SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिलेखसंग्रह २. अथ तीर्थयात्रार्थसमर्थिका द्वितीया वेणिरारभ्यते । ___ [तीर्थदर्शनार्थकृतप्रयाणावसरे संजातशुभशकुनवर्णनम् -] ११. तथा च,श्रीसङ्घस्य प्रयाणावसरे शुभोदकसम्पर्कशंसिभिःशकुनैश्चेत्थं विजृम्भितम् - यथा सङ्घस्य प्रस्तुतपुण्याशासाफल्यं सम्भावयन्त्य इव सावशेषा आशाः पुण्यप्रकाशा आसन् । परमाराध्यसान्निध्यकृतमार्गविघ्नभञ्जनस्य यात्रिकजनस्य भाविसुखव्यञ्जना इव प्रभञ्जना अनुकूलं ववुः। नास्ति किञ्चिद् युष्माकमवामदैवानां दुर्गममिति कथयन्तीव दुग्र्गा वामा शब्दं चकार । शङ्कुकर्णोऽपि खात्मनि प्रस्तावदक्षतामिवारोपयन् वामदिग्भागमाश्रित्य कोकूयामास । मौक्तिकाख्यः श्वा सव्याह्वां श्रयन् साधूनां प्रस्थानमगले सान्निध्यमिव व्यधात्। अपि चकुम्भोऽम्भोनिभृतोऽभ्यगादभिमुखं शङ्खो जुघोष क्षणं, क्षोणीशाभिगमः सवत्ससुरभेरीक्षा च ढोलध्वनिः । फेरमिरवश्वुकूज मधुरं जातत्वरस्तित्तिरि-रेवं सच्छकुनावलीद्विगुणितोत्साहा वयं प्रस्थिताः ॥१॥ [विपाशातटिनीतीरकृतप्रथमप्रयाणवर्णनम् -] ६२. ततश्च नाऽतिदूर एव जम्बूकदम्बनिम्बसर्जार्जुनखर्जूरीप्रभृतिवनस्पतिश्रेणिसच्छाये 15 बहुलकमलकिचल्ककल्ककलितसौरभभाखरेण सरित्तुङ्गा_लिहलहरिलीलान्दोलनोद्धृतपृषत शीतलेनानिलेन सेवनीयतया मनोहारिणि मुक्ताकणशङ्खवलक्षसिकतोल्लसद्भासि विपाट्तटिनीरोधसि सङ्घः प्रथमप्रयाणविराममकरोत् । ततश्चविकचकुवलयास्या सम्भ्रमद् भृङ्गमालोज्ज्वलबहलकटाक्षी पीनचक्रस्तनाढ्या । जललवणिमरम्या दर्शिताऽऽवर्तनाभिश्चललहरिभुजाभ्यामाह्वयन्तीव दूरात् ॥२॥ कासहंसपरिहासलीलया तं रिरंसुजनमुत्सुकयन्ती। नव्यशष्पवसना व्यलोकि सा सिन्धुदम्भवशतो वराङ्गना ॥ ३॥ सन्मार्गरोधिनी सर्वपथीनां तां च निम्नगाम् । शुद्धामिव मन्यमाना अतिचक्रमिम क्रमात् ॥ ४॥ [तदनन्तरमागाँगतान्यान्यस्थानप्रयाणसूचनम् -] 25 8३. तामुत्तीर्य च क्रमेण श्रीसङ्घो नानाग्रामानिवाऽऽरामानुल्लङ्घयन् श्रीजालन्धराननु प्रचचाल।चलिते च तस्मिन् विस्मितान्यलोके सकलमहीवलयलङ्घनजङ्घालाः करकृतकरवाला महाभुजा भुजावलग्नबलसम्पत्तयः पत्तयः केचिद्याष्टीकाः केचिद् बलाधिकाः पारश्वधिकाश्च, क्षेऽपि दृढवपुष्का धानुष्काच, केचन वीरकोटीराः काण्डीरा नैस्त्रिंशिकाश्च, प्रोल्ललन्तः कूदन्तः पुरःस्फुरन्तो गर्जन्तो नानारूपप्राप्ता मूर्त्ता वीररसांशा इव खामिकार्यदक्षा बद्धकक्षाः पुर३० स्तादुच्चेलः। तत्पृष्ठे च स्थौरीप्रष्टा विशिष्टा भूयिष्ठास्त्वरया तुरगानपि मन्दगतिकानिव सम्भावयन्तःप्राचालिषुः। इत्थं च ते ते सङ्घजनाः केचिद् वाहनारूढाः, केऽपि गुरुदेवभक्त्यतिशयात् पादचारिणः, केऽपि मुक्तोपानहश्व वयमिव प्रस्थितवन्तः। तदा च प्रचलत्सवजनान Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy