________________
5
15
200
विज्ञप्तिलेखसंग्रह
॥ शत्रुंजयतीर्थस्तुतिः ॥
सिद्धिक्षेत्रेऽत्र यस्मिन् सकृदपि निजहस्तार्जितं वित्तबीजं समुद्ध्यारोपितं सत् प्रथमजिनदृशोल्लासपीयूष सिक्ते । उद्गच्छेन्मन्दिरेषु प्रतिभवमपि तद् वर्द्धमानर्द्धिसौख्यैश्चित्राली तत्र तीर्थे भवति सुकृतिनः कस्यचिद् साङ्गपत्यम् ॥१॥ ये दक्षाः क्षितिपालदस्युदहनादिभ्यो धनं रक्षितुं कुर्वन्ति व्ययनच्छलेन जगतां व्यासं प्रभोः साक्षिकम् । अत्र श्रीविमलाचले भवशतेष्वप्याप्यते तत्सुखा, चित्रं प्रत्युत वर्द्धमानमपि तैस्तीर्थप्रभावो बत ! ॥ २ ॥ स्पृष्टा यस्य रजःकणा अपि भुवः शुद्धिं श्रितां तादृशीं, सृज्यन्ते किल नान्यतीर्थपयसाऽप्युत्पद्यते यादृशी । तत्र श्री विमलाचले शुभवतां लभ्ये युगादीश्वरं, धन्याः केऽपि समेत्य सङ्घसहिताः कुर्वन्ति नेत्रोत्सवम् ॥ ३॥ यद्ध्यानं हरतेऽङ्गपातकततिं यद् यात्रयाऽभ्यागमः, शक्तिं यच्छति मोक्षमार्गवहने यस्येक्षणं च क्षणम् । शुद्धानन्दरसस्य यत्र चटनं विश्वाधिपत्ये किला, रोहस्तं विमलाचलं भजत भो त्यक्त्वाऽन्यकृत्यं जनाः ! ॥ ४ ॥ ॥ इति शत्रुञ्जयवर्णनाकाव्यं समाप्तम् ॥
De
भो भव्याः ! सुजनप्रिया वयममी पुण्याध्वपान्थाः कियत्, कालं युष्मदुपाश्रये सुखमये विश्रम्य हृष्टा गुणैः । यामः सम्प्रति कार्यसिद्धिविधये स्यान्नौ पुनः सङ्गमः कर्त्तव्या गुणचिन्तनेन शुभगैर्नान्योन्यविस्मारणा ॥ १ ॥ श्रीरामोऽयमवैति सर्वमनघं सीता सतीत्वं पुरा, सन्तश्चापि तथा हुताशनजलीभावाज्जगुस्तद्व्रतम् । यत्तस्याः कथमप्यभूत् परमहो ! तै राक्षसैः संस्तव, स्तेनान्या विचिकित्सतीह जनता कष्टं तदार्यात्मनाम् ॥ २ ॥ भावी मे स कदा पवित्रदिवसः कल्याणकेलीरसः, श्रीमद्धर्म्मगुरोर्मते सुरतरोर्यत्रास्य चन्द्रं मुदा । वीक्षिष्ये स्मितलोचनैः कुवलयैः पाता च तद्गीः सुधां तत्पादैः पविता शिरश्च हृदये चिन्ता सतामीदृशी ॥ ३ ॥ यैरत्यन्तपरोपकारनिपुणैर्निःखामिकाङ्करवन्नीत्वाऽहं निजकाश्रयं किल तथा वात्सल्यकुल्यारसैः । सिक्तः संजघटे यथा ननु जनेच्छायाः फलाद्यैर्गुणैः, किञ्चित्सेव्य इवाभिनौमि किमहो ! तेषां प्रभूणामिह ॥ ४ ॥ या नित्यं कमलाश्रयैकसुतनुर्युक्ता महातेजसा, स्वाधीनप्रमदोल्लसन्मुखगुणा गोलीनचित्तस्थितिः । कामोत्पत्तिविवर्द्धनातिनिपुणा वन्द्या क्षमाभृद्वजैः, सा भूयात् तव पद्मयोनिगिरिशोपेन्द्रत्रयी प्रीतये ॥ ५ ॥ सौवप्रतापभरकुग्रहलासनाशी, सन्मार्गबोधचतुरः कमलावकाशी । लोकैस्त्रिसन्ध्यमहितो भुवि सर्वदर्शी, हन्यात् तमांसि भवतां सविनायकोऽयम् ॥ ६ ॥ ॥ इति विज्ञप्तिमहालेखपरिशिष्टरूपाणि काव्यानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org