________________
३२
विज्ञप्तिलेखसंग्रह मकरन्दपिपासामिलितरोलम्बकोलाहलच्छलेन गम्भीरवरेण श्रीसङ्घ समाकारयतः, मन्दानिलान्दोलितलताप्रतानचलत्पल्लवव्याजेन यात्रिकजनानामागमनसञ्ज्ञां प्रददतः, जाज्वल्यमानमणिधातुजातोद्गच्छन्मयूखजालमिषेण समागततीर्थपथपथिकसन्माननायाभ्युत्थानमिव विरचयतः श्रीरैवताचलस्य शृङ्गं रङ्गेण समारुरोह । अद्राक्षीच तत्र तत्रभवतामादिमं श्रीयादवकुलजलनिधिसुधाकरं करकमललावण्यजितविद्रुमं दुममिव च्छायाभूषितभूवलयं सदा पूर्वाशाभिमुखमपि पश्चिमाशाभिमुखम् , किंबहुना-दृष्टमात्रमपि सकलकल्याणोदयप्रदायिनम् । यतः
अहर्पतिध्वान्तघटाभिरस्तं, नीतोऽप्यसौ यज्झटिति प्रभाते । महोदयं संलभते तदन्ते, मन्ये प्रभोरास्यदृगत्र हेतुः ॥ ८०॥
तथादोषाकरोऽसौ क्षतकोऽपि लब्ध्वा, महोदयं यत्प्रतिपक्षसंस्थः ।
परां समृद्धिं भजतेऽनिशं स, पूर्वेक्षितस्वामिमुखप्रभावः ॥ ८१॥ एवंविधसद्यःफलेग्रहिमहिमाकरं श्रीनेमिजिनवरम् । तदनु तत्रापि महत्या भावनया महत्या द्रव्यपरम्परया समाराधितः श्रीसङ्घलोकेन प्रभुः। विहितास्तत्रापि सावशेषाः सर्वेऽपि 15 विधयोऽहमहमिकया श्रीशत्रुञ्जयवत् सङ्घपुरुषमन्त्रिपूर्ण-मन्त्रिवीरासुश्रावकाभ्याम् । प्रवर्तिताः श्रीशत्रुञ्जयावतारश्रीयुगादिजिनश्रीकल्याणत्रयाम्बिकाभुवनावलोकनाशृङ्ग-शम्बुप्रद्युम्नशृङ्गसहस्राम्रवणादिस्थानेषु महापूजाध्वजादिमहिमाः । तथाऽस्माभिरपि सपरिच्छदैः समुच्छलद्भावनालहरीसमुल्लोलितहृदयैरवन्दि प्रण्यधीयत संतुष्टुवे च श्रीनेमीश्वरः। समाराध्यते स्मापरोऽपि सर्वप्रासादेषु तीर्थकरनिकरः। एवं प्रारोपि श्रीसङ्घपुरुषाभ्यां द्वयोरपि 20 महातीर्थयोर्महारङ्गः । समजनिष्ट दुष्टासहनमनोरथभङ्गः । लेभे सकलेऽपि भूमिवलये यशोनादः । प्राकाशि लोकत्रयान्तः श्रीखरतरश्रीविधिसङ्घजयवादः। प्रोत्सर्पिताः प्रतिपदं काम्यकीर्तिध्वजाः।प्रीणिताः सर्वेऽपि मन्त्रिमूञ्जा-मन्त्रिमण्डलिकप्रभृतिपूर्वजवजाः। किं भूयसा पञ्चदिनानि महती प्रभावनां विधाय श्रीमन्नेमीश्वरश्यामलधवलतनुकटाक्षप्रभापूरकलिन्दतनया-जाह्नवीसङ्गमस्लानेन बाह्यं शरीरम् , निर्मलश्रीखामिभक्तिसुधाप्रवाहपानेन चान्तरं * वपुः पवित्रयित्वा, श्रीसङ्घलोकः श्रीउज्जयन्ततीर्थात् समुदतारीत् ।
[गिरिनारतीर्थात् स्वस्थानं प्रति प्रयियासोः सङ्घस्य प्रस्थानवर्णनम् । ] ६४४. ततः श्रीतीर्थाद् वियोगाक्षमः श्रीसद्यो गृहं प्रति प्रचिचलयिषुः स्वर्गलोकाद् भूलोकं प्रति प्रयियासोगीवोणस्याभिप्रायं पुष्यन्नपि नियतिबलात् प्रास्थात्। प्रभूतः श्रीमाङ्गल्यपुरे । स्थापयाम्बभूविरे तत्र तत्रत्यश्रीसमुदायाग्रहेणास्माभिः श्रीललितकीय॒पाध्यायाः पं० 0 देवकीर्तिगणि-साधुतिलकमुनियुताः।।
६४५. ततः प्रस्थाय श्रीदेवपत्तनपरिसरेऽवस्थानमचकल्पत्। तत्र च बभूव भूयसा विस्तरेण श्रीदीक्षामहोत्सवः। तस्मिन् अविनश्वरश्रीदेवगुरुभक्तिभाण्डागारस्य, प्राय आधुनिकश्रावक
Jain Education Intemational
For Private & Personal Use Only
ation Intemational
www.jainelibrary.org
For Private & Personal Use Only