________________
विज्ञप्तित्रिवेणि
[श्रीजयसागरोपाध्यायकृतमरुकोट्टतीर्थयात्रासूचनम् -] ६८. तथा च-इतः पूर्वमपूर्वसुपर्वश्रेणिरमणीये श्रीदत्तपुरुषोत्तमाश्रमे खासमे श्रीमम्मणवाहणपुरोत्तमे पुरातनी चतुर्मासीमसीमसुखसम्पत्त्या सूत्रयांचक्रिम । तदनु च सं० सोमाकस्तत्पुत्र-सं० अभयचन्द्रमेलितेन सङ्घन समं श्रीमरुकोहमहातीर्थ भवाम्भोधितीर्थ पृथ्वीभक्तयो वयमवन्दिष्महि । ततश्च क्षेमेण मम्मणपुरे परमं प्रवेशोत्सवमनुभवन्तः ससङ्घा । वयं प्राप्ताः।
इतश्चफरीदपुरमित्यस्ति पुरं परमवैभवम् । बहुधान्यधनसम्पन्नं सम्पन्नोज्झति यत् क्षणम् ॥ १०७॥ यदेव देवगुर्वाज्ञासज्जसज्जनसङ्कुलम् । पदं मुदामुदाराणां ताराणामिव पुष्करम् ॥ १०८॥ दीनदर्श दयन्ते ये दयन्तेऽर्थिजने धनम् । दीयते दुरितं तेषां धर्मध्यानानुभावतः ॥ १०९॥
श्रीमजिनेन्द्रशासनप्रभावकाः श्रावकाः शुचिमनस्काः।
निवसन्ति तत्र बहुला बहुलामा लसितलक्ष्मीकाः ॥११०॥ (-युग्मम् ।) तदा च लब्धवासराः स्फुरत्सद्भावभासुराः । तेऽस्मानभ्यर्थयांचकुर्विहत्तुं स्वपुरं प्रति ॥ १११॥ प्रास्थिष्महि ततस्तस्मात् तदाग्रहवशाद् वयम् । साधु-भानु-समीराणां स्थिति कत्र युज्यते ॥ ११२॥ क्रमेण द्रोहडोहादीन् ग्रामानुद्दामवैभवान् । मध्ये कृत्योत्सवे प्राप्ताः श्रीफरीदपुरं पुरम् ॥११३॥ ।
तत्र च विविधधर्मोपदेशामृतसेकेन भव्यलोकविवेकाङ्कुरानुज्जीवयतां जिनमतं प्रभावयतां कांश्चिद् ब्रह्मक्षत्रियब्राह्मणादीन् जिनमतानुभक्तीन् कांश्चिद् भद्रप्रकृतीन् तैस्तैर्द्धर्मोपदेशैः कृतार्थयतां सतां सपरिच्छदानां समाधिसमृद्धो बंहीयानननेहा व्यतीयाय ।
[नगरकोट्टमहातीर्थपरिचयप्राप्तिनिवेदनम् -] ६९. अन्यंदा च प्राचीमुखमण्डने भानुमति जायमाने जगद्व्यवहारहेतौ प्रत्यूषसमये । आसीनायां राजन्यवाणिज्यब्राह्मणादिपर शतोत्तमजात्यजनपर्षदि धर्मोपदेशक्षणं क्षणादासूत्र्य निवृत्तेष्वस्मत्सु गायनेषु च कलस्वरताललयमानबन्धुरां गीतिमुद्गायत्सु अकस्मादतर्कितः कुतोऽपि
धूलिधूसरितकूर्चकुन्तलो वामहस्तविलसत्कमण्डलुः ।
क्षामकुक्षिरतिवीथ्यतिक्रमात् कोऽपि जीर्णवसनोऽध्वगोऽभ्यधात् ॥ ११४ ॥ आगत्य चोचितं विनयं व्यञ्जयन् समुदितमना मनागुन्नमितोत्तमाङ्गः पुरस्तादासांचके। वयमपि सदाकृतिरिति तमाभाषयांचकृम- "भोस्तीर्थयात्रिक ! पथिक ! कुतः प्रष्टव्योऽसि ? केषु केषु तीर्थेषु दृष्टपूर्वीभवान् ? 'नानादेशविहारिणः खल्वपूर्वापूर्वस्थानदृश्वानो भवन्ति' - तत्कथय काञ्चिदपूर्वामृतायमानां किंवदन्तीम् । परितोषय क्षणं पर्पदम् ।” असावपि -“श्रूयतां महाभागाः" - इत्यभिधाय सुधाकिरा गिरा भणितुमारभत । तथा च
"अस्त्युत्तरस्यां दिशि सञ्चितः श्रिया स्त्रीपंसरत्नोत्कररोहणाचलः ।
देशस्त्रिगर्तोर्तिहरोऽधिवासिनां तीथैगरीयानचलरिवात्र यः ॥ ११५ ॥ तत्रापि पावनं तीर्थं श्रीसुशर्मपुरे परम् । दृशोरध्वन्यतां याति पुण्यरेव हि देहिनाम् ॥ ११६ ॥ देवाधिदेवनामेयादिकान् नत्वाऽऽलयस्थितान् । द्वेधापि परमानन्दप्राप्तं स्वं मन्यते बुधाः ॥ ११७ ॥
25
30
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org