________________
विज्ञप्तित्रिवेणि
नम्यान् प्रणम्य सम्यक् श्रीअणहिल्लपत्तनाभिधानपुरे । संस्थायुकान् सतवान् श्रीमजिनभद्रसूरिवरान् ॥ १०३ ॥ श्रीसिन्धुदेशमध्यगमल्लिकवाहणपुराज्जगत्ख्यातात् । जयसागराभिषेका वन्दित्वा ज्ञापयन्तीत्थम् ॥ १०४ ॥
[श्रीजयसागरोपाध्यायज्ञापितस्वकीयकार्यप्रवृत्तिवर्णना - ] ६६. तथा च-इह हि मिहिरकरस्पृष्टानि पुण्डरीकाणीव सदुपकारतुष्टानि सजनजनमनांसीव धाराधरधाराहतकदम्बवृन्दानीव च विलसदुल्लासपेशलानि सुखविजयारोग्यसुभगम्भावुकानि भविकानि श्रीमत्पादप्रसादसम्पदोत्सर्पमाणानि प्रोजृम्भन्तेतमाम् । दूरापसारितामितशोचनं तमस्तोमविरोचनं सुखसम्पत्तिसंयोजनं प्रीणितसजनजनं अकाण्डामृतकुण्डमजनं प्रयोजनं चादः- यथा, समायासीदसीममहिमप्राज्यश्रीपूज्यराजप्रहिता सर्वजनमहिता हिता- ॥ वहस्वरूपपक्षभरं विस्तारयन्ती सन्मानसप्रिया नालीकवदना मधुरवाक्यपेशला कोमलपदपतिलिखितिकलहंसिका चिरकालादस्मत्करकुड्मलकमलाऽलङ्करिष्णुभावमिति । सा च तत्रत्यतत्तदशेषविशेषप्रख्यापनकूजनेनास्मन्मनःपरितोषमपुषत् । सा कथमिव वर्णनातिगगुणा वर्ण्यते?-"या कुमुदतीवातीव विमलसितपत्रप्रतिष्ठिता नालसहिताच लसन्नीलमणिवर्णनीयसुवर्णसवर्णाक्षरदक्षरभ्रमरमालालङ्कृतमध्यभागा निरुपमतमनवनवलसद्रसमकरन्द-15 बिन्दूद्भावनेन भव्यालिं तर्पयामास।"यां चात्यद्भुतप्रचितसुरचनवचनचातुरीचारूक्तियुक्तसूक्तवर्ण्यवर्णक्रमन्यासमक्षुलां निभालयन्तो विस्मयविस्मृतनिमेषतया निवातनिश्चलनीलोत्पलपलासायमानलोचनास्तत्तदर्थकौतुकाकूततरलितमनसो विद्वांसो बोभूयांचक्रिरे। "यया च पर्जन्यवृष्ट्येव विविधबन्धुरमधुरसयुक्तिप्रकारसमाचारामृतासारं वर्षन्त्या तुष्टिपुष्टीश्चतुरचेतश्चातका निरातङ्काश्च चेक्रीयांचक्रिरे । “यस्यै च शरद इव नाना सहृदयजनहृदयजला- 20 शयपङ्ककोषिण्यै सर्वजगत्तोषिण्यै कुवलयोल्लासपोषिण्यै समस्तशस्ताशाप्रसन्नीकुर्वन्त्यै स्पृहयन्ति साधुराजहंसाः।"यस्याश्च चञ्चद्वल्ला इवोवृत्तः सरससदुक्तिसूक्तफलपटलैमनोबालकं रमयन्ति सन्तः । यस्याश्च बहुलरत्नापूर्णायाः परमोदकानुभावाया विलसद्गाम्भीर्यगुणवयोया उल्लसदविरलोज्वलानवद्यगद्यमालामाद्यत्कल्लोलायाः स्फुरद्धंतुयुक्तिजातसम्पातवक्रनचक्रदुरधिगमायाः पयोधिवेलाया इव मध्यं कथमप्यवगाह्य विवुधबुद्धिवेडाकष्टेन 2 कथञ्चित् पारीणभावमनुबोभूयते । “यस्यां च सरस्यामिव मधुरघनरसप्रशस्यायां जगजन्तुतापव्यापनिर्वापपरायां चातुरीलहरीभिरुल्लसन्त्यां भारती भगवती हंसीव हसन्तीवोल्लसन्तीव वसन्तीव लान्तीव मजन्तीवोन्मजन्तीव किलन्तीव क्रीडन्तीव साक्षादिव नित्यं लक्ष्यते। किं बहुना?
विनाअनं लोचनयोर्विकाशनं ह्यनभ्रवृष्टिश्च वपुष्यतर्किता । विनापि राज्यं सुखसम्पदासीत् किमप्यपूर्णा गतिरेतदीया ॥ १०५॥
अपि चनयनसुखदां पायं पायं मुहुर्नयनाञ्चलैः, सुचिरमपि यां ग्राहं ग्राहं मुदा करकुड्मलैः । हृदयनिहितां कारं कारं स्फुरत्पुलकाङ्गका, वचनविषयातीतं तोषं परं स्म लभामहे ॥ १०६ ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org