SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 10 अयं नदपरिसरः, एते च सान्द्रद्रुमच्छायाः प्रदेशाः एते च तुङ्गतरङ्गोद्गृहीत पृषत· शीतला अनिलाश्च, यथासमयोपपन्ननिरुपाधिसुखसाधनं तदस्य वचनं तथ्यं सम्भावयंस्तत्रैव सङ्घजनः समग्रोऽपि स्थितिं व्यरचयत् । अथ च - 15 विज्ञप्तिलेखसंग्रह तदा च - सारङ्गास्तरुकोटराणि शरणीकुर्वन्ति तापार्द्दिताः, हित्वा रङ्गममी विहङ्गमगणाः कुञ्जं भजन्तेऽञ्जसा । वीथ्यः पान्थनखंपचोच्चरजसा जाता अमूर्दुर्गमाः, तेजोराशिभिरुत्सृते दिनपतौ जाते ललाटंतपे ॥ १९ ॥ 25 ५२ 20 प्रदेशे सजले केऽपि तस्थुः केऽपि तरोस्तले । आर्द्रदुर्वावणे केचित् पान्थानामीदृशी दशा ॥ २० ॥ हंसवत्सुचिरं कृत्वा जलकेलिं नदाम्भसि । केऽपि निर्वापयामासुर्मनांसीव वपूंष्यपि ॥ २१ ॥ समाधिमानसौ जातः प्रयाणमकरोत् ततः । अथ क्रमात् समायातस्तलपाटकसन्निधिम् ॥ २२ ॥ तत्पुरोपवनेषु चतुष्पथेष्विवोद्गन्धिसौगन्धिकेषु मन्दमृदुमरुदन्दोलिताभिर्लताभिवीज्यमान इवातुच्छ गच्छच्छायाच्छलेन च्छत्रेणाभूष्यमाण इव पिककोकचापादिपक्षिकारैः स्वागतं तद्वनाधिष्ठात्र्या पृच्छ्यमान इव कापि महाशोणाभ्यर्णे कीर्णकमलमकरन्दबिन्दुवृन्दसौगन्ध्यस्पृहणीये भूभागे प्रयाणविच्छेदमकरोत् सः । तत्र च पवित्रविकसितपद्मवन रामणीयकमनालोकितपूर्वं निर्वर्णयन्तो जना एवमूहांचक्रुः 20 किमन्यत् ? एके पद्मवनं दृशा निपिवन्तोऽङ्गुलिभिः पार्श्वगान् सौत्सुक्यमाहुः - “पश्यत पश्यत भोः ! कथममीषु कमलेषु सुगन्धलाभलोलुपा मधुपाः पतन्ति ? । कथं चाकृतपरपीडाः साध्वापीडा इव रसमा - हरन्ति ? । अस्माभिरहो ! कूपमण्डुकप्रायैरियद्यावद्यन्नानुशीलितं तदपि गृहान्निर्गतैदृष्टम्” - इति । अन्ये तु दाडिमीफलेषु तेष्विव बीजपूरेषु फलितपुष्पितेषु तद्वदात्रेषु द्राक्षाखर्जूरीषु च चक्षुः क्षिपन्ति स्म, तदभिलापपराङ्मुखं नतु मुखम् ; इत्येवं यावत्तदभिनवदर्शनोत्पल्लवितचक्षुरानन्दः सङ्घस्तत्र प्रदेशे यावदास्ते, तावता - किममी सलिलाधिदेवतानां प्रत्यक्षाः प्रसरन्त्यहो ! कटाक्षाः ? | किमु वा शुचि तन्निवासयोग्या तासां सौधपरंपरा जलान्तः १ ॥ २३ ॥ “अभिगमणवंदणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचियं पि कम्मं खणेण विरलत्तणमुवे ॥ २४ ॥” -इत्याद्यर्थजातं कृतार्थयन्निव श्रीदेवपालपुरीयः सङ्घो गुरुवन्दको डुढौके तथाविधातकितगुरुसमागमोत्कण्टकितः । तदा चास्माभिरपि तथाविधोपदेशरसायनेन सम्भावितः परमास्थास्थैर्यं तथार्जिजत् खशासने यथा मिथ्यात्वकन्दकुद्दालेषु पुरुषेषु प्रथमां रेखां खल्वात्मनः समपूपुषत् । ततश्च - “भवन्तोऽस्मदास्पदं पवित्रयन्तु स्वपादावधारणेन " - इत्यवितथकृताग्रहं तं कथञ्चित् सम्बोध्य पुरः प्रचेलिवांसः । [ मध्यदेशप्रयाणवर्णनम् - ] ९४. ततश्च विपाशा कूलंकषायाः कूलमनुव्रजन्तः कचिद्वेतखतः कापि कुमुद्वतः, कुत्रापि नडकीयाननूपदेशान् शालान् सरसान् दृग्गोचरयन्तो मध्यदेशं प्राप्ताः । यत्र गोसङ्कुला ग्रामाः बहुक्षीराश्च धेनवः । क्षीराणि प्रचुराज्यानि नकपेयानि तान्यपि ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy