________________
विज्ञप्तिलेखसंग्रह वनद्धप्रभुरवंशाग्रनरीनृत्यमानपञ्चवर्णचीरचारुध्वजबजे संशोधितपुरमार्गे, विपणिपथाग्रग्रथितमृदुलझलहलत्पदृकूलमयतिलकिततोरणान्तरान्तरान्यस्तभाखरमुकुरमण्डलावलीमिषेण दिदृक्षारसवशमिलितनानाद्वीपसागरविहारिदिनकरकुले, प्रतिमन्दिरद्वारपूर्यमाणकाश्मीरद्रवागोमयगोमुखोपरि प्रस्तारितमुक्ताफलदलानुकारिवलक्षाक्षताक्षतचतुरस्रचतु• कपूरे, प्रोबेभिद्यमानपौरजनमानसविस्मयाकुरे; किं बहुना-विवक्षुवचन विलासप्रयासदासिनि, साधुराजरामदेवकारिते प्रवर्त्तमाने मनखिमनोहरे प्रवेशकमहोत्सवे, श्रीकपिलपाटकपट्टनमध्यं प्रविश्य; प्रशस्यतमे श्रीआषाढचतुर्मासकदिने मूलार्कशोभने, श्रीमेदपाटकमण्डलकल्पहृदयस्थलालङ्करणकौस्तुभरत्नप्रायश्रीकपिलपाटकद्रङ्गचङ्गवसुन्धरासुन्दरीशृङ्गारहारे श्रीविधियोधिदविहारे; सकलैहलौकिकपारलौकिकलोकत्रयलोकमानसिकामितकामित10 वितरणसुरद्रुमः, खदर्शनमात्रवित्रासितसंसारचक्रचारभ्रमः, अखिलनिकृष्टानिष्टदुष्टकष्टनिष्ठासृष्टिप्रष्टप्रतिष्ठकष्टाभिनिविष्टारिष्टपिष्टप्रकृष्टसेवाक्रमः, तमालतालदलकुवलयकोकिलकजलालिकुलकोमलश्यामलपिच्छलप्रतिदिशविलासिवपुच्छविरञ्छोलीच्छलेन स्वीयनमस्यानिमित्तसमागतजनतामार्गवहनजन्ममहाश्रमक्लान्त्युपशान्तिकृते शिशिरं स्वच्छच्छायाभरमिव विस्तारयन् ,शारदीनहरिणलाञ्छनसञ्चारिचारुचन्द्रिमाविमलधवलविलोचने कटाक्षच्छ15 टाविस्तारणाव्याजेन दिदृक्षोपसारिणं सरणिसन्तापधारिणं प्राणिगणं सरलामृतरसलहरिभिरिवाप्लावयन् , उत्तमाङ्गातपत्रायमाणधरणाधिराजरचितस्फारफणावलीप्रान्तविश्रान्तनितान्तकान्तबहुप्रकारमणिसम्भारविस्तारिकवुरकिरणश्रेणिमिषेण नमश्चिकीर्षापढौकितजन्तुजाताय पञ्चवर्णपदकूलसिचयनिचयं परिधिापयिषुरिव विश्राणयन् ; किंबहुना-मूर्ति रिव कल्याणपरम्परायाः, पयोधिरिव लावण्यरसस्य, निधिरिवाद्भुतप्रभावविभवस्य, मरकत२० मणिकुम्भ इव कारुण्यामृतस्य, मार्तण्डमण्डलमिव महोदयस्य, मन्दिरमिवामन्दभन्दस्य,
आस्पदमिवैकान्तशान्तरसस्य, धामेव विशुद्धधर्माणाम् , दामेव विततगुणानाम् , प्रतिकृतिरिव प्रसन्नतायाः, पदमिव प्रसादस्य, कन्द इव कामनीयकस्य, स्तम्ब इव प्रेयकस्य, चरणनलिनरोलम्बायितसमस्तनरासुरदेवः श्रीकरहेटकपार्श्वनाथदेवः, सादरं सानन्दं समभिवावन्द्याश्चक्रे । चक्रे च तदीयाविकलानुभावभासुरैस्तत्रातिसुखवृषक्षेमसमुदयेन श्रीचतुर्मासी ।
[करहेटकमहातीर्थे सञ्जातदीक्षामहोत्सववर्णना।] ६१५. अनन्तरं च मार्गशीर्षप्रथमषष्ठ्यामेव समाहूतनानास्थाननिवासिश्रावकश्रेणिसमुल्बणः, साश्चर्यसमुचितकार्यविधानविस्मेरितपौरजनगणः, प्रतिदिनसंपद्यमानविधिज्ञधन्यजनविनिर्मापितसौवामेयस्खापतेयसफलताकारणरणत्तूर्यादिवर्यवादिनप्रसृत्वरपरितोध्वनिवितानमुखरितगिरिगह्वरमूर्छितोच्छृङ्खलाप्रतिमप्रतिशब्दाडम्बरोद्रेकितबहगुहाशायिसिद्धगन्ध30 मिथुनप्रकर्षितनोद्यवीक्ष्यमाणमनोरमनेपथ्यमणिमौक्तिककनकादिमयकमनीयसारतरतारपरिस्कारपरिस्कृतशरीरापघनघनकामिनीजनवदनेन्दुमण्डलक्षरत्पीयूषप्रवाहानुहारिहारिमङ्गलाचारसुकुमारगीतवरप्रकारपुरःसरवेल्लत्कुतूहलोत्फुल्लपुष्पाङ्कमहोपबृंहितमहाजनमहनीयमहिमा, गगनाङ्गणाग्राधिरोपितश्रीजिनधर्मः, पुराकृतशुभोदयसम्भूतविभूतिपुण्यक्षेत्रवपनचतुरेण साधुराजरामदेवेन कारितः, घनप्रकारसाकारालेख्यकर्मनिम्मितिनानाविज्ञानविनो
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org