________________
विज्ञप्तित्रिवेणि
यदाहुश्चिदानन्दसन्तानरूपं श्रितानां भयनं परब्रह्मयाताम् ।
दयालो ! तदेव त्वदीयं प्रपद्ये शरण्यं पदद्वन्द्वमाविष्कृतायम् ॥ ८८ ॥
जयति जयतामर्त्तिच्छेदी युगादिजिनः परं, तदनु विजयन्ते योगीशा बुधा जयसागराः । तदधिमहिमस्तोत्रं हारं तदन्तिपदः कृतिं दधदलमुरोदेशे भव्यो जनो जयतादयम् ॥ ८९ ॥ जन्मजीवितगिरां सफलत्वं मङ्गलं च वृषभेश ! ममाद्य | यत्नतोऽसमसमांसनितान्तं यन्महावृषगतेऽधिगतोऽसि ॥ ९० ॥
इति हि नगरकोट्टालङ्कृतेरा दिनेतुः, स्तवनमजनि पूर्णं हारबन्धाभिधानम् । अहह ! सुकृतयोगः कोऽपि मे स्फातिमागा - दिति वदति यथावत् प्राञ्जलिर्मेघराजः ॥ ९१ ॥ तदित्थं यावता प्रस्तुतस्तवनादिविधानेन कृतकृत्या इव जाताः ।
*
[ नगरकोट्टाधिपनृपतिकृतस्वागतादिवर्णना - ]
१९. इतश्च - श्रीचन्द्रोज्वलसोमवंश विशदमुक्ताफलायमानावतारेण षट्त्रिंशद्राजकुलीशृङ्गारसारेण चपलोच्छृङ्खल भूपाललक्ष्मीकरेणुका चापलसंयमन निस्समानालानस्तम्भभूतोtusदोर्दण्डेन विषमविविधविकटस पादलक्षपर्व्वतमालाबलगर्विष्ठाक्षोदिष्टविपक्षक्षोणीनाथशिरोनिवेशितनिजाज्ञास्फारप्राग्भारेण प्रबलातुलशक्तिन्नृपतिमतल्लिका विनयवेल्लच्छिरःकमलपुपूजयिषितचारुचरणेन्दीवरेण धनसमृद्ध्य पहसितधनदेन सौराज्यजनितजनानन्देन सर्वषड्दर्शनविश्रामच्छायापादपेन विशिष्य श्वेताम्बरभिक्षुवलक्षपक्षपातोपलक्षितचिच्चक्षुषा पितृपर्य्यायागतखसौधमध्यस्थितश्रीयुगादिजिनभक्तिपुषा निजमुखकोमललावण्यापहसितचन्द्रेण भूभुगनरेन्द्रचन्द्रेण, आत्मीयप्रधानपुरुषैः सबहुमानमाहूताः सङ्घसङ्गताः, ततश्चातुर्वर्ण्यजन महत्तरैः परितोऽलङ्कृतं विचित्रमपि सचित्रमतुलमपि सतुलं विशालमपि सुविस्तीर्णशालं निजशोभापराभूतपुरहूतास्थानं तदीयसभास्थानं प्राप्ताः । ततश्च वीज्य- 20 मानवरचामरं स्वरूपान्तरावस्थितं चामरमिव वरेण्य हिरण्यमणिमय सर्वाङ्गीणाभरणशृङ्गारसौन्दर्या पहसितमारं सकलकलाकुशलं ग्रहगणमध्यवर्त्तिनं निशावल्लभमिव राजसभावस्थितं पुरुषोत्तममिव तमद्राक्ष्मोऽक्षाममुदः ।
अथेषन्नम्रशिरसं तमधिकृत्य निर्ग्रन्थ भाण्डागार सर्वस्व भूताशीर्वादसन्दर्भगर्भमुद्वाहवः पद्यमिदं स्मोदाहरामः -
Jain Education International
५९
For Private & Personal Use Only
20
15
तद्यथा
लाये जन्म कुले तनौ सुभगता हृद्या कला सद्वधूः, सन्तानर्द्धिसमृद्धिसौख्यमतुलं भोज्यं च राज्यं परम् । चत्रित्वं त्रिदशाधिपत्यमपि ही ! प्राप्नोति जन्तुर्यतः सोऽभीष्टार्थविशुद्ध सिद्धिजनकः श्रीधर्मलाभोऽस्तु वः ॥९२॥ अपि च
30
कङ्गदककोदृकन्दरमध्यासीनो रिपुद्विपान् हत्वा । श्रीमान्नरेन्द्रचन्द्र क्षितिपतिहरिणाधिपो जयति ॥ ९३ ॥ अथ च जलार्थं कस्मिन्नपि जने कृतभ्रूसमाभाव्य नृपतिं प्रस्तुतमिदं स्माचक्ष्म हे - वक्त्राम्भोजे सरखत्यधिवसतितरां शोण एवाधरस्ते, बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं, स्वच्छेऽन्तर्मान सेऽस्मिन् किमिव नरपते तेऽम्बुपानाभिलाषः॥९४
25
www.jainelibrary.org