________________
खरतरगच्छालंकारहारभट्टारक श्रीमज्जिनभद्रसूरिं प्रति महोपाध्यायश्रीमजयसागर पण्डितप्रवरैः लिखितो
विज्ञप्ति त्रिवेणि
arest faaraपत्रस्वरूपो महालेखः ।
oseso
१. प्रस्तुतार्थप्रस्ताविका प्रथमा वेणिः ।
[ आदौ मङ्गलवाचका जिनादिनमस्काराः । ] ॥ नमः सर्वविदे ॥
जयति लसदनन्तज्ञाननिर्भाससान्द्रो निरुपममहिमत्वादार्हतः कोऽपि भावः । त्रिभुवनजनभाग्यागोचरो यत्र नित्यं विलसति कृतवासा निर्भरं सा शिवश्रीः ॥ १ ॥ जगन्नित्यं किञ्चित् तदितरदनित्यं च सदियं यदज्ञानाद् भ्रान्तिः स्फुरति मृगतृष्णेव भुवने । क्षणेन क्षीयन्ते दुरितनिवहा यत्परिचयात् तदेवाङ्गीकुम्मों निरभिविधि जैनेश्वरमहः ॥ २ ॥ दौर्गत्यदोषमुच्छेत्तुं विबुधा यामुपासते । कल्पवल्लीव सा जैनी चतुर्विंशतिरिष्टदा ॥ ३॥ विश्वाशाः परिपूर्णतामुपगता वाञ्छार्थलाभांशुभिर्नष्टा तामसमण्डलीव विलसद्वैरादिवार्त्ताऽपि हि । मार्गामार्गविचारचारिमधरा जाता समस्ता मही, यस्यैवाभ्युदये स शान्तिसविता सुप्रातराविष्क्रयात् ॥ ४ ॥ योऽद्विष्टचित्तोऽपि रिपूञ् जघान, विरक्तचित्तोऽपि भुनक्ति मुक्तिम् ।
सदाऽभिजातोऽपि हि नाभिजातः, स कामितं कामितमातनोतु ॥ ५ ॥ महामृगाङ्कः सततं प्रजानां सन्तापनिर्वापकपादसेवः ।
विस्मेरयन् कौमुदमादरेण जिनेन्द्रचन्द्रोऽजित एष पायात् ॥ ६ ॥
यैः क्षिप्तानि जगन्त्यपायकुहरे प्राप्तावकाशैः पुरा, स्थानं नश्च हृतं प्रणेशुरधुना पापाः क्व दोषा इति ।
तानन्वेष्टुमिव भ्रमन्ति भुवने प्राप्तोदया यगुणाः, स श्रीमाञ् जिनसम्भवो भवतरुच्छेदे कुठारायताम् ॥ ७ ॥ 0 नन्दत्वसौ श्रीजिनपोऽभिनन्दनो यद्दानशौण्डीर्यगुणैकलिप्सया ।
Jain Education International
प्रविश्य हेमाद्रिद सुरद्रुमा भृङ्गखरेण प्रसभं जपन्ति किम् ? ॥ ८ ॥
भ्रूभङ्गं न बभार भालशिखरे नो शोणिमानं दृशोः, प्रागल्भ्यं हृदये नवा शममये नाङ्गे तथोत्सेकताम् ।
हत्वा मोहभटं तथापि युधि यो निर्द्धाटयामासिवान्, भव्यखान्तपुराज्जिनः स सुमतिर्द्ध में मतिं वर्द्धयेत् ॥१॥ शशधरकरैः सायं दूये दिवा तु विहङ्गमै, -विंदलितमहं स्थानं हेयं तदेतदशर्म्मदम् ।
इति सरसिजं तोयं हित्वा किलाङ्कतयाऽभज, जगदभयपदं पादं पद्मप्रभस्य स शर्म॑णे ॥ १० ॥ भक्तिरागनिभृतेषु मुनीनां मानसेषु चिरवासवशात् किम् ? | रक्तकोकनदरङ्गदभी (भां?)शुः स्पष्टयत्वभिमतं जिनषष्ठः ॥ ११ ॥
For Private & Personal Use Only
10
13
25
www.jainelibrary.org