________________
४८
विज्ञप्तिलेखसंग्रह
तीर्थमनादियुगीनं वाङ्मानसागोचरप्रभावाढ्यम् । यदृष्टं दृष्टिभ्यां तैर्द्रष्टव्यं जगति दृष्टम् ॥ ११८ ॥ ते धन्यास्ते सुजन्मानस्तेषां वर्ष्या च वैदुषी । गत्वा जालन्धराधीशानानचुर्ये जिनेश्वरान् ॥ ११९ ॥ म्लेच्छव्याप्तेषु देशेषु निखिलेषु कलौ युगे । निरत्ययं हि तत्तीर्थ मराविव सरोवरम् ॥ १२० ॥
तस्य तीर्थस्य माहात्म्यं कियद् वच्म्यपटिष्ठधीः । तदुपास्य ततः पश्चाद्धन्यंमन्योऽत्र चागमम् ॥ १२१ ॥ । तदेतदत्यद्भुतं स्वदृष्टमुक्तं वाच्यं न्यक्षेण तद्विदांकुर्वन्तु । गन्तव्यो नोऽद्यापि महानस्ति पन्थाः ।" - इत्यभिधाय
स प्राचालीत् । तदनु च तया वार्तया हृतमनस्का इव चित्रलिखिता इव सञ्जातरणरणका इव आग्रहग्रहिला इव वयं ससभ्या बभूविम । मनसीत्थं विचारितवन्तश्च-यदुत म्लेच्छाकुलेऽस्मिन्नपि नीवृत्यभ्येत्य तत्तादृमिथ्यादृगदुष्टजनानननिभालनोत्पन्नमालिन्यमलस्पृशो
दृशोर्विमलतानिदानतत्तथाविधतीर्थदर्शनसुधासरःसम्पर्केण विशदता नापादयिष्यते तर्हि । 'भृते सरसि तृषा, सिद्धे परिवेषितेऽप्यन्ने बुभुक्षा, सति विभवेऽपि दारिद्यं, समुदिते भानौ तमः' - इति न्याय आयातः । ततो येन केनापि प्रकारेण यथाकथञ्चिदेषा यात्रा समा. सूत्र्यते तदा साधु, अन्यथा पुनः क वयं क च श्रीनगरकोहाख्यं महातीर्थमिति मनोरथोऽस्मन्मनःपूर्वाद्री हिमांशुरिवोदेषीत् । एवं च ते ते श्रावका अपि यात्रायां जातोत्कण्ठा वयमिव भृशं बभूवुः। विशिष्य च तदा
साधुराणासुतश्रेष्ठाः शिष्टाचारानुसारिणः । निवसन्ति त्रयस्तत्र त्रयो वर्गा इवाङ्गिनः ॥ १२२ ॥ तेषु प्रथमकः सोमो धर्मकार्यधुरन्धरः । द्वितीयः पार्श्वदत्तोऽस्ति हेमस्तु गरिमास्पदम् ॥ १२३ ॥ तत्र तद्योग्यतां मत्वा तत्कार्यं तेभ्य एव हि । उपदिष्टं तदाऽस्माभिरुत्तमं ह्युत्तमोऽर्हति ॥ १२४ ॥ ते चैवं चिन्तयांचक्रुस्ततः शुद्धाशया रहः । यायावरैर्धनभारैः स्थावरं पुण्यमयते ॥ १२५ ॥ गुरूपदेशाचेद्यात्रां कुम्भॊऽत्रावसरे वयम् । निर्मलं सुकृतं कोशे विश्व कीर्तिश्च तादृशी ॥ १२६ ॥ इति ध्यात्वा स सोमेन्दुः सबन्धुः साहसाग्रणीः । क्षमाश्रमणदानेन यात्रोपक्रममादधे ॥ १२७ ॥
[सा० सोमास्वीकृतनगरकोट्टतीर्थयात्रोपक्रमवर्णनम् -] ६१०. ततश्च सुमहर्द्धिकः सपरिच्छदो यावता तत्तत्सन्निवेशेषु सङ्घमहाजन निमन्त्रणमहामन्त्रप्रणिधानपुरस्सरं तत्तत्सङ्घसम्मह निकायां प्रवृत्तः, तावता वयमपि तत्रत्यसङ्घाग्रहेण श्रीमाबारषपुरं श्रद्धालगृहशतसङ्कुलं समुपेयुम । तत्कीदृशम् -
धार्मिकोऽपि जनो यत्र चित्रं जीवाईको न हि । न चापविद्याकुशलो मार्गणानपि नास्यति ॥ १२८॥ ___ तत्र च वर्तमानाः कांश्चन परतीर्थ्यानपि जिनशासनानुकूलमनस्कान , कांश्चन नवनवाभिग्रहविशेषप्रदानैश्च श्राद्धानिव वाडव-क्षत्रिय-वैश्यान् कृतार्थान् कुर्वन्तः, तथाविधधर्मोपदेशोल्लसद्देशनाप्रदीपकलिकोजृम्भणेन कापथसञ्चरिष्णून जनान् सत्पथपान्थतां कांश्चन प्रापयन्ता, पुण्यफलाः कियतीरपि कालकलास्तत्रैवातिवाहयांबभूविम । अन्यदा च, तथा( विधसर्वविकृतित्यागमयाभिग्रहग्रन्थिं समाप्तिसत्यंकारानुरूपवस्तुक्रयविक्रयव्यवहारिणा पितृहरिश्चन्द्रसहचरेण सा० शिवराजसुश्रावकेण परमनैष्ठिकेन समाचञ्चूर्यमाणे सङ्घवात्सल्येऽनुतेष्ठीयमाने च सङ्घसत्कारे तोष्यमाणे यथौचित्येन याचकस्तोमे गायत्सु सबैलोक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org