SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेणि सर्वस्यापि बहुमानसारं सत्कारं चकार । 'अहो ! आर्हतो धर्मो विजयते!, धन्यमिदं मतातराजय्यं श्रीजिनशासनम्, यत्रैवं विद्वत्तादिगुणा निरुपमाना विभान्तीति। अनन्तरं च चञ्चच्चन्द्रकान्तादिविविधवर्णदैवतालङ्कृतं देवागारं खकीयं दर्शितवान् । अचकथञ्च खव hणान् - 'यदस्य सङ्घस्य प्रवेश-निर्गमयोर्न स्खलना कार्या ।' अथ 'प्रत्यासीदति नः सान्ध्यो विधि:'- इत्यादिना प्रतिगमनाय प्रत्याय्यमानोऽस्माभिः कथञ्चिदेवं महाप्रणयावि-5 र्भावकमिदमवादीत्मा गा इत्यपमङ्गलं, व्रज इति स्नेहेन हीनं वचः, तिष्ठेति प्रभुता, यथारुचि कुरुष्वैषाऽप्युदासीनता । किं ते साम्प्रतमाचरामि हितमेतत् सोपचारं वचः, स्मर्त्तव्या वयमादरेण भवता भूयात् पुनर्दर्शनम् ॥ १०४॥ ततस्तमापृच्छय श्रीजिनशासनप्रोन्नतिदर्शनोत्सर्पत्प्रमोदप्लुतहृदयाः स्वमठमागताः। [ नगरकोहस्थितजिनमन्दिरविधीयमानोत्सवादिवर्णना-] ६११. अथाऽपरेाश्चातुर्वर्णवन्द्यमानार्हद्विम्बभूषितेषु तेषु चतुर्वपि प्रासादेषु महत्युत्सवे श्रीदेवमहापूजावसरे क्रमेण श्रीसङ्घश्रावका गन्धोदकसम्भृतैः स्वर्णकलशैः श्रीजिनचन्द्र पादान दर्शनदत्तमनःप्रसादान् यथाविध्यसिलपन् । तदनु सुलभैः शुभगन्धवन्धुरचम्पकपवित्रशतपत्रप्रफुल्लमालतीजात्यादिजात्यपुष्पैर्बहुभङ्गीभिरपूपुजन् । पेशलफलपक्कान्नाक्षतादिबलिं पुरो जगद्गुरूणामुपाहरंश्च । ततश्च चतुर्विधश्रीधर्मास्थास्थेमोत्पादकेषु चतुर्ध्वपि काञ्चन- 15 कुम्भोपलम्भसम्भावितद्रष्ट्रमनःप्रसादेषुप्रासादेषु गर्भागारादाराभ्यादण्डकलशावलम्बिनो ध्वजान् व्यदीधपन् । तदा च रेणुर्वाद्यानि, जगुः कुलनार्यः, नृत्यन्ति स्म विस्मेरास्या नागर्यः, ददुहल्लीसकानि बालाः, ताड्यन्ते तालाः, खेलन्ति खेलास्ते चात्यन्तं सहेलाः, दीयते यथेच्छं दानं, यथा दूरेत्यतामश्चति दुरितविगानं, प्रगुणीभूता सुगतिः, प्रणष्टा कुगतिः, वर्द्धते धृतिः, विशीर्यते कुमृतिः, उच्छृसन्ति दानिनः, लभन्ते मानं मानिनः, 10 खिद्यन्ते कृपणाः, विकसन्ति वितरणनिपुणाः, जाग्रति योगिनः, विहसन्ति चैत्यनियोगिनः, निजचित्ते चमत्कुर्वन्ति ज्ञानिनः, समाधिमधिश्रयन्ति ध्यानिनः, प्रमीलत्यविद्या, उन्मीलति विद्या, विलसति पुण्यम् , वर्द्धते श्रेयः। किं चतन्मन्ये येन दृष्टोऽयं श्रुतः स्नात्रोत्सवोऽथवा । यदि तस्य मुदे न स्यादत्र प्रतिभुवो वयम् ॥ १०५॥ ॐ तदनु च भट्टचट्टनटबटुकवाडवादिदुःस्थित-सुस्थितजनसाधारणानि शालिसप्पिस्साराणि सङ्घकारितानि अवारितानि भोजनानि सर्वत्र प्रावृतन् ; यानि रहःस्थितमप्यवदान्यं प्रकाशयन्ति । अथाष्टमीदिने श्रीशान्तिजिनविधिचैत्ये जयजयशब्दमुखरेषु बन्दिवृन्देषु महोद्दण्डे भवत्युत्सवे मेघराजगणि-सत्यरुचिगणि-मतिशीलगणि-हेमकुञ्जरमुनि-कुलकेसरिमुनीनां पश्चमङ्गलमहाश्रुतस्कन्धाद्यनुज्ञाहेतुकां नन्दी मिलितेषु नागरेष्विव सङ्घजनेषु व्यधासिष्म (४० तत्र चाश्रान्तं स्थाने स्थाने देववन्दनावहिताः कार्यान्तरपराङ्मुखा भ्रामं भ्रामं भावपूजया जगदीशान त्वरया श्रद्धया सम्भावयन्तः, सङ्घश्राद्धविधीयमानां द्रव्यपूजां चानुमोदयन्तः, सह जन्मना निजजीवितमपि कृतार्थ गणयन्तः, यावद्वारानष्टोत्तरं शतमपि चैत्यपरिपाटीं पश्चशक्रस्तवाविर्भावसारां सपरिवारा वितेनिवांसः । इत्थं श्रेयःकृत्येन पुण्यलभ्येन स्वात्मा Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org For Private & Personal Use Only
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy