________________
5
10
15
20
25
30
४०
विज्ञप्तिलेखसंग्रह
शोविलासायमानलसद्वीचिवितानेनोदन्वता परिचितपरिसरः, सारः सकलसंसार विस्तारस्य, आकरः सदाचारव्यवहाराणाम्, आश्रयः श्रेयसाम्, सङ्केतास्पदं समस्तशस्यदिश्यसम्पदाम्, आपणो नयनैपुण्यादिक्रयाणाम्, रोह्णो विनयविवेकविचारादिगुणमणिगणानाम्, मध्यप्रदेशस्फारहारायमानार्हद्विहारोदारो गुर्जरो नामा जनपदः । यस्मिन्नश्रान्त सुकृतकर्मक्षणनिर्माणात्युत्सहिष्णुवर्द्धिष्णुधर्म्म पुरुषार्थप्रदत्ताशाः प्रशान्तदुरितोपप्लवाः श्रीआईत धर्मराजराजधान्यः पुरुषायुषजीविन्यः प्रजाः । अपि च वर्णविनाशो व्याकरणेषु, क्षणक्षयिभावस्ताथागत सिद्धान्तेषु, भूतविकृतिवादः सांख्येषु, जडखभावात्मजल्पस्तथा छलकौशलोद्भावनं निग्रहस्थानानि चाक्षपादमतीय सिद्धान्तेषु, वक्रचारिता ग्रहगोचरे, ग्रहावेशो राशिषु दृश्यते श्रूयते वा, न च वास्तव्येषु लोकेषु । यत्र तुरङ्गशोभिताः प्रासादा इव मन्दुराः । यत्र च लहरिसङ्कुला नद्य उद्यानभूमयश्च । यत्र च कौटुम्बिकगृहा इव बहुधाना विपणिभागाः, व्याकरणप्रबन्धा इव विलसद्बहुव्रीहयः, कचिद् दृश्यमानद्विगवश्च, अव्ययीभावानुभावोत्सर्पितक्षेत्रिप्रमोदाः सद्वन्द्वाश्च वप्रप्रदेशाः । किं बहुना ? -
व्योमोपमा व्योम्न एव सुधायाश्च यथा सुधा । तथा गूर्जर देशस्योपमानं यदि गुर्जरः ॥ ४३ ॥ यत्र ग्रामा इवारामाः सदाशुकविराजिताः । निवासा इव कासारा लक्ष्मणश्रेणिसङ्कुलाः ॥ ४४ ॥ तत्र लसल्लक्ष्मीदेवीनिवासकमलोपमानं अणहिल्लपाटकं नाम पत्तनम् । अश्रान्तोद्भवदुत्सवोत्सृतमुदुलोलावलीसङ्कुलं, रङ्गद्भूरिसितच्छदं शुभति यत्पद्माकराम्भो भुवि ।
यत्रोच्चैः स्फुटपुण्डरीकपटलभ्रान्त्या भ्रमच्चेतना, रम्ये हर्म्यगणे सुधाधवलिते नूनं निलीना रमा ॥ ४५ ॥ मुक्तामणीविद्रुमशुक्तिशङ्खान् राशीकृतान् वीक्ष्य यदापणेषु । लोकैर्वितर्येत जलावशेषश्चित्रीयमाणैर्हृदये पयोधिः॥४६॥ अनेकसूर्यावलिशालिमध्यं नानाबुधाढ्यं बहुमङ्गलं च । श्रीदैर्महेशैरमितैः परीतं यत् पत्तनं खं प्रति जाहसीति ॥४७॥ सन्नरागमना यत्र मुनिपर्षच्च भूभृताम् । राजहंसा इव जनाः सर्वदा मानसङ्गताः ॥ १८ ॥
यत्र च
कलाकीलालकल्लोला लोकाः केलिकुलाकुलाः ।
कलिकालेऽकलङ्काला लीलां ललुः कलां किल ॥ ४९ ॥ ( द्विव्यञ्जनचित्रम् । ) बुधा इव जना यत्र चित्तरङ्गोपशोभिताः । मनुष्येशा इवावासा मत्तवारणराजिताः ॥ ५० ॥ किं च६२. चिरन्तनपुरुषातिशायिभविष्यत्सप्रभप्रभावकथावकहृदयशयाखर्वगर्व सर्व्वखापहारिहारिचरितत्रिभुवनप्रशंसनीयत्रिभुवन पालदेवकुलकाननोल्लास भासनसुरभिसमयानुकारिकाश्मीरदेवीमहासतीसदुदरस्फारवैडूर्यवर्यवसुन्धराखनि सम्भवदतुल्यामूल्यमहार्घ्यप्रातिहार्यावार्यार्यजनस्तुताप्रत्नरत्नायमानश्रीकलिकालके वलि बिरुद विशदावतारप्राप्तचातुर्विद्यमा यदनिन्द्यपारावारपारश्रीजिनशासनाम्बराम्बरमणि सुगृहीतनामधेयसिद्ध श्री हेमसूरिमुखो
च्छलदतुच्छाच्छपिच्छलोन्मूर्च्छच्छुचिरुचिरुचिरामृतच्छटायमाननिस्समाननिरुपमाननिर्वि
गानण्यानज्ञानवर्द्धमान परमतत्त्वमयसमय वितानव्याख्यानविशेषनिःशेषनिर्वासिताऽऽनादिकालालीनानवीन सादीन व पीना हीन दुर्वासनाविषापस्मारसारसकलजगज्जन्तुजीवातुकल्पनिर्विकल्पमारिघोषणामिषोदूघोषिताऽऽकल्पान्तकालकालावस्थाय्य निवर्त्तनीय कीर्त्तनीयकी -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org