________________
विज्ञप्तिलेखसंग्रह शृङ्गारमभूतसारप्रतरप्रदानादिविधिप्रकारेण श्रीजिनशासनमहिम्नः श्रीखरतरविधिविशेषस्य च यशाकलशाधिरोपणमचेक्रीयि ॥ 5 ॥ ६१८. अथ प्रवृत्ते च महोत्सवे वस्त्रस्थानं प्रस्थितेषु च सर्वलोकेषु, प्राप्सराजप्रसादेन दानशौण्डताशौण्डीर्यादिगुणविख्यातयशोनादेन श्रीशासनप्रभावकेण सेल्लहस्तषेमूसुश्रावकेण । समाकारिता वयं सादरं शतपत्रिकादिखकीयग्रामेषु, विजेहीयाञ्चकृमहे च तत्र परिसरे पक्षकल्पमेकम् ॥5॥
[साधुराजरामदेवकृतद्वितीयप्रतिष्ठामहोत्सववर्णनम् ।] ६१९. अनन्तरं पुनरपि साधुराजरामदेवेन महीयांसं श्रीप्रतिष्ठामहोत्सवं विधिापयिषुणा समामन्त्रिता मध्ये राजधानि । वयं च तादृक्षप्रतिष्ठाविधिक्षमदिनलग्नादिसंयोगाभावेनाs. ॥ निर्मित्सवोऽपिताम् , श्रीगोर्जरधरामनु चिकीर्षितविहाराश्चापि, परं तेन समयवैषम्यं राजप्रसादचापल्यं कमलाचञ्चलत्वं प्रायेण भूयो भूयः श्रीसुगुरुसंयोगस्य दुर्घटत्वं च चेतसि चिन्तयता धीमता राजराजन्यराजलोकनिबन्धप्रबन्धेन द्रढीयसा समवातेष्टीययिष्महि, प्रारारभि च महोत्सवः सामस्त्येन।
६२०. पुनरपि प्राविधिना समामन्त्रिताशेषविषयविषयान्तरान्तरावर्तिपुरग्रामनिवासि15 संख्यानविमुखहर्षसुमुखास्तोकलोकसङ्गमे, प्रागिव नानाभेदवाद्यवृन्दावच्छेदिशब्दाद्वैतमयीभूतवसुन्धराधरकन्दरान्तरिक्षोदरे, संजायमाने घनगीतस्फीतमङ्गलधवलकोलाहले, प्रत्यअभाग्योदयवशादल्पीयोभिरपि वासरैः संपन्ने समस्तविलोक्यमानवस्तुविस्तारे, श्रीकरहेटकाभिधश्रीपार्श्वनाथप्रसन्नदृष्टिसुधावेणिभिर्विरलीभूते निःशेषसन्तापकूटे, प्रवृत्ते च जलानयनादौ महीयसि महसि श्रीफाल्गुनवलक्षाष्टम्यां सुधाकरवारे श्रीअमृतसिद्धियोगे * चासहिष्णूनामपि मानसविस्मयविकाशी श्रीजिनबिम्बप्रतिष्ठामहोत्सवः समबोभूयिष्ट सर्वोत्कृष्टः । प्रत्यतेष्ठीयिषत च तत्रास्माभिः श्रीचतुर्विधधर्मप्रत्यक्षमूर्तयः, चतुर्गतिकुहरगतजन्तुजातनिस्तारनिपुणसारस्फूर्तयः, आदिमद्वीपविहरमाणश्रीसीमन्धर-श्रीयुगन्धर-श्रीबाहुश्रीसुबाहु-जिनचतुष्टयमूर्तयः, परा अपि श्रीजिनप्रतिकृतयः, सकलदुरितदुस्तटीप्रस्फोटनप्रमत्तद्विरदानां तत्ताहत्रिविष्टपोत्तरज्ञानदर्शनचारित्रप्रभृतिपवित्रगुणश्रेणिप्रकर्षेण पर» वादिपर्षदि प्राप्तसद्विरुदानां भाखरताभूरीणां श्रीमजिनरत्नसूरीणां मूर्तिश्च । पुनरपि प्रतिष्ठामहं कारयता प्रभावकपुरुषेण सन्मानदानपुरःसरसाधम्मिकनागरापरपौरमानवनिवहभोजनताम्बूलप्रदानादिविधिना प्रभूतयाचनकनिकरमनोरथपूरणप्रकारेण च श्रीजिनशासनमहिमा जगति विशेषेण जाडिकी कृता।
६२१. तदेवं संजातमद्वैतप्रभं श्रीदीक्षाप्रतिष्ठामहोत्सवद्वयम् । परमनयोः श्रीमहसो * श्रीसङ्घलोकमिलनकुतूहलप्रभावनादिखरूपं कियद्वचनपथगोचरं बोभवीति । यता
यामाग्रहारनगरेतरमण्डलेभ्यस्तावन्त ऐयरुरिहाङ्गिगणाः सहर्षाः। यद्भाषणैः पुरमिदं हि नभश्चराणां भूयोऽपि वार्द्धिमथनभ्रममाततान ॥ ४६ ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org