________________
२०
विज्ञप्तिलेखसंग्रह कारुण्यमय इव हृदि, तन्मय इव मुदि, आलस्यमय इव रुषि, सर्वगुणमय इव वपुषि, परीक्षानिरीक्षणीयसङ्घपुरुषपदवीदक्षणक्षमलक्षणविभूषणः मन्त्रीश्वरमूखापरमश्रावककुलकनकाचलधरणीसमलङ्करणकल्पकारस्कराङ्कुरः श्रीशासनप्रभावकः मन्त्रीश्वरवीरासुश्रावकः खकीयपूर्वजसहोदरमन्त्रिमण्डलिकवचनानुपालनप्रवीणः श्रीमहातीर्थद्वयाद्वैतयात्रां 5 झगिति संसुसूत्रयिषुरपि,महाराज्यस्थितिरिव सधरधीसखान् विना श्रीसुगुरूनन्तरेण महीयः श्रीसङ्घयात्रादिधर्मकार्यविधिः समुन्नतिभाक् कल्याणाभ्युदययुग अविनश्वरपुण्यसम्पत् सकललोकचमत्कारकृत् समस्तसंकटघटाभित् परश्रीहृत् सर्वथापि न संपनीपद्यते-इति हृदयालुः खहृदयेऽवधारयन् , परारिपरदेषमाप्रहितनानाप्रकारसभक्तिकविज्ञप्तिसंभारोऽपि, समाकारणायास्माकं सम्प्रति विशेषेण प्रस्तावं समधिगच्छन् समानेतुमस्मान् , प्रकृतिविनी10 तात्मानं समानन्दितसजनवितानं साधुजनमानसकुलेशयकेलिसारङ्गं श्रीगुरुवदनाम्बुदक्षरद्वचनामृतबिन्दुसङ्ग्रहस्पृहासारङ्गं प्रसन्नतागुणानुकृतसारङ्गम् उदारतासहोदरीकृतसारङ्गं मन्त्रिमण्डलिकाङ्गजं निजभ्रातृव्यं मनिसारङ्गं प्राजेघीयिष्ट । समागतश्चासौ तत्र नमस्कृत्य श्रीकरहेटकाधीश्वरं श्रीपार्श्वजिनवरम् । भेटयित्वा च पुरपुरन्दरं सादरम्, समावयं च समग्रंश्रावकनिकरंतत्क्षणमेवास्माकं वन्दननमस्करणपूर्व श्रीतीर्थयात्रायै प्रस्थापनक्षमाश्रमणं 1 प्रदेदीयाञ्चक्राणः । वयमपि बहुवासरेभ्यः श्रीतीर्थयात्राकरणेनात्मानं पवित्रयितुकामाः, सम्प्रति प्राप्तप्रस्तावाः, तत्रत्यं महाग्रहपरं श्रीगुरुदर्शनविरहकातरं परमपुण्यभक्तिसमवायं साधुराजरामदेवप्रमुखं श्रीसमुदायं भूयसा प्रयत्नेन संबोध्य, तदामन्त्रितश्रीतीर्थयात्रापस्थितसकुटुम्बगीतार्थप्रभूतश्रावकसङ्कुलेन मन्त्रिसारङ्गसूत्रितनिराबाधसार्थेन सह श्रीकरहेटकप्रभुपार्श्वजिनप्रसादमुररीकृत्य शिरसि प्रधानशकुनसन्तानदत्तानुमतयः फाल्गुनशुक्ल20 दशम्यां प्रतस्थिवांसः।
[मार्गागतप्रसिद्धतीर्थनमस्कारवर्णनपुरस्सरं, पत्तनपुरप्रवेशवर्णनम् । ] ६२३. अन्तरा च नवखण्डमेदिनीविदितमहिमानं सर्वातिशयनिधानं सकलकल्याणमूलनिदानं नागदमहास्थाने जिनवरं श्रीनवखण्डपार्श्वनाथनामानम् ; श्रीमदीडरगिरिमहादुर्ग
शृङ्गशोभाकारिशातकौम्भकुम्भं युगादिप्रदर्शितलोकद्वयोपकारिधर्म-कर्मसंसर्गप्रारम्भ 15 युगादिभग्नमोहसंरम्भं युगादिजनमनःकामितकामकुम्भं श्रीचौलुक्याधिपविधापितोत्तुङ्गतोरणरमणीयविहारविहितवसतिं महोदारमूर्ति श्रीयुगादिजिनपतिम् ; श्रीबृहति नगरे च सौवोत्तुङ्गमण्डपद्वारशिखरस्तम्भादिश्रीचमत्कारितसनातनायतनविभ्रमाभिरामप्रासादोदरविभ्राजमानौ विलोकनमात्रसम्भावितभङ्गुरीभवद्भवाभिमानी पुण्यप्रलेपमयौ जीवत्स्वामिप्रथमतीर्थनाथ-श्रीमद्वर्द्धमानी; श्रीसिद्धपुरे चं श्रीसिद्धचक्रवर्तिश्रीजयसिंहमहीपकारिते 30 शाश्वतिकचैत्यावतारे विधिवदनसङ्ख्यद्वारे विलोककलोकलोचनावलीसमानन्दनकाचकर्पूरशिलाकानुकारे बहुविधपश्चालिकामालिकादिविच्छित्तिभङ्गीसकलायतनसारे रम्ये श्रीविहारे सन्निविष्टाश्चतुर्दिशाभिमुखोपविष्टाः श्रीपरमेष्ठिचतुष्टयमूर्तीश्च नमस्कृत्य; तथा आ श्रीकरहेटकपार्श्वजिनभवनं सर्वेषु श्रीतीर्थस्थानेषु मन्त्रिसारङ्गेण श्रीमहातीर्थयात्राविधास्यमानप्र
Jain Education Intemational
cation International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org