SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३४. विज्ञप्तिलेखसंग्रह किं भूयसातावन्ति संघटितवन्ति नु पौरुषाणि, वृद्धिं भजन्ति लहरीकुलवत्क्षणेन । यैर्लोकितैर्नरसमुद्रपुरं तदानीं, सत्याहृतां गतमवैक्षि विलोचनैः खैः ॥ ८५ ॥ इत्थं सङ्घपुरुषमन्त्रिपूर्ण-मन्त्रिवीर-मन्त्रिसारङ्गैर्महान् प्रारोपि श्रीजिनशासनरङ्गः । । कस्य [न] गोचरोऽस्य श्रीविधिसङ्घस्य महिमा ? । किं लिख्यते औदारिकशरीरैः?। परम् ऐन्द्रं स्थाम विपोस्फुरीति करणे चेद् वापतेः प्रातिभं, चेच्चेतोऽप्यधितिष्ठतीदमपि चेदायुइँढीयो भवेत् । एतत् श्रीविधिसङ्घसम्भवमहः किञ्चित् तदा वर्ण्यते, जिह्वाग्रे च सरस्वती भगवती स्वैरं नरीनृत्यते ॥ ८६ ॥ इति रहस्यम्। [अथ विज्ञप्तिलेखप्रेषकश्रीजिनोदयसूरिकृतोपसंहारवर्णनम् । ] ० ६४७. तथा-पुरालिखितास्मद्धेतुतीर्थप्रणामलहनकाहितिं प्रति श्रीमतांसपरिवाराणांससमुदायानां कृते श्रीमेदपाटदेशस्थनानाविधापूर्वश्रीतीर्थनमस्याकरणं धवलाक्षताः, श्रीशत्रुञ्जयमहातीर्थे श्रीयुगादिजिनादिजिननमस्कृति गवल्लीदलानि, श्रीउज्जयन्तादिमहातीर्थेषु श्रीनेमीश्वरप्रमुखजिनपदवन्दनं पूगीफलानि च प्रहितानि सन्ति साह्लादमङ्गीकार्याणि । तदेवंविधानि श्रीप्रभावनास्वरूपाण्यधिगम्य श्रीमदाचार्यैः सपरिवारैः खमानसे महाहर्षप्रकर्षों 1 धारणीयः। एषा चतुर्मासी श्रीपत्तने क्षेमेण कृता । तत्रत्यानां सर्वसाधुश्रावकश्राविकाणां नामग्राहमस्मदीयानुवन्दना-धर्मलाभौ वाच्यौ । अत्रत्यः श्रीचतुर्विधोऽपि श्रीसङ्घः सादरं श्रीमदाराध्यानां पादौ द्वादशावर्त्तवन्दनया वन्दते । अस्मदुचितं ज्ञाप्यम् । विशेषाश्चिष्ठिकातो ज्ञेयाः । श्रीपञ्चकल्याणिकैकादशीदिने ॥ श्रीमल्लोकहिताचार्यपादपद्मे गुणोल्बणे । भृङ्गायते सदा साधुर्मेरुनन्दननामकः ॥ १॥ श्रीजिनोदयसुसूरिभिरेष प्रैषि सूरिहृदयङ्गमलेखः। श्रीशलोकहितसूरिवराणां विश्वविश्रतयशःप्रसराणाम् ॥ २॥ ॥ श्रीलेखलेखराजशीर्षोपरि परिष्कारशेखरश्रीधरं काव्यम् ॥ सँव्वत् १४३१ वर्षे जिनपञ्चकपञ्चकल्याणकपवित्रैकादशीदिवसे श्रीपत्तनपुरवरस्थितेन श्रीखरतरगच्छाधिपतियुगप्रधानश्रीजिनोदयसूरिसुगुरुसार्वभौमराजादेशेन तच्छिष्यलेशेन 25 मेरुनन्दनगणिना श्रीअयोध्यापुरीसंस्थितानां श्रीलोकहिताचार्यवर्याणां निमित्तमयं महालेखाधीश्वरः समर्थितः ॥ ॥ ॥ श्रीचतुर्विधश्रीविधिसङ्घस्य लेखकवाचकानां च शुभमस्तु ॥ ___अस्मिन् लेखे ग्रन्थानमुद्देशेन श्लोक ११०० ॥ श्रीः॥ सँव्वत् १४३७ वर्षे आश्विनपूर्णमास्यां श्रीकपिलपाटकपुरे पुस्तिकायां लिखितः श्रीलेखः। . DO Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy