________________
विज्ञप्तिमहालेख सीमन्तिनीजनचया मिलितास्तथाऽत्र कौसुम्भचेलपटलीरचितोत्तरीयाः। जाता यथाऽवनिधरस्य सुभूमिरेषा सत्पद्मरागशिखरै रुचिरा सचित्रा ॥४७॥
अपि चते केऽपि गीतविधयो नवनाट्यभङ्गास्ते केऽपि चाद्भुतरसा ननु हर्षरङ्गाः ।
यैर्विश्वविस्मयकरैरनया पुरापि स्वर्गायितं कतिपयानि दिनानि नूनम् ॥४८॥ किञ्च-श्रीजैनशासनमहो महिमानिधानं पुण्योऽसकौ खरतरस्य पथो विधिश्च । वयं च साधुसचिवेश्वररामदेवविस्फूर्जितं बत बतेति न कैरनावि ॥ ४९ ॥
____किंबहुनाकिं चिन्तयाम च दधाम च चाम किं वा किं वर्णयाम च नवाम लिखाम किं वा।
बुद्धिमहाद्भुतरसाम्बुनिधौ निमग्ना संगाहते न हि कथञ्चिदपि स्वरूपम् ॥ ५० ॥ अतः स्वल्पमात्रमेवात्र लेलिखाश्चक्रे इत्यवसेयम् । तथा यदेवं म्लेच्छसंकुलसंनिवेशेभ्योऽपि दूरं विषमेऽपि अनेकपुण्यविधिपथप्रत्यर्थिखलकुलसङ्कीर्णेऽपि दुष्टव्यन्तरप्रचाराकुलेऽपि अस्मिन् विषये निरातङ्क निराबाधं निःशवं निःप्रत्यूहं नि:कलङ्कम् अभूतपूर्वाणि श्रीदीक्षा-प्रतिष्ठामहोत्सवादीनि पुण्यकर्माणि सिद्धिसौधशिखरमधिरूढानि तत्सर्व जाग्रत्प्रभाववसतेः प्रौढप्रतापतीव्रदीधितेः प्रसन्नाकृतेः श्रीकरहेटकश्रीमत्पार्श्वनाथदेवाधिदेवस्य ।। विशदप्रसादस्य विजृम्भितमिति।
श्रीमद्भिरपि सपरिवारैः सश्रीसमुदायैरिमानि मनःसंमदप्रदायीनि श्रीशासनप्रभावनादिवरूपाणि समधिगम्यैतद्देशप्रवृत्तानि स्वीयमानसमरालः प्रमोदतरङ्गभङ्गया सह क्रीडयितव्यः ॥॥ ॥
[पत्तननिवासिमन्त्रिवीरा-मन्त्रिसारकृतामन्त्रणपूर्व जिनोदयसूरेगूर्जरधरां प्रति प्रस्थानम् । ] ६२२. अथाग्रिमो वृत्तान्तः किश्चिल्लिखितपद्धतावधिरोप्यते । अनन्तरं च
___ अस्ति खस्ति समस्तश्रीनगरसर श्रेणिक्षीरसागरावतारश्रीमन्नरसागरपुरवरनिवासिविलासिव्यवहारिरत्नराशिसातिशयपुण्यप्रभाप्रारभारभ्राजिष्णुमूर्तिः, परमपुरुषाभिलषणीयपुरुषार्थत्रयसंसाधनयथापूर्वप्रवर्द्धमानमत्यतिशयः, निजगतागतभ्रमविप्रतारितानेकमानुष्यकदुर्धरचपलकमलाकरेणुकासङ्कलनालानस्तम्भः, पुरातनजन्मसम्यकपरिचरितश्रीजिनवरोपदर्शितश्रीधर्ममार्गप्रसादप्राप्तप्रभूतविभूतितया पुनरपि तमेव मार्ग प्रत्युत समुनति नेतुकामितया जगति विख्यातकृतज्ञतागुणः, स(श)चीवरयितेव विबुधसंसदुपश्लोक्यमानगुणगणोऽपि गोत्रपालनसाह्लादहृदयः, वैश्रवण इव श्रीदोऽपि न कुबेरतया प्रसिद्धः, प्रचेता इव समुद्रस्थितिरपि न पुण्यसंप्रयोगे पश्चिमाशानुषङ्गिहृदयः; किंबहुना-गणनीयोऽग्रणीर्गुणिनाम्, वर्णनीयो वरीयाँल्लब्धवर्णानाम्, स्पृहणीयः प्रथमः प्रगल्भानाम् , . अभिनन्दनीय आदिम उदाराणाम् , मार्गणीयो धुरीणः सन्मार्गगामिनाम् , कीर्तनीयो धुरि धीराणाम्, प्रशंसनीय आदौ प्रसन्नानाम् , बोद्धव्यो धौरेयोऽनुद्धतानाम् , ग्रामणीः शमशालिनाम्, सुधाकरमय इव यशसि, सुधामय इव वचसि, सौभाग्यमय इव महसि,
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org