SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५४ विज्ञप्तिलेखसंग्रह तेषु रसेषुः सुश्राद्धाचारधुरीणस्य तथाविधोदारकार्यप्रवीणस्य साधुश्रेष्ठ सोमाकस्यानिच्छतोsपि सङ्घाग्रहात् तथाविधां योग्यतामवधारयद्भिर्विधिवत्सङ्घाधिपतिपदं व्यदायि । तेनापि पात्रापात्र सापेक्षं दानमदायि । विशिष्य सङ्घोऽपि मुत्कलकर कुडलनिर्गतेन ताम्बूलादिना देयवस्तुप्रकारेण तथा रञ्जितो यथा प्राचीनानपि सङ्घपुरुषान् विस्मारितवान् यदि भविष्य• तीति । किं बहूच्यते, ह्युत्सवोऽयं सर्वाङ्गसुन्दरः संवृत्तः । तदा च मल्लिकवाहननिवासिना साधूद्धरेण पाश्चात्यवाहनपदं गृह्णता कुलमप्युद्धृतम् । अपि च सं० मागटपौत्रः साधुदेवाङ्गजो महाधरपदमुद्धरः सम्मदात् समुपादात् । अन्येऽपि साधुनीवा - साधुरूपा - साधुभोजाख्यास्त्रयो महाधरतामेवाधार्षुः । सैल्लहस्त्यं तु बुच्चासगोश्रीयसाधुजिनदत्त सुश्रावके निदधे । एतैश्च सङ्घपत्यादिभिर्यदवदानमाधायि तद्वयं वक्तुं न " शक्ताः, परन्तु तत्करणीय चिन्तनप्रभावजः पुलकस्त्वद्यापि नोदास्ते । 15 20 25 20 किन्तु - साधम्मिंकवात्सल्यप्रमुखो यो विधिस्तदा । चक्रे वक्रेतराकूतैः स तैरेव भवेद् यदि ॥ ४० ॥ अथ कृतकृत्येषु तेषु तेषु सङ्घपुंस्सु द्वितीयदिने तदवदातं दृष्ट्वा गर्जनव्याजेन []गुणानुद्गृणन् तद्दानस्पर्द्धयेवानिवारितप्रसराभिः साराभिः सलिलधाराभिः ग्रीष्मताडितां पृथिवीमाश्वासयन्नदृष्टपूर्वमहावर्षोपलवर्षेण पान्थान् यथा कथञ्चित् कातरयन्नतिप्रचण्डपवननिपातेन पटकुटीकुटीरकादि विसंस्थुलयन् माधवोऽवर्षीदिति हेतोस्तत्र महाव्रतमिता वासरा अवस्थानमवेक्ष्य लग्नाः । [ सपादलक्षपर्वतमालागतप्रयाणवर्णनम् - ] ९६. अथ सपादलक्षपर्व्वतभुवं सह सङ्केनोल्लङ्घयितुं यथावत् प्रवृत्ताः । Jain Education International यत्र च - षट्खण्डान्यतमं खण्डं यद्वा द्वीपान्तरं किमु । परदेश्या विकल्पन्ते दृष्ट्वा शिलोच्चयानिति ॥ ४१ ॥ उच्चगां तारकश्रेणिं परिचेतुमिवोच्छ्रुताः । शैलाश्चाभ्रंकषैः शृङ्गैर्निर्झरोद्वारनिर्मलैः ॥ ४२ ॥ वीथ्यां वितस्तिमात्रायां सञ्चरन्नतियत्नतः । जनोऽधःपातभीत्यापि साधुचर्यां श्रयत्यहो ! ॥ ४३ ॥ दिवापि सिद्धाञ्जनवन्नेक्ष्यन्ते भूमिगैर्नरैः । वीक्ष्यन्तेऽधित्यकासंस्था वानरा इव वा नराः ॥ ४४ ॥ दुर्लभाम्रफलावाप्यै कक्र्क्करैः कोपयन् कपीन् । फलं तैरस्त्रतां नीत्वा जनश्चक्रे समाहितः ॥ ४५ ॥ भूमिदेशोद्गता वृक्षाः ये चाद्रिशृङ्गसङ्गताः । शीर्षे द्वयेऽपि ते साम्याद् बद्धस्पर्द्धा इवावृधन् ॥ ४६ ॥ उच्चैः शाखाशिखालग्ना इव तारा निशागमे । वृक्षाधस्तात् सञ्चरतां कुर्वन्ति कुसुमभ्रमम् ॥ ४७ ॥ विचित्रवर्णैः कुसुमैः सम्पन्ना वनराजयः । प्रादुष्कुर्वन्त्यकालेऽपि सन्ध्याभ्ररागसम्भ्रमम् ॥ ४८ ॥ अन्यच्च - तादृक्षतीर्थमाहात्म्यवृष्टिप्रतिहता इव । दवाग्नयो वनप्लोषा नोत्तिष्ठन्ते कदाचन ॥ ४९ ॥ मालतीयूथिकाजातिप्रमुखास्तरुजातयः । पुष्पगुच्छैरभुर्नम्रास्तरुण्यः स्वस्तनैर्यथा ॥ ५० ॥ प्रफुल्लैः कुसुमैर्वल्यः समीरा वेगवेल्लिताः । अवाकिरन्ति श्रीसङ्घ गुरुं लाजैरिव स्त्रियः ॥ ५१ ॥ मल्लिकाफुलकल्हारकेतकाख्याश्च शाखिनः । शाखाभङ्गेऽपि मधुरा ददुः पुष्पाणि सार्थिनाम् ॥ ५२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy