________________
10
15
विज्ञप्तिलेखसंग्रह
तावलोकघटा निशम्य चलिता यस्मिंस्तडागस्थिता मार्गे झोषणदुःखिताः प्रतिदिनं सद्भोज्यलाभोत्सुकाः । क्षुद्रैः श्रीव्ययशङ्किभिर्विघटिताः सेर्घ्यं ततो दुर्घटं मत्स्यी रोदिति मक्षिका च हसति ध्यायन्ति वामभुवः ॥ ५३ ॥ तत्र क्षणे संमुखमागतायाः कस्या मुखं दर्पणचारुदृष्टम् ।
दृक्खञ्जनौ हास्यदधीनि सिद्धिं ब्रूते ब्रुवाते ब्रुवते मृगाक्ष्याः ॥ ५४ ॥ अपि च- क्रमात् -
रेणूत्रे प्रौर्णुवितार्थजाते नावीक्ष्य तं दीपकिकात्रजेन । चोत्पादितेऽहर्मुखविभ्रमेऽपि चन्द्रोदये नृत्यति चक्रवाकी ॥ ५५ ॥ आलोकिताशेष कुतूह लेंशावस्तंगते वीक्षकदेहभाजाम् । प्रदर्शिताल्पोत्सव कस्तदानीमयं शशी वह्निकणान् प्रसूते ॥ ५६ ॥ लोके विचित्रे मिलितेऽपि यत्रासमञ्जसत्वं न यशः प्रपेदे । किं वा मृगाक्षीशतमेलकेऽपि रामामुखं चुम्बति कार्त्तिकेयः ॥ ५७ ॥ किं भूयसा -
25
२४
इत्येवं प्रवर्त्तमानबहुविधप्रशस्यसमस्यापदपोषणार्थीले खिखरूपनि कुरम्बप्रवर्द्धितसुधीजनधिषणोन्मेषप्रसरे प्रकर्षं गतवति समस्ताश्चर्यप्रकरे - 'अहो अहो ! भाग्यम्, अहो अहो ! सौभाग्यम्, अहो अहो ! पुण्यप्रकर्षः, अहो अहो ! साहसोत्कर्षः, अहो अहो ! श्रीतीर्थयात्रारसतर्षः, अहो अहो ! सुगुरुवचनसंघर्षः । बत बत ! यशस्विता, बत बत ! मनस्विता, बत बत ! महस्विता, बत बत ! प्रवीणता, बत बत ! उदारता, बत बत ! चारुता, बत बत ! अगर्वता, बत बत ! आर्जवाखर्वता । कटरि कटरि ! राजप्रवादः, कटरि कटरि ! साधुवादः, कटरि कटरि ! 20 प्रागल्भ्यम्, कटरि कटरि ! श्रीशासनप्रभावनावाल्लभ्यम्, कटरि करि ! वचनमाधुर्यम्, कटरि कटार ! दिवेकिता, कटरि कटार ! विदग्धता, कटरि कटरि ! स्थैर्यम्, कटरि कटरि ! धैर्यम्, कटरि कटार ! गाम्भीर्यम्, कटरि कटरि ! उद्भटता, कटरि करि ! पूर्वकृतसुकृतप्रकटता' - इत्येवं प्रतिजनं प्रतिवदनं प्रसर्पति श्रीसङ्घपुरुषस्य श्लाघोदोषे, सीमानं जग्मुषिरं सर्वरसपोषे श्रीशत्रुञ्जय श्रीउज्जयन्तमहातीर्थद्वयारोहणार्थप्रस्थितश्रीसङ्घपतिप्रकटितरूपद्रयनिर्मलयशःपुञ्जानुकारिदधिदुग्धवार्द्धिडिण्डीर पिण्डपाण्डुर भद्रकरिकलभानुहारिदुर्द्धर भारधरण धौरेय धवलसबल कलकार्त्तखरच्छुरित सुखर घर्घावलीवल यितगलकन्दलकौसुम्भांशुकशृङ्गारितशृङ्गाग्र भागमहाभागसु भगदर्शनार्हस्पर्शनार्हवर्णनार्हवृहद्देहश्रीगेहस्थूलवृषणयुगलाकृष्यमाणस्य निजजातिलब्धसर्वगुणप्रमाणस्य स्वरूपसारङ्गलोचनाशरीरस्येव दक्षिणावर्त्तभ्रमरमणीयनाभिचक्रस्पृहणीयस्य महारथस्य मध्यमारोपितस्य सुप्रसाधितमनोहरनेपथ्य सुघटित सुवर्णरत्नालङ्कार भासुरीकृतप्रतीकप्रतानप्रधानसुरकुमारावतार महे• भ्यव्यवहारिकुमर चतुष्टयस्थूला मलकतुलितप्रमाणसरसमुक्ताफलकणाकलितकनककङ्कणकाणवाचालसुकुमारकर कमलप्रति दिशचाल्यमानजाह्नवीसमुच्छलदधोगलज्जलकल्लोललीलावलम्बिनिकुरम्बीकृत सूक्ष्मतन्तुमृणालजाला भधवल कुन्तलविशेषसंगुम्फितरो मगुच्छविक्षेपप्रख्यापित सकलमहीवलयवर्त्तिसुविज्ञान विच्छित्तिविचित्रदेवालय कुलैकातपत्रैश्वर्यस्य असंभाव्यशोभालयस्य श्रीदेवालयस्य निष्क्रमणमहोत्सवो बोभूयाम्बभूव ।
30
तं देशं न मृशामि सौवमनसि प्रायो यदीया जनाः, अस्मिन् संमिलिता नहि व्यतिकरे सत्कौतुकान्वेषिणः । नूनं तानि न कौतुकानि भवने जातानि यानीह नो, किं ब्रूमः किमु कुर्महे किमपरं लेखे लिखामोऽथवा ॥ ५८॥
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org