________________
विज्ञप्तिमहालेख
[पत्तननगरादारभ्य शत्रुञ्जयगिरि यावत् मार्गगतप्रयाणस्थानवर्णनम् । ] ६२८. निष्क्रम्य च श्रीनरसमुद्रपुरगोपुरात् क्रमक्रमेण पुरतः पुरःसरैस्तन्नियोगनियुक्तैः साव-. हितैः पुरुषनिकरैः, ततोऽप्यग्रतो बृहद्भानुदेदीप्यमानदीपिकाप्रकरः, ततोऽपि रोहिणीरमणमधुरसान्द्रचन्द्रिकाप्रसरैश्च प्रदर्यमानमार्गः, कुमरगिरिग्रामपरिसरे प्रथमप्रयाणमकार्षीत् । __. अनन्तरं सङ्घपुरुषप्रहितमूर्तिमयात्मीयहृदयङ्गमसाधम्मिकानुरागतरङ्गोच्छलच्छीकराकराकारकाश्मीरजरसच्छटाच्छोटनलगितशोणबिन्दुमण्डलीकर्बुरितनयनालादकारिकज्जलजमलिनाम्बुधाराविरचितवर्णावलीपवित्रसप्रणयलिखितकुङ्कुमपत्रिकापतिसमाहूत-गौर्जरमरु-मेदपाट-सपादलक्ष-माड-सिन्धु-वागड श्रीकौशलादिमहामण्डलनिवासिलोकसमायातकतिपय विषयजनपरिवृतेन, कणेहत्यभोजितसमस्तनागरजनजाति विततवासोवितरणप्रीणिताशेषदर्शनप्रदेदीप्यमानप्रशस्याशीर्वचनपीयूषप्रवाहलप्यमानभाग्यसौभाग्यपुण्ययशो- 10 मण्डलेन सङ्घपुरुषमन्त्रीश्वरवीरासुश्रावकेण सह वयमपि सपरिवारा माधवमासप्रथमतृतीयादिने तत्रैव प्रथमप्रयाणे प्रबभूवांसः। ६२९. ततस्ततः प्रस्थितः श्रीसङ्घः श्रीसलक्षणपुरे मन्त्रि-सं० गेहाङ्गज-मन्त्रिडूंगरकारितसविस्तरतरश्रीप्रवेशकोच्छ(त्स)वपूर्व प्रविश्य समुच्चशृङ्गस्खलितनिरवधानगगनचरखैरिताविहारे बहुसमाकारितसर्वजन्तुजातामारिघोषणापोषिताकल्पानल्पकीर्तिकीर्तनीयसंसा० कोचर- 15 विरचितोद्वारे श्रीविधिविहारे तत्पुण्यपुरुषविशदयशोमुक्ताहारशृङ्गारणोदारेन्द्रनीलमयनायकमणिसोदरं प्रभावभरितब्रह्मस्तम्बोदरं सैन्धवाभिधानं श्रीपार्श्वजिनवरं नमस्कृत्य, स्नानविलेपनमहापूजामहाध्वजावारितशत्रुमार्गणद्रविणपोषणादिप्रकारैः श्रीजिनशासनं समुन्नतिं प्रापय्य, दिनद्वयानन्तरं श्रीशङ्खपुरवरे वरेण्यलावण्यपुञ्जविराजितनिरन्तरजागरूकप्रौढराढाकेलिसदनसौववदनविडम्बितपार्वणसुधाकरमण्डलम्, लोचनपथविषयीभावमा-" वेण विद्रावितोपद्रवमण्डलम्, अहनिशदासायमानमानवदानवदेवम् ,सुरभूरुहमिवावन्ध्यसेवम्, श्रीपार्श्वनाथदेवं सादरं नमस्थित्वा, तद्भवने महाध्वज-महार्चा-गीतनृत्यावारितशत्रुसकलार्थिसन्तोषणादिविधिभिरगण्यपुण्यरोचिष्णुयशोराशीन् समतिक्रान्तसीमासमुद्रान् समचेचायीत्, अनेनायीच धन्यतां दिनचतुष्टयीं तत्र।
३०. ततश्च श्रीपार्श्वजिनसौम्यदृष्टिप्रसादविहिताङ्गरक्षः श्रीसङ्घः श्रीपाटल-श्रीपञ्चासर-5 ग्रामयोः श्रीनेमिजिन-श्रीवर्द्धमानजिनौ साहमहमिकं प्रणम्य, प्रातर्मण्डलग्रामे साटोपमावेशनिकां व्यरीरचत् । तत्र च महाविस्तरेण बलाधिकसा० कडुयासुश्रावकस्य पाश्चात्यपदवीपरोपः, तथा वाग्भटमेरवीयपरीक्षिविक्रमसैन्धवसा राजा-पत्तनीयसा कान्हड-स्तम्भतीर्थीयश्रेगोवलसुश्रावकाणां च महाधरपदसंस्थापकः श्रीवासक्षेपोऽस्माभिश्चेक्रीयाम्बभूवे । तदनु सं० वीराकेण पकूलकायावृतिप्रभृतिशृङ्गारप्रदानेन सम्मानितास्ते विशेषत्री- देवगुरुभक्तिसाधम्मिकाराधनतर्षकतोषणादिमहिमाभिः श्रीशासनयशः साधिकं सप्रकाशमकार्षुः । तथा सखकीयवर्गानुयायिलोकसङ्कुलसधरलक्ष्मणापरपक्षीयमुख्यश्रावकत्रयस्य सङ्घपत्तिपदसंसूचकं श्रीतिलकं विधाय मन्त्रिसङ्घपुरुषवीरासुश्रावकेण सङ्घपतिपदस्थापना
वि.म.ले. ४
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org