________________
विज्ञप्तित्रिवेणि
प्रकटं गायनेषु परिसपत्याकाशं स्वर्गिणामिदं वृत्तं निवेदयितुमिव वादिवनिनादे शुभवेलायां ग्रामठक्कुरादिलोकसमक्षं श्रीआदिजिनप्रतिमां प्रत्यतिष्टिपामतमाम् ; एवं तोष्ट्रयांचकृम चतंतंतुतातो तीतेतिः, तांतांतांतततोतुत । नृनांनिनुन्ननानैना अन्नेनो न इनो ननु ॥ १२९ ॥ ___ सम्पन्नमोक्षावसथो विकल्मषः समापयंस्तामसमयमोपमः ।
सनातनोद्दामसमृद्धिशस्यः स वः प्रदत्तामसमं शमुद्धरम् ॥ १३०॥ वन्दितो वृषभेश ! त्वं महामहिममन्दिर ! । महाशयस्य भक्तस्य समाधिभरमीश्वर ! ॥ १३१ ॥
(-अष्टारचक्रम् , परिधिश्लोकः, क्रियागूढश्च ।) तदित्थं सङ्घकार्यमाचर्य तत्कालागत-सारामा-सा०सोमा-हेमा-सादेवा दस्सू-पुरस्सरफरीदपुरीयसङ्घामन्त्रणेन ततो विहृत्य पद्धत्यन्तरालायातेषु तेषु तेषु बहल भक्तिभावमञ्जलवि- 10 पुलश्रद्धालुकुलमण्डलाभिरामेषु ग्रामेषु तत्रत्यजनकारितानुत्साहोत्सृतपताकापल्लवान् पदे पदे प्रवेशोद्धवान् साक्षात्कुवन्तः, क्रमेण प्रस्तुतास्पदमलमकाम। ततश्च सो गणकमुपवेश्य सङ्घयात्राप्रस्थानमुहूर्त निश्चिकाय । तदा चावसरे गुर्वास्थास्थेमभाजः सुबहवो बहुमन्यन्ते स्म । यदुतेदृशे विषमदेशकालादिभावेऽप्यचिन्त्यादृष्टसामर्थ्यादमूदृशं नाम कार्य सरेदपीति । केचन पुनः कथञ्चित्तथाविधव्यवहारेण यात्राकारिष्वगारिषु साभ्यसूयास्त- 15 दुन्नतिं भाविनीमसहिष्णवोऽन्यथाऽन्यथा व्यब्रुवन् । केऽपि च मध्यस्थाः कालादिभाववैषम्यं ज्ञापितवन्त:-'यदेतादृशेन सङ्घन दूरदेशान्तरप्रस्थानं न युज्यते' इति । महाकार्यारम्भे सुलभे एवंविधे लोकवादे क्षणं दोलारूढमिव नश्चेतः समभूत् । ततः पारिणामिक्या बुद्धयेति मीमांसामहे स्म- यदुत, लोकः खलु परविघ्नसन्तोषी; यद्वा लोकवाक्यानां नैकः प्रकारः, यदि तादृग लोकवाङ्मात्रेण स्थीयते तदा द्वयोरपि न शोभा; न स्वयशो नापि ॥ परयशो रक्षितं स्यादित्येतत् कर्म निर्मितं वरम् , अनिर्मिमते तु कृत्ये मनोमनोरथासिद्धरसमाधिः सार्वदिकः, परेषां च प्रस्थायुकानां कलौ कालमुख्यमाविर्भविष्यति । ततश्च मनो यावन्मनाक् सत्त्वे प्रतिष्ठाप्य श्रीदेवराजपुरमण्डनकुशलशब्दाङ्कितगुरोर्वाञ्छितकल्पद्रोः प्रणिधानजं स्फुटरूपमुपदेशबलमासीसदाम।तदेतत् पिपासितस्य सुधापाननिमन्त्रणं नृत्येच्छोघर्घरस्रग्बन्धनं भृशमुन्मनीभावमुदपीपदत् । ततश्च तदादेशेन सन्नाहेनेव स्वचेतःश- 25 रीरं सन्ना साध्यसिद्धौ नितरां बद्धाध्यवसाया जातवन्तः । धर्मो जयति । त एव पूर्वगुदियः शरणमिति कृत्वा । इत्यलं विस्तरेण । प्रकृतं प्रस्तुमः।
अथ च शोभने दिने प्रशस्ते मुहूर्ते शुभकर्मप्रायोग्ये च योगे प्रियंकरणे, उच्चैर्गृहस्थेषु ग्रहेषु, सौम्यस्वामिहासम्पन्ने लग्ने, यात्रा च नक्षत्रे वर्तमाने,सा० सोमाकेन श्रीतीर्थप्रणिनंसया च प्रेरितपरमप्रमोदोल्लासेन चोत्साहितः श्रीसङ्घः प्रस्थानमङ्गलमसाधयत् । मङ्गलं भगवान् धर्मो मङ्गलं जिनशासनम् । मङ्गलं तन्मतः सङ्घो यात्रारम्भोऽतिमङ्गलम् ॥ १३२ ॥ ॥ इत्येषा विज्ञप्तित्रिवेण्यां प्रस्तुतार्थप्रस्ताविका सरस्वती
कल्लोलाख्या प्रथमा वेणिः ॥ १ ॥
वि. म.ले.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org