________________
10
15
26
25
30
३८
विज्ञप्तिलेखसंग्रह
अन्तर्दीप्रसुबोधदीपकलिकोद्भूताञ्जनौघा इव, श्रीसंवेगसमुद्रवीचिविलसल्लीलाप्रकारा इव ।
रेजुर्यस्य शिरस्युदंशुमणयः पञ्च स्फुरन्तः स्फुटा, भद्रालीं दृढयेदधं विघटयेद् देवः सुपार्श्वः स वः ॥ १२ ॥ विलसदतुलशुक्लध्यानसडुग्ध सिन्धोरविरललहरीभिः प्रोताभिः प्रकर्षात् ।
हिमहिमकरगौरा यत्तनुः प्लावितेवाऽशुभदशुभभिदे स्याद् देवचन्द्रप्रभोऽसौ ॥ १३ ॥ कृपामृताब्धिः सुविधिः समाधिं सन्धातुमुत्साहयतां मनो वः । यस्माद्बुधाश्चिन्तितवस्त्ववाप्य तृणाय चिन्तामणिमप्यमसंत ॥ १४ ॥
अभ्रान्तवृत्तिमधुरो हरिणाश्रितोऽयं भव्याञ् जनानवतु शीतलशीतलांशुः । यद्विम्बमुज्वलकलं भृशमीक्षमाणा लोकत्रयी प्रमदतः कुमुदांबभूव ॥ १५ ॥ श्रेयांसः श्रितवत्सलः सृजतु वो नित्यं श्रियं श्रायसीं, पञ्चाङ्गप्रणिपातनिर्म्मितिवशाद् यत्पादपीठाग्रतः । "रेजुर्मञ्जरजोऽवगुण्ठननिभाद् भालेषु भव्यात्मना, मेते योग्यतमा इतीव तिलकाः पुण्यश्रिया निम्मिताः ॥ १६ ॥ स्वर्भूर्भुवःस्थायुकलोकपूज्यः श्रीवासुपूज्यो जयताज्जगत्याम् ।
सस्पर्द्धयेव श्रमणत्वलक्ष्म्या यस्मिंस्तनुश्रीरपि भाति रक्ता ॥ १७ ॥
कलियुगतया भीष्म ग्रीष्मे प्रसर्पति भूतलेऽजनिषत कृशां आशानद्यो मदीयमनोभुवि । विमल ! तदलं वर्षत्वेषा प्रसादपयोभरं तव पदपरीष्टिस्तत्पूरं सुवृष्टिरिवोच्चकैः ॥ १८ ॥
सभाजनप्रीणनकृत्सभाजनो महोदयस्थो विलसन्महोदयः ।
यकः सदाऽनन्तगुणालिनिर्मलो मनः कपिं पातु नताननन्तजित् ॥ १९ ॥ ( - गूढैकक्रियम् । ) त्रैलोक्यलोकतिलकोऽस्ति जिनो गुण तस्याऽप्युपर्यहमिति प्रमदादिवोच्चैः । नृत्यत्यशोकविटपी चटुलैर्दलैः किं ? यद्धर्म्मसद्मनि स धर्म्मजिनः शिवाय ॥ २० ॥ भवाभ्यन्तरे कर्म्मधर्म्माकुलत्वाद् गुणश्रेणिनिश्रेणिमालम्ब्य योऽलम् ।
सुखं मुक्तिवातायनं प्राप्य शेते सदा निर्वृतः शान्तये स्तात् स शान्तिः ॥ २१ ॥ कुन्थुं कान्त ! नमस्कुरु, प्रियतमे ! कः क्षुद्रजन्तुं नमेत् ? भर्त्तः ! श्रीतनयं वदामि, मदनः किं ? नैष सूरात्मजः । किं मन्दोऽयमयि प्रभो ! नहि जगत्प्रद्योतकस्तीर्थकृत् ;
दम्पत्योरिति वक्रवाक्यविषयः पुष्यात् सुखान्येष वः ॥ २२ ॥ पूर्वोपार्जितपापकर्मपटलान्येधन्ति यत्राङ्गिनां, खद्योतन्ति मृगाङ्कचण्डकिरणाद्या यत्र तेजखिनः । विश्वव्यापकमप्यनक्षविषयं यद्भासते सर्वतः, तज्योतिः प्रणिदध्महे भयभिदे देवारतो नापरम् ॥ २३ ॥ देवो वाङ्मनसातिगोचरगुणोऽर्वाचीनहग्देहिनां मल्लिः पल्लवयेन्मतिव्रततिकां सोऽयं वसन्तोपमः । यस्माद् विश्वजनप्रमोदजननीमासाद्य रम्यां रमां, भव्यारामगणा इह प्रतिदिनं सेव्या न कस्याभवत् ॥ २४ ॥ यो ध्यायमानोऽपि हि कृष्णवर्णस्तनोति सद्धर्म्मधियं बुधानाम् । सुश्यामलश्रीजलदायमानो जयत्यधीशो मुनिसुव्रताख्यः ॥ २५ ॥
Jain Education International
तापं तापमपारदुस्तपतपःसद्ध्यानशातासिना, छिन्दानं तरसात्मकर्म्मगहनं दृष्ट्नमादीक्षणात् ।
आत्मोच्छेदभियेव नो ववृधिरे केशा नखा यस्य वै, श्रामण्ये विरहन्नमिर्जिनपतिः सम्पत्तये जायताम् ॥ २६॥ मोहाख्यो नृपतिर्विकीर्णहृदधिष्ठानाद् विनिर्द्धाटितो, देवेनेति ततो विभग्नसकलोपायान्तरोऽयं किल । स्थानप्राप्तिकृते दिवानिशमसौ रागच्छलात् पिच्छलं, यत्पादाब्जयुगं भजत्यभिमतं दत्तां स नेमीश्वरः॥ २७ ॥
For Private & Personal Use Only
www.jainelibrary.org