SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ૪૬ विज्ञप्तिलेखसंग्रह ६७. सा तादृक्षा क्षपितजगत्तापा खसुखावस्थान भव्यजनतत्तदगण्य पुण्योपकारविधाननवनवस्थानविहरणमज्जैनमतप्रोत्सर्पणतत्तदन्तिषदध्यापननानाधर्मोत्सवविधापनवरव्याख्यानविधानादिरूपशु भरूपखरूपनिरूपण दीपिका यथावसरं तदनागमहिमागममुकुलितास्मन्मानसानन्दमाकन्दवृन्दोल्लासिनी वसन्तर्तुरिव सदाऽहाय प्रसह्य प्रसाद्या । तथा वयमत्र विघटमानकमलकोशमध्य निर्गच्छदतुच्छोत्साहवशमाद्यन्मधुकरझङ्कारकृतप्राभातिकमङ्गलध्वनौ सङ्घटमानचटुलचक्रमिथुनपृथुप्रमोदौज स्विमञ्जकूजन कोलाहलनि सञ्जायमाने विभा समये, अपराशासंसर्गरङ्गद्रागात्मपत्यवलोकनोत्पन्नमन्युवैमुख्यां प्राचिदिग्विलासिनीं कोमलतरैः स्फुरत्कइमीरजरजोराजिमञ्जिमजित्वररञ्ज्यत्कौङ्कुमाम्भःशुभत्कौ सुम्भकुसुमकिंशुकशुकचश्चचक्षुरचलत्किङ्किल्लिपल्लवहिङ्गुलप्रवाललीलामनुभवद्भिः प्रसृत्वरैः करप्रसरैः प्रसादयितुमिव प्रसाधयति स्पृशति जगत्प्रबाधिप्रबोधप्रथमप्रारम्भमङ्गलकलशायमानमण्डले मार्त्तण्डे कलहंसशावकेषु प्रथमोन्निद्रेषून्मुद्रितलोचनेषु तत्कालोज्जृम्भमाणकमलाकरकेशरैः कल्पवर्त्तं कुर्वत्सु सद्भक्तिभावोल्लास भाजनजनितजिन सभाजन सभाजनखान्तपोतकान् मधुमधुररसेक्षुरसपायसमाधुर्यजैत्रश्रीवामेयचरित्रगतोपदेशपेशल पृथुलप्रातराशप्रदानेन पुण्यपुष्टिभाजः सम्भावयन्तः, मध्यंदिने मतिशीलगणि-सम [य] कुञ्जरमुनि-स्थिरसंयममुनीन् अधीतज्येष्टक्षेत्रसमासादिधर्मप्रकरणान् कर्मग्रन्थं कर्म्मविपाकाख्यमध्यापयन्तः, तद्वयं चाभिनवकाव्यशिक्षायां योजयन्तः, रत्नचन्द्रक्षुल्लकं चाधीयमानखाध्यायं शब्दब्रह्मव्याकरणमधिजिगापयिषन्तः, परान् निर्ग्रन्धानपि तत्तलक्षणान्वेषिकी निघण्टुखाध्यायादिग्रन्थपाठनेन यथासमयं सग्रन्थानादधानाः; वनीपाला इव नवनवागमान् कदाचित् सारयन्तः प्रमादपिशुनोपप्लवाच निवारयन्तः कदाचिदुच्चावचाभिग्रहोपचितपवित्रव्रतजात्यविटपिनो भव्यजनखान्तमृदुलतमक्षितितलप्ररूढान् सदुपदेशशंवरयोगेन प्रौढिं प्रापयन्तः कदाचिदन्तिषन्मतिव्रततिकाः शास्त्रतात्पर्यपर्यालोचनप्रकारमण्डपोन्मुखीः समारचयन्तः, कदाचिदवनीपाला इव विविधविषयनयखरूपसात्म्यं परिभावयन्तः, कर्हिचिच्चापणिका इव प्रमाणप्रमेयव्यवहारचातुरीं परीक्ष्यमाणाः, कदापि महासुरसेनाश्चितं नव्यं काव्यं देवा इव निबन्तः कदाचिद् बुधवद्देवगुरुसान्निध्यात् तुष्टिपुष्टिभाजः सांयमानाचारणीयान् योगान् 25 समग्रानपि यथाकालं यथार्ह प्रयुञ्जानाः, आवश्यकेषु तेषु तेषु धर्येषु कर्म्मसु कृतावधानाः, कदाचित् संयममयात्मारामे मनोमयूरं रंरमयन्तोऽनूपदेशा इव सर्वतः कुशलताप्रधानाः श्रीपरमेष्ठिवर्द्धमानमहामन्त्रविद्या बीजाक्षरस्मरणत्रिषवणेन सर्वाङ्गीणं पापतापं न्यत्कुर्वाणाः, श्रीमच्छ्री पूज्यराजवर्य पादप्रसादसौधमध्यासीनाः प्यानशुभध्यानं दधानाः, सपरिच्छदा विशदसमाधिनिस्तुषसुखविजयारोग्यसमाधिशुद्धा वेविद्यामहेतमाम् । तथा शुभवद्भिस्तत्र भवद्भिर्भदन्तमहत्तरैर्यल्लिलिखानमासीद् 5 10 15 20 30 “यद्युष्माभिः केषु केषु स्थानेषु पुरेषु ग्रामेषु वा विहृत्तम् ? क्व वा तीर्थे यात्राविशेषधर्म्मकर्म्म शर्म्मकार्यर्जितम् १ आगन्तुकलोकवार्तया तु भवन्तो नगरकोट्टाय प्रतिष्ठासवः शोश्रूयांचऋाणास्तत्त्वं तु सम्यक्तया न जानीमः, तेन स्वकीयविहारयात्राप्रकारादिविशिष्टज्येष्ठपुण्यात्मकः समाचारोऽस्मच्छ्रुतिशष्कुलीवलयागावही विधेयः” - इति । तत्रार्थे क्षणमेकं दत्तावधाना अवधारयन्तु गच्छेशाः, यथोत्तराह भवामः । Jain Education International * For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy