________________
परिशिष्टम्।
॥ श्रीलोकहिताचार्यस्तुतयः॥ सच्छायागमविश्रुताः सुमनसां श्रेयोगुणानां मताः, सर्वत्रास्खलितैर्विहारविधिभिः पुंस्कोकिलानां हिताः । विद्यामोदलसद्विनेयमधुपा दृष्टा वसन्तश्रियः, श्रीआचार्यवरा न कस्य सुदृशः स्युः सम्मदालीकराः ॥१॥ यैः श्रीसूर्यसहोदरैर्दरहरैर्नानातमःसंहतेः, श्रीसङ्घस्य विकाशिभिः प्रतिपदं जाड्यापहैः प्राणिनाम् । अन्यैः श्रोतुमपि क्षमा न जगती पादैनिजैः पाविता, ते नन्दन्तु दिगन्तवित्तमहसः श्याचार्यवर्याश्विरम् ॥२॥ ध्यानज्ञानचरित्रदर्शनमहासौभाग्यभाग्यश्रियां, प्रासादा बहुलक्षमा मुनिवरा नन्दत्वमी केलये । सोपानन्ति गुणाः सुधाभयशसा शुभ्रेषु येषूज्वल,-स्तप्तस्वर्णघटेत् प्रतापनिवहः कीर्तिः पताकायते ॥३॥ प्राच्यालोकततेहिताचरणतो दुष्प्रापपुण्यागते,दधे भुवि नाम सान्वयतया चन्द्रेन्द्रमेघादिवत् । प्राग्बुद्धस्य न शङ्खशुक्लनतया रूढयेव केषां न ते, श्रीमल्लोकहिताभिधानमधुराः श्याचार्यवर्या मुदे ॥ ४ ॥ ॥
॥ शुभं भवतु, मङ्गलं भवतु ॥
॥ गुर्वावली ॥ उद्योतनः सूरिरभूत् क्रमेण, श्रीवर्धमानो रहितश्रमेण । जिनेश्वरो रोपितसाधुधामा, सांवेगिकः श्रीजिनचन्द्रनामा ॥१॥ जज्ञेऽभयः सूरिरथाङ्गदक्षश्चैत्यारोपी जिनवल्लभाख्यः । योगीन्द्रचक्री जिनदत्तसूरिनरोत्तमः श्रीजिनचन्द्रसूरिः ॥२॥ वादीन्द्रजेता जिनपत्त्यधीशः सौभाग्यभूः सूरिजिनेश्वरः सः ।
जिनप्रबोधः श्रुतहेमसानुर्भव्याम्बुजेऽभूजिनचन्द्रभानुः ॥ ३॥ गुरुजिनकुशलेशः स्थापितश्यादिमेशः, प्रभुरथ जिनपद्म शारदाकेलिसद्म । समजनि जिनलब्धिः सूरिराट् संविदब्धि,-स्तदनु च जिनचन्द्रः श्रेयसे मेऽस्ततन्द्रः ॥ ४॥
समस्तसूरीन्द्रविराजिनो दयारसालया मोहभटाजिनोदयाः। द्विजावलीप्रीतिकृते जिनोदयाः शुभाय मे श्रीगुरवो जिनोदयाः ॥५॥ भविकपङ्कजबोधदिवाकरः, शुभकलावलिकेलिसुधाकरः। जयति सम्प्रति रूपरतीश्वरः, प्रभुरयं जिनराजयतीश्वरः ॥ ६॥
॥ इति व्याख्यानश्रीगुर्वावली ॥ वर्षे नाम शते चतुर्दशमिते युक्ते त्रयस्त्रिंशतो, श्रीमत्पत्तनपत्तने शुभदिने षष्ठ्या सिते फाल्गुने । यैः श्रीलोकहिताभिधानगुरुभिः पट्टे स्थिरं स्थापिता,-स्तेऽमी श्रीजिनराजसूरियतिपा नन्दन्तु सङ्घान्विताः ॥१॥
॥
Jain Education Intemational
ation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org