SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेणि र्तिकमलाकटाक्षसाक्षात्कृतश्रीकुमारपालभूपालसम्भावितनव्यनव्यभव्यभव्यजनस्पृहणीयतत्तदुत्तमकरणीयजातिप्रतिभूभूतप्रभूततत्तादृक्ष विशदप्रासादस्थाननिध्यानवशोद्भिद्यमानरोमाञ्चनिकायाऽऽधुनिकधार्मिमकनिकायविधीयमाननानाविधधर्मोत्सवारम्भसुभगं यजयति जगत्पुराणि पराणि । किञ्च यत्र हर्येषु धर्येषु पञ्जरस्थाः शुकादयः । नमस्कारं पठन्तः स्युः पुत्रेभ्योऽपि सतां प्रियाः ॥५१॥ सहस्रलिङ्गाख्यसरःसलिलेन शुचित्विषा । यत्रापूर्ण सदाप्याभाद् धनेनेव पुरं च तत् ॥ ५२ ॥ न्यायमार्गान्वितो यत्र राजा राजेव तज्जनः । तद्वत्प्रामाणिको लोकोऽप्येवमेव व्यवस्थितः ॥ ५३॥ साधवो यत्र मान्यन्ते दानश्रद्धालुभिर्जनैः । साधुभिश्च यथाकालं तेऽपि धर्मानुशिष्टिताः ॥ ५४ ॥ विमानानीव यत्रोचैर्धर्मस्थानानि निश्चितम् । नित्योत्सवानि राजन्ते विबुधप्रीतिदानि च ॥ ५५ ॥ माणिक्यमौक्तिकस्वर्णराशीन् विपणिगाञ् जनः । वीक्ष्य चक्रे रोहणाब्धिमेरूणामागमभ्रमम् ॥५६॥ ॥ सधना यत्र च जनाः सदाचाराः ससम्मदाः । स्वर्गभुक्तावशिष्टस्य धर्मस्यांशा इवाङ्गिनः॥ ५७॥ सलज्जाः सदयाः सौम्याः सरूपाः समहोदयाः । लोका यत्र निरीक्ष्यन्ते सुषमाकालजा इव ॥ ५८॥ [अणहिल्लपुरसमवस्थितश्रीजिनभद्रसूरिगुणवर्णना -] तत्र पवित्रसुत्रामपुरापारस्मयचयव्ययकरे पुरे जडपरिचयोद्विग्ना नूनं विहाय कुशेशयं, कमलनिलया देवी येषामवाप पदद्वयम् । स्फुरति नितरां तस्मादेवेन्दिरोल्लसदाशया, तदतिवरीवस्यासक्तानां गृहेषु तनूभृताम् ॥ ५९॥ सत्यं सन्ति सितोपलाशशिकलासद्धारहरादयो, मिष्टाः किन्तु यदीयवागमधुरिमा कोऽप्यद्भुतो वर्तते । संकृप्तामृतभोजना इव जना यां कूणिताक्षाः सकृत् , पीत्वा सार्वदिकं लभन्ति सततं सन्तोषपोषं परम् ॥६०॥ शाणोत्तीर्णमणीव कान्तिकलिता दातेव चौदार्यभाक्, रम्भावन्मृदुला शरद्विमलिताऽऽशेव प्रसन्नाऽधिकम् । सन्माधुर्यगुणा सितेव सुधया सिक्ता नु सूक्तावली, येषामाननसम्भवा श्रुतिगता काँस्कान्न संमोदयेत्॥६१॥ 4 जगद्गानन्दरसैकसत्रं येषां मुखं निश्चितमिन्दुबिम्बम् । निपीय तद्वागमृतं किमन्यथा सचन्द्रकान्ता बभुरार्द्रितान्तराः ॥ ६२ ॥ अग्रे सत्यमरूरुपन् सपदि ये स्याद्वादवादद्रुमं, यस्याध्यक्षपरोक्षमानयुगलं मूलं प्रकाण्डं कृपा । शाखाः सप्तनया जिनप्रवचनं पत्रप्रकारं विदुः, तत्त्वज्ञानमुशन्ति पुष्पपटलं मोक्षं तु सम्यक्फलम् ॥ ६३॥ यैः कुन्देन्दुतुषारहारधवलैब्रह्माण्डमाभूष्यते, यैर्वक्तुं हृदि कल्पितैरिह जनो मूकोऽपि वाङ्मीयते । 25 यैः कर्णातिथिभिः प्रमोदजलधिश्चन्द्रैरिवोल्लास्यते, तेषामद्भुतसम्पदां गुणगणानामास्पदं ये परम् ॥ ६४ ॥ लोकालोकमहीधरप्रतिहतो भानोः प्रकाशोऽपि हि, विस्फूर्जदद्युतिवज्रिणोऽपि कुलिशं पाथोधिना स्खल्यते । सर्वत्रास्खलितप्रचारमतुलं विभ्राजते यद्यशो,-दुग्धाम्भोध्यवगाहनादिव चिरं गौरं जगलचनम् ॥ ६५॥ ज्योत्स्नोच्छ्रायविनाकृतेव मलिनच्छायेव मुक्तावली, साशकेव हि दुग्धसिन्धुलहरी स्वर्गापगा निम्नगा। शुक्ता त्यक्तमुदेव तुच्छगरिमैवोचैस्तुषारावली, नैर्मल्यातिशयात् परादिह जिता यत्कीर्तिकान्त्या किल ॥६६॥३. ३॥ क्षारो वारिनिधिर्बुधैर्निगदितो दोषाकरश्चन्द्रमा, विष्णुश्चापलतान्वितोऽपि चपलासङ्गाधिकश्रीर्घनः। देवेन्द्रस्तु सुराधिपोऽपि बहुरुग् भावान् विषादी हर,स्तत् केनात्र समं विशुद्धगुणिनो यत्कोपमा कल्प्यते॥६७॥ गिरो येषां मुखोद्भूताः कतकक्षोदसोदराः । कालुष्यक्षपणाक्षेपाच्छोधयन्ति जडाशयान् ॥ ६८॥ व्याख्याक्षणे मुखे येषां स्फीतदन्तद्युतिच्छलात् । माधुर्यं शिक्षितुं वाचः प्रत्यासीदति किं सुधा ? ॥ ६९ ॥ वि०म० ले०६ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy