________________
विज्ञप्तिमहालेख
[शत्रुञ्जयतीर्थयात्रानन्तरं गिरिनारतीर्थं प्रति प्रतिष्ठासोः संघस्य प्रयाणवर्णनम् । ] ६४१. तदनन्तरं श्रीसङ्घः समुत्तीर्य श्रीशत्रुञ्जयात् तत्प्रेमविरहकातरः श्रीउज्जयन्ताचलं प्रति प्रतिष्ठासुः पितृगृहात् सुदुस्त्यजात् श्वशुरगृहं प्रति प्रस्थितस्य वधूजनस्य भावं मानसे दधानः प्रचचाल । श्रीविनयप्रभमहोपाध्यायाश्च प्रत्यासन्नकाले श्रीतीर्थनमस्करणात् तदा शरीरस्यापि ताइक्सबलताया अभावाच पुनरपि प्रति श्रीस्तम्भतीर्थं प्राचाल्यन्त ।
४२. प्रस्थितश्च श्रीसङ्घः प्रतिप्रयाणं नानास्थानमिलल्लोकबाजैरन्तरा पुरग्रामस्खाम्युपनीयमानतुरगादिवाहनसमाजैश्च प्रतिदिनं वलक्षपक्ष इव नवनवकल्लोलैरिव समुद्र इव वर्द्धमान:, प्रतिपदं श्रीखरतरगच्छमहिमानं प्रकर्षपदवी प्रापयन्, वेगेन सरलसरससारसहकारादिकारस्करममदवनविनीलितपरिसरे श्रीअजागृहपुरे प्रभूय प्रोत्तुङ्गतोरणमण्डपवातायनादिपदरमणीये जनमोहनशोभासुन्दरे श्रीशिखरबद्धजिनमन्दिरे जीर्णमूर्ति तरुणीयमानमहि- . मस्फूर्ति सेवकजनसाहाय्यकरं श्रीपार्श्वजिनवरं दिनत्रयं सादरं समुपास्य; तदनुसंमुखायातऊर्णापुराधिपानमतः सविस्तरप्रवेशकोत्सवपूर्व तन्नगरमतिक्रम्यः तदनु कोटीनारपुरे श्रीगिरिनारमहातीर्थाधिष्ठायिन्यास्तत्पथाध्वनीनश्रीसङ्घरक्षाविधायिन्याः श्रीनेमिनाथभक्तभव्याम्बिकायाः श्रीअम्बिकाया आराधनं विधाय; श्रीगौरवद्वारेण तत्साहायकं च समधिगत्यः ततोऽपि च निरन्तरं सागरोत्तरोत्तरतरवृन्दविनोद्यमानप्राकारे श्रीदेवपत्तनपरे । पुरसारे जाज्वल्यमानमणिगणमण्डितमस्तकानामपि परमैश्वर्यराजिनामपि गर्वपर्वतप्रान्तविश्रान्तमनसकेशरिणामपि तणायितेतरनराणामपि सङ्कस्याभूतपूर्व श्रीसोमनाथविहारद्वारा ग्रतो गणनमार्गातिक्रान्तक्षत्रियभूदेवजटाधरधोरणीवर्ण्यमानयशःप्रभावम्, तया रीत्या, तया स्फीत्या, तया विच्छित्त्या, तया विभूत्या, तया स्फूर्त्या, तया कीर्त्या, मध्येपुरम् अन्तरा राजपथं श्रीप्रवेशकमहामहं समनुबोभूय्य, श्रीप्रासादेषु भीष्मभवव्यालमहादुःखगरलमूर्छनाकुलभविकुलसमाश्वासनाय श्रीचन्द्रकान्तप्रक्षालजलसदृशदृष्टिविलासान् श्रीचन्द्रप्रभखामिप्रमुखजिनवरान् प्रणम्य सहर्षम् ; तदनु श्रीमाङ्गल्यपुरे संमुखागततदधिपानुज्ञातप्रवेशकमहःपूर्व विप्रतिपित्सुमिथ्यादृष्टिजनश्रीजिनशासनाचिन्त्यशक्तिव्यक्तनाय प्रकटितमूर्तिमत्प्रभावपल्लवं श्रीनवपल्लवपार्श्वनाथं नमस्कृत्य; वयं च श्रीविधिसमुदायं श्रीसमुदायसहितसं०मन्त्रिपूर्णेन कारितायां चारुदारुसुधारसादिप्रसाधितायां श्रीविधिमार्गपौषध- 25 शालायां दिनत्रयावस्थानेन समनुगृह्य च; ततः प्रस्थाय प्रत्यूषे
आ ! कि सारमसाररत्नघटितः किं वा सदाब्दावृतः, किं वा क्रन्दितसालिभोजतनया नेत्राञ्जनैः पङ्कितः। किं दाह्यागरुभोगजन्मभिरहो ! श्यामायितोऽग्निध्वजै,-रित्थं संशयमावहन्तमचलं रैवन्तमालोकत ॥ ७९ ॥
___[गिरिनारपर्वताधिरोहण - तदधिष्ठितश्रीनेमिजिनपूजा-महोत्सवादिवर्णना । ] ६४३. तदनु श्रीजीर्णदुर्गस्थानके सुधारसमिश्रितघनसार-चूर्णनिमितं नयनानन्ददायिनं ५ श्रीपार्श्वप्रभुं सविस्तरमभ्यर्च्य, प्रायो देवानामपि दुर्लभसङ्गमस्य सुकृतप्राप्यदर्शनश्रीदिव्यतीर्थविभूषितस्य विनीलवनराजिविराजितभूवलयस्य परोलक्षाभिश्चक्षुभिरिव विकखरकारस्करप्रसूनप्रकरैः श्रीसङ्घमार्ग सरलमूर्तेः पश्यतः, वृक्षाग्रशाखासक्तसरससुरभिपुष्प
Jain Education Intemational
For Private & Personal Use Only
cation Intemational
www.jainelibrary.org
For Private & Personal Use Only