________________
विज्ञप्तिमहालेख भूतविभवव्ययोदारतावर्णिकां दर्शयतेव कारितं सविस्तरं श्रीमहापूजाध्वजारोपनृत्यगानदानाटोपप्रमुखप्रभावनाविधिम् । संदृश्यानुमोद्य च सम्मुखागतसंख्यातीतश्रावकलोकमयश्रीपत्तनीयश्रीसमुदायसमन्विताः, प्रातः समुदयश्रियं शेश्रीयमाणे मङ्गलकलशशालिनि श्रीमदंशुमालिनि मधुमासप्रथमद्विगुणषष्ठीवासरे श्रीपत्तनपुरवरे भासुरसमुदयरमाभ्राजं श्रीशान्तिनाथतीर्थराजं नमश्चकृमः स्म । तत्रयं श्रीसमुदायं बहुदिवसदर्शनोत्सुकं प्रमोदयाञ्चकृम च ॥ ६ ॥
[अथ मन्त्रिवीराप्रारब्धतीर्थयात्रोपक्रमवर्णनम् । ] ६२४. तदनु मन्त्रीश्वरवीरेण वज्राद्रिणेव मनसि धीरेण खमनोरथावली महतीं फलेग्रहीं कर्तुमुपायनीकृतामितखापतेयराशिना भेटितः प्रकटविसङ्कटदुःसहाभिमानः श्रीखानः । तेनापि पुरपरिवृढेन निरन्तरं समाराध्यमानस्वीयश्रीदेवगुरुचरणप्रसादातिरेकात्तदीयपुरातनपुण्य- 10 पुण्यभाग्यसौभाग्यसदाकृतिसौम्यतादिरमणीयगुणप्रसन्नीकृतमानसेन तस्य कृतः प्रसादः। समभिनन्दितो बाढं मधुराभाषणादिना । व्यतारि च चतुःशिखरमिषचतुष्ककुब्विलासिकमनीयकीर्तिकन्यिकापृथक्पृथक्क्रीडापर्वतकविराजितेन दीप्रतरसुवर्णसूक्ष्मतन्तुजालसर्वतोग्रथितेन शिरस्त्राणेन सहिता कलकनकमयकिङ्किणीश्रेणिमिषमूर्तिमन्नेतृप्रकटप्रतापलवकृतालकृतिः पट्टकूलमया समस्तोत्तमजनमनोजनितधृतिः प्रशस्या कायावृतिः । प्रसादीकृतं ।। च कृतसुकृतकर्मान्तरायदुर्जननिकायमनोरथमालानिद्राणं सकलमहीवलयप्ररोपितप्रमाणं श्रीफुरमाणम् । तदनन्तरं तदनुज्ञातस्तत्प्रदत्ताकल्पसमलङ्कृतवपुः, पुरुषोत्तम इव त्रिविष्टपजनतामनोमोहकारिण्या तया श्रिया समालिङ्गितः, सहस्रलोचन इव जयेनान्वितः सरलशालिहोत्रारूढः, पुरमुख्यव्यवहारिमानवलक्षानुगम्यमानः, गर्जजीमूतस्फीतध्वनिविडम्बिना तारंवरितखरेण मङ्गलपाठकघदैरुपस्तूयमानः, सावधानगन्धर्ववृन्दैः प्रत्यग्रसर्वाग्रि-20 मरम्यग्रामगान्धर्वोद्गारैौरवातिरेकं प्राप्यमाणः, वाद्यमानानवद्यवाद्यवृन्दोदात्तखरैः स त्रिजगति प्रख्याप्यमानः, कुतूहलरसनिभालनधावमाननगरलोकवनितावितानविस्मेरनेत्रकच्चोलकैः पीयमानसौभाग्यलावण्यरसा, मध्ये पुरं प्रवेशकमहोत्सवपूर्व प्रविश्य श्रीविधिमन्दिराधीश्वरं श्रीशान्तिजिनवरं नमश्चकार मन्त्रीश्वरवीरः । श्रीपुण्यशालायां श्रीगुरूंश्च सादरं प्रणम्य समासादिततदुपदेशादेशः सौवावासमयासीत् ।
६२५. ततश्च पूर्वमेव प्रगुणीकृतसमग्रसामग्रीकोऽसको सज्जीचकार चारुदारुमयं मनोहारिविचित्रचित्रनिचयम्, व्योमाग्रोल्लेखिशिखरप्रान्तवर्तिकान्तकनककलशविसारिरश्मिवारभासुरितसप्तहयम् , भग्नसकललोकचञ्चलविलोचनरयम् , दिव्यभवनमिव विचित्रपुत्रिकाभ्राजिष्णुमहारम्भस्तम्भम् ,तुलितायामविष्कम्भम् ,देवलोकभूवलयमिव कणत्किङ्किणीकुतूहलकोलाहलायमानचतुरसखीश्रेणिपरिकरितया चतसृषु दिक्षु यदृक्षया खेलन्त्या दिविचरमनांसि 30 भ्रमयन्त्या वैजयन्त्या शोभमानम् , प्रायो मिथ्याशामपि समदृशां मनोमृगकदम्बकके लिगिरिम् , गरीयोगिरिमिव कचित् कनीयःशिखरराज्याराजितम् , कचिन्नभोभ्रमणश्रमखिन्नरिव निश्चलोपविष्टैः कलविङ्ककुलैः कलितैः समीराभावान्निःकम्प्रैरिव विनीलघनभेदसान्द्रद्रुम
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org