________________
5
३९. तदनु विदधिरे मनोहत्य भोजितामितमानवज्ञातिप्रकारा यथेच्छदीयमानाहारा अवारितशत्रुवराः । प्रददिरे चतुर्दिग्वलयमेरा विलासिधवलयशःप्रसरप्राप्तिप्रथमनिदानानि, त्रिलोकतलनिलीन लोक मनोवशीकरण सातिशयरक्षाविधानानि, समूर्द्धकम्पं चमत्कारितस्थूललक्षलक्षहृदयानि, कम्पितमितम्पचानि, द्विविधरजतशृङ्गार सुकुमारचारुचीवरसंभारप्रभृतिप्रभूतदानानि मार्गणगणेभ्यः । प्रववृते श्रीमूलप्रासादादाप्राकारप्रतोलीं समन्तादेहिरे याहिराप्रवृत्तैर्दिव्यशृङ्गारधारिभिः समृद्धलो कैस्त्रिदिवायिताधिकभूधराधित्यिकः श्रीइन्द्रमहोत्सवः । तथा पुनरपि श्रीमूलविहारे श्रीमूलनायकामृतमयप्रसन्नलोचन विलासविस्तारे सकलखपक्षपरपक्षहृदयाक्षेपकारी द्विजिह्वजिह्वास्तम्भकारी समस्ताधिष्ठायकमनः प्रीतिविस्तारी शब्दायमानमहावाद्यविताननादोत्पादितप्रतिनाददम्भेन जयवादप्रदानमुखरी भूतप्रासादमण्डपस्तम्भशिखरविवरदेवगृहिकादिस्थाननिकरः, विवर्णयिषु लब्धवर्णरसनाश्रमविधायी श्रीप्रतिष्ठा" महोत्सवो ज्येष्ठवदितृतीयायां कारयांबभूवे ताभ्यां सङ्घपतिपुरुषाभ्याम् । प्रतेष्ठीयाश्चक्रिरे तत्रास्माभिरष्टषष्टिबिम्बानि, प्रभाते च प्रशंसापदं महासविस्तरः श्रीमालारोपणमहोत्सवश्च व्यधीयत । तथा
10
३०
विज्ञप्तिलेखसंग्रह
पापोपताप निराकारि पुण्यवद्गुणश्रेणिप्रशंसा विस्तारि भरित श्रीचतुर्विंशतिजिनमूर्त्तिधारिप्रधानपट्टसूत्रमयसुरचितप्रधान परिधापनिकावितरणश्रीजिनमज्जनावसरपरोपकरणरूपसुरूपर
20
सितकलशभृङ्गारवारविश्राणननिःशेषसुषमास्पदालेख्यश्रीविशेषितरङ्गमण्डपसौभाग्योदयपट्टांशुकमयरुचिरचन्द्रोदयप्रदेशना दिघनतरप्रकारैर्विशेषतः श्रीमहातीर्थमहिमा स्फारीचक्रे ।
25
प्रासादाः प्रतिपर्वतं प्रतिपुरं सन्ति प्रभूताः परं, सौभाग्यं भुवि मानतुङ्गभुवनस्यैवाद्भुतं मन्महे । यस्मात्स्थानकरामणीयकदिदृक्षार्थं विसृष्टं मनो-नेत्राभ्यां सहितं मुदा प्रथमतो दाधाव्यते तं प्रति ॥ ७८ ॥ ९४०. एवंविधे निखिलतीर्थावतारे सर्वत्र प्रभविष्णुप्रभाव भाखर श्रीमत्खरतरगच्छ महामहिमसमुल्लासिपरमपूर्वपुरुषाधारे युगप्रधान श्रीजिनकुशल सूरि सुगुरु सुगुणयशोराजकुमारक्रीडाराजधानीप्रकारे श्रीमानतुङ्गाभिधानश्रीखरतर विहारे श्रीमूलप्रासादावतंस विशेषाः पूजादिमहिम विधयो विनिर्मिमिरे सङ्घपुरुषाभ्याम् । प्रसादिताः सपर्याप्रकारैः समाराधकभविकाबन्ध्यप्रसादाः श्रीमजिनरत्नसूरिपादाः । अनन्तरं सर्वश्रीविमलाचलालङ्कार जिनविहारेषु महाध्वजारोपादिपूजा चक्रे । तथाऽस्माभिरपि पुलकाङ्कुरकोरकिताङ्गवारैः सपरिवारैः प्रतिप्रसादं प्रतिबिम्बं प्रतिदिनं पञ्चशक्रस्तवदेववन्दननमस्कारस्तुतिस्तवनप्रणिधानविधानैस्तत्तादृश विशदपुण्योदयनिबन्धनश्री सङ्घसहित सङ्घ पति विहितमहामहिमानुमोदनैश्च पवित्रपानी" यस्नानैरिव निजात्मा विमलयांबभूवे ।
भूयोभिः किमु भूरियोजनमिताः पञ्चाप्यमी मेरवो, यत्र स्तम्भतुलां धरन्ति स कथं भो मानतुङ्गो बुधाः । आ ज्ञातं समतीर्थधारकतया सौभाग्यलक्ष्म्या तया, तुङ्गोऽसौ भुवि पूजया तनुभृतां तेनास्तु सत्याभिधः ॥ ७७॥
इत्थं दिनाष्टकं यावत् प्रमदोत्सुकैः सहर्षकोलाहलैः सुशृङ्गारोल्वणैर्यात्रागतलोकगणैः श्रीविमलाचलः श्रीतीर्थङ्करस्नपनावसरमिलितैः सुरासुरसमूहैः सुराचल इव शुशुभे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org