________________
विज्ञप्तिलेखसंग्रह
नमिव तदनुमोदकं परमपि संसारभवाम्भोधिपारवर्त्तिनमिवानुमिनुमः । सपरिवारश्रीमदाराध्यध्येयपादप्रत्ययमपि विशिष्य श्रीजिनवन्दनं तत्रान्यत्रापि नामग्रहणपुरस्सरं विहितमस्तीति ज्ञपरिज्ञयाऽनुमोद्य तन्नमस्यकैरिव स्थानस्थैरपि प्राज्यं पुण्यं विटपनीयमिति । ___ अन्यच्च यथा योगं गोचरचर्यादिखार्थसिद्धये पुरान्तराले चङ्गम्यमाणाः कचिदुपधारायत्रं । मठस्थस्य महापुरुषप्रमाणानुकारिणः कान्तजात्यजातरूपनिष्पन्नस्य रेखाप्राप्तरूपस्य राज्ञो रूपचन्द्रस्य रूपेक्षणं चक्षुर्विश्रामसुखमुपलभमानाः, कचिच्च प्रत्यासन्नहिमाचलशैलराजकूटाहृतानि भीष्मग्रीष्मर्त्तावपि हिमानीखण्डानि पुण्यपुरुषयशांसीवात्यन्तं विमलान्युन्नयमानाः, अधिविपणिमार्ग च व्यापार्यमाणचारुचम्पकशतपत्रादिगन्धद्रव्यपरिमलबाहुल्येऽपि नाशाविषयं रसमनाददानाः, सततप्रवृत्तोत्सवानां गीतनृत्तनादरसलालसानां दिवश्युतानां देवी" नामिवानुपमतमतनुसौन्दर्याणां पौरपुरन्ध्रीणां श्रोत्रमधिगतैर्मधुरध्वनिभी रागमवगच्छन्तः, गृहोद्यानवर्तमानाम्रतरुपरिपाकिमफलेषु मुग्धलोकोपनीतेष्वपि जिह्वालौल्यलेशमप्यस्पृशन्तः, विचित्रभूर्जपत्रवन्मृदुलस्पर्शान् कम्बलान करस्पर्शमात्रतायामुपढौकयन्तः, यावद्दशदिनीं तत्रावतस्थानाः। ततश्च-'तिष्ठथ चतुर्मासीम्, वयमपि शुद्धश्रावकीभवामः, महांश्च लामो वः, कुरुध्वमनुग्रहमस्मासु'-इत्यत्यन्ताग्रहपरान् नामश्रावकान् तत्रत्यान 15 जीदो-वीरो-हर्षो-चंभो-संभो-गंभो-प्रमुखान् कथमपि सम्बोधयामासिवांसः । ततः सर्वेष्वपि विहारेषु जिनेन्द्रपादानधिकृत्य सपरिवाराः ससङ्घाः सगद्गदखरा बाष्पप्लुतेक्षणाः प्रास्थानिकी चैत्यवन्दनां सुचिरमारचय्य ललाटघटिताञ्जलयः खल्वेकान्तशान्तरसवशीकृतखान्तास्तदानीम् -
तव दर्शनमेवास्तु किमन्यैः प्रार्थनाशतैः । सरागचेतसोऽप्युच्चैर्लभन्ते निर्वृतिं यतः ॥ १०६ ॥ 26 वारं वारमियं चिन्ता वारं वारमियं कथा । यदहं त्वां प्रपश्यामि भूयो दर्शनमस्तु ते ॥१०७॥
तदित्थमग्रजगन्नाथमभ्यर्थनामिमां प्रथयित्वा, असकृच शिरःप्रणाम कारं कारं कथश्चित् तीर्थमहामोहप्रतिबन्धवशात् स्खलितपादप्रचारं क्षणं शून्या इव हृतहृदया इव ततः प्रस्थातुमुदयच्छाम।
अथ चज्वालामुख्या जयन्त्या च श्रीमदम्बिकया तथा । वीरेण लङ्गडाख्येन यदसेवि सदैव हि ॥१०८॥ संसारसागरोत्तारतीर्थात् तीर्थोत्तमात्ततः। श्रीमन्नगरकोटाख्यात् प्रस्थिताः सह सार्थिकैः ॥१०९॥ (युग्मम् ।)
[नगरकोट्टतीर्थात् कृतप्रस्थानस्य संघस्य मागितान्यस्थानवर्णना-] ६१२. अथ गिरिसरिदुपशैलेलातले वहन्तः, एकतः किल 'पवउ खोहउ' इति मृदुलघुशिशूनिव किञ्चिव्यक्तवाचा संशब्दनेन गिरिभुवि पथिकेभ्यो ह्य विश्वासशिक्षामाख्यान्त इव । " शांश्चन पक्षिणः पदे पदे प्रदक्षिणीबभूवांसः। अन्यतः पुनस्तत्प्रतिषेधयिषयेव काश्चन विपश्चित इव 'होकोकिमइ, होकोकिमई' इति स्फुटप्रतिरावेण जगद्वैचित्र्यं प्रचिकटयिषून विहगान् स्वात्मनि माध्यस्थ्याद्वैतमुत्तेजयन्तः शुश्रुवांसः। विस्मयस्मेरिताऽऽनन्दाटोपा गोपाचलपुरतीर्थ जग्मिवांसः। सं० घिरिराजकारितोत्तुङ्गप्रासादस्थं श्रीशान्तिनाथं सगौरवं च प्रणेमिवांसः। अत्र च देवसेवापराः सङ्घकृलानुमोदनासमाहितहृदः सदसद्विवेकं प्रतिवा
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org