥ ११० ॥
श्रीवल्लिराशिसुरसालरसालवाल !, श्वःश्रेयसाय सविहासरसोऽसहायः । अंहो विहाय सहसैव विशालबाहुः, श्रेयःश्रियं सह वृषैरिह शिश्रिये यः ॥ १११॥ यो विश्वसंशयबिलेशयरैशरीरः, यः संवरारिसबलाहववारवीरः ।। यो हर्षवासररविर्विषयारिरंसु, यो वेह संवरसरोवरशालिहंसः ॥ ११२ ॥ शेषाहिवावहिशरा बहुहावहेला-लीलाविलासविवशासु वशाखवश्यः । सेव्योऽसि वासवविशां सविशेषवीर्य-शौर्याश्रयोऽस्यविरलं सरलाशयोऽसि ॥ ११३ ॥ अर्हन् यशःसलिलराशिशशी रसायाः, सार्वः शिवालयविलासरसाय सोऽयम् । सर्वे सुरासुरसुरेश्वरसूरिसिंहाः, संसारवासविरहाय सिषेविरे यम् ॥११४ ॥ यः स्वैरिवैरिविलयाय सहः सहस्वी, स्वीयस्खवंशबहुलाम्बरशर्बरीशः । शश्वल्ललौ वशविहाररंसीह शीलं, श्रेयोरहस्यसरसीरुहसूर एषः ॥ ११५॥ (-चतुरर्थमिदम् ।) ये पञ्चवर्गपरिहारसमेतमेतत् , पञ्चाक्षनिग्रहपराः स्तवनं पठन्ति ।।
ते ही ! चतुर्थपुरुषार्थसुखं लभन्ते, तद्बोधिलाभसुभगास्तु ममापि बुद्धिः ॥ ११६ ॥ इति भगवन्तमभिष्टुत्य कृतकृत्येन सहैव सङ्घनानघीभवन्तः, अथ गिरिगह्वरकूटसङ्कटान् मार्गान् दुर्गमानुल्लङ्घयन्तः, कापि पर्वतप्रदेशोद्भूताभिः सप्रत्ययाभिस्तमः कवलयन्तीभिज्वलन्तीभिरौषधिभिरतिभाखरप्रदीपकलिकासाध्यं कर्म प्रत्यक्षयन्तः, पर्वतघद्यानतिक्रम्य पर्वतदेशमध्यगं नानाविधश्राद्धसङ्कुलं श्रीकोठीपुराभिधमहानगरं प्रापिम । तत्र च देवार्यदेवपादा विधिवदभिवन्दिताः। तत्र च सं० सोमाकोऽवारितवाहनासारं सरसशर्कराचूर्णपूर्ण भोक्तृमनोमोदकं महामोदकं प्रचुरघृतपूरपक्वान्नसम्पन्नशाकप्रीणितरसिकलोकमिन्द्ररसास्वादमाद्यद्रसज्ञरसनाविषयं स्तूपीभवदपूपं सुनिष्पन्नरूपं मुग्धस्लिग्धदध्योदनजनित-" जनसमाधानं सुगन्धिशालिपरिमलोद्गारमात्राप्यायमानजनं प्रसर्पत्सर्पिर्द्धाराप्रवाहप्रवाहिताहितदौर्मनस्यं नानास्वाद्यपेयलेह्यखाद्यहृद्यं प्रकाश्यमानबहुविनयप्रकारं श्रीसाधर्मिकवात्सल्योपचारं सारं कारं कारं तथा समस्तवास्तव्यवस्तुवित्तसार्थिकसङ्घपुरुषेषु सम्पन्नचित्तरङ्गः सुरङ्गश्चङ्गवसनदानेन मनागस्खलितचित्तस्ताम्बूलादिना च सचमत्कारं सत्कार चकार तथा, यथा सार्वत्रिकी प्रशंसामाससाद । इत्यलं बहूक्त्या । तदेवं देववन्दनसाव- 35
Jain Education Intemational
Jain Education Interational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org