________________
विज्ञप्तिलेखसंग्रह दिष्ट्या दृष्टे तेऽम्बुजोजिष्णुवके दूर नष्टाऽऽदिप्रभो ! क्लेशराजिः।
नन्वारूढे भास्करे पर्वतं तं ध्वान्तं किं न क्षीयते निष्कलापम् ? ॥ ७१॥ रयापारसंसारनिहारसूरं रजोभारसंहारणासारनीरम् । कृपालुं रसालं महाधीवरं सत् प्रभावं महामोऽञ्जसाऽधीश्वरं तम् ॥७२॥ (-नायकमणिः।) तरन्ति सन्तो विपदर्णवं ते पोतायितं येऽनुसरन्ति तेऽदः।। नतं पदाब्जं भुवि सावधाना यस्मान् मनुष्येष्वथ शर्म भावि ॥ ७३॥ जगत्प्रभुः सत्यनयः स्वयम्भूः स्याद्वाद्यजन्मा निहतान्तरायः। तेजोमयस्तात्त्विकयोगगम्यो जीया गतेह ! त्वमघाद्रिवायो ! ॥ ७४ ॥ गीर्वाणपद्माप्यतिशायिनी सा तावच गीयेत मरुद्भवीशा । बुधैर्न यावद् बहुधांहिभक्तेः शक्तिः प्रबुद्धा जिन ! तेऽस्तबाधा ॥ ७५॥
जन्मभूषितनिजायतवंशं देशनाजनितभव्यशिवायम् । साधितेष्टसुखसङ्गमरङ्गं भद्रसान्द्रमभिनौमि सदङ्गम् ॥ ७६ ॥ राकाशशाङ्काननमादिदेवं वन्दे युगादौ जगदुद्धरन्तम् । तं रङ्गदुत्तुङ्गयशःसुरंहं हरत्तमं लोकभवोरुकाराम् ॥ ७७॥ नय प्रभो ! सेवकमात्मसङ्गं जय प्रभावोद्वलितान्यपङ्क !। नमन्महाराजकृतोरुभागधेय ! प्रयच्छाऽविकलं चरित्रम् ॥ ७८॥ वरं गृहं हाववती च नारी वा च लक्ष्मीर्भवतोऽनुभावात् । वरेण्यलावण्यवचास्ततोऽहं वहे तवाज्ञां भव मे शिवाय ॥ ७९ ॥ दर्शनं दुरितरोधि तावकं नाभिनन्दन ! भवेद् भवावधि । मज्जतान्मम मनोहिमरश्मिस्त्वद्गुणामलमहाम्बुनिधौ हि ॥ ८॥ महामोहमायत्तमस्तोमभानोरखण्डोत्तमज्ञानसकेतवास्तो!। त्रस-स्थावरप्राणिमोहान्तकस्य स्तवासूत्रणात् ते जनः स्यादनंहाः ॥ ८१॥ रवीन्दुप्रदीपप्रभूतप्रभाभ्योऽधिकं विस्फुरद्दर्शनं तेऽद्य जातम् । दयार्दा स्वदृष्टिं त्वमातिष्ठिपश्चेत् सुधाम्भो मदङ्गे न चित्ते विभाति ॥ ८२ ॥ पडंहिवत्खेलतु पादपङ्कजे तवाऽरुषं मे हृदयं सभन्द ! । कृताश्रयार्थे हि कृतिप्रकाण्डा यत्रासकृत् खर्दुमतां वदन्ति ॥ ८३ ॥ दलन्तं दरं भन्दमाकन्दराधं दयाकन्दलीकन्दमानन्दसारम् । नतस्त्वां शुभंयुः कुकर्माण्यधस्तात् प्रकर्ताऽस्मि कहींश नम्रामर ! श्राक् ॥ ८४ ॥ धराधीशधीरं महोदध्यगाधं निरस्तक्रुधं प्रावृषेण्याब्दनादम् । लसन्मुक्तिलक्ष्मीवरं मुक्तमोहं महामोऽमलज्ञानमानन्दतोऽमुम् ॥ ८५॥ रोचीींचीप्रोल्लसद्देहदेशे सौम्याकारोक्षितान्तःप्रमोदे ।
शेषस्फूर्जद्योगलम्भप्रविष्टे दृष्टेऽधीशे जायतामिष्टलाभः ॥८६॥ व्योनो मानं वेत्ति यौऽजः प्रकारैर्बुद्ध्या काव्योऽप्येषु ते तीर्थराज ! । नो सोऽपीशो यद्गुणान् जल्पितुं ही ! तत्को मानो मेऽत्र मूर्खत्वभाजः ॥ ८७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org