________________
४४
विज्ञप्तिलेखसंग्रह
शसम्पन्नशर्मादेशः, विमलतरतुरङ्गारङ्गत्तरङ्गशृङ्गतरत्तरुणलक्षणचटुलचक्रवाकचलबकोटकारण्डवमण्डलीमण्डितोपान्तया पुण्यागण्यपानीयया पश्चिमपयोधिमभिसरन्त्या स्थूलोल्लोलमालाविलासच्छलादूरात्सङ्गमोत्कण्ठया कोमलभुजलताः खपतिं प्रति विस्तारयन्त्येव नदीमातृकजनोजीवनजीवनया लालसहंसया विपाशया, चन्द्रभागया, ऐरावत्या, सिन्धुमहानद्या । च सर्वतोऽधिभूमि प्राप्तप्रसरयोपेक्षितजलदप्रवेशः सिन्धुनामा देशः।
अपि चनानाकेलिकलाकुतूहललसत्कलोलरत्नाकरो, देशः कस्य स सम्भवेन्न रतये प्रोन्निद्रभद्रावनिः । क्रीडाक्रीडविहारिणो रचितबिब्बोकानशोकानलं, लोकान् यत्र निरीक्ष्य वेत्ति जनता स्वर्गोऽयमेवास्ति ।क! ॥९४॥
किश्चयो धनैः सङ्कुलोऽप्युच्चैः सदाऽऽयोधनवर्जितः । वनानि यत्र पान्थानामवनानि भवन्त्यहो ! ॥ ९५ ॥ सदम्भा यत्र तटिनी सकुरङ्गा वनावनिः । सक्षया च पुरी ख्याता जनता न तु यत्र हि ! ॥ ९६ ॥ धनानि यत्र लोकानां विपुलानि मनांस्यपि । परार्थकरणेष्वेव रमन्ते सर्वदाऽपि हि ॥ ९७॥
तस्य महामण्डलस्य मुखमण्डनं श्रीमन्मलिकवाहनाभिधानं श्रीनिधानं पुटभेदनं वरीवति।
तथा चरङ्गगौरीगणश्लाघ्यं श्रीदपुण्यजनाश्रयम् । महेश्वरकृतास्थानं यत् कैलासायते पुरम् ॥ ९८॥ वनानि नन्दनायन्ते विमानन्ति महागृहाः । दातारः स्वर्दुमायन्ते यत्रामरावतीसमे ॥ ९९ ॥
जना धनैर्यत्र परं जयन्ति दानेन सर्वानपि रजयन्ति । कलिप्रभावं परिगञ्जयन्ति देवान् गुरूँश्चापि सभाजयन्ति ॥ १०॥ कूलङ्कषाशालितसन्निकर्षेऽत्राभंकषावासलसद्ध्वजेषु ।
विसृज्य चापल्यगुणं स्वकीयं श्रियः स्थिरा आढ्यगृहेष्वभूवन् ॥ १०१॥ यस्मिन्नन्यान्यदेशीया नैगमा लाभकारिणः । निवसन्ति सुखं पद्माकरे मधुकरा इव ॥ १०२ ॥
तत्र श्रीजिनमतप्रभावकश्रावकसङ्घले श्रीजयसागरोपाध्यायाः, मेघराजगणि-सत्यरुचिगणि-पं० मतिशीलगणि-हेमकुञ्जरमुनि-पं० समु(मय)कुञ्जरमुनि-कुलकेशरमुनि- अजितकेशरिमुनि-स्थिरसंयममुनि-रत्नचन्द्रक्षुल्लकपुरोगप्रोत्सर्पत्परमार्थसाधनाभियोगसुस्थितमनोवाकाययोगसारानगारपरिवारप्रसाधिताध्याया वर्तन्ते।
तान् श्रीजिनभद्रसूरीश्वरांस्तथाभूतांस्ते श्रीजयसागराभिषेकाः सादरमप्यपास्तदरं सबहुमानमवमतमानं साञ्जसमप्यनसमञ्जसं सप्रश्रयं सविनयं सहर्ष सरोमोद्धर्ष सानन्दं
सविस्मयं त्यक्तस्मयं सोल्लासं सप्रकाशं दिवसकरसम्मितावर्त्तवन्दनेन सुखसम्पत्तिसाधनेन 30 शिवाध्वस्यन्दनेन दुष्कर्ममर्मशिलोचयच्छेदनसङ्कन्दनेन घनाघनेनेव विनयाङ्करविपिनमुल्लास्य आलस्यं च परास्य सुस्फीतिपुण्यप्रीतिस्यूतसयुक्तिभक्तिभावं प्रकाशसञ्ज्ञवो गलितमन्यवो विज्ञपयन्ति । पुनरेतदर्थसङ्ग्रहश्चेत्थम् -
wwwmniwand
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org