SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिमहालेख निग्रहहेतुशरीरं श्रीसमुदायकारित सुधाधारावलीधवलप्रांशु शिखररामणीयक विस्मारितगगनचरविसरतुषारधरशृङ्गनादश्रीप्रासादवि भूषणभूरमणधीरं श्रीमन्महावीरं जिनवरं सानन्दं नमश्चेत्रीयां चक्राणाः, श्रीसमुदायमनःप्रीतिं च बभ्राणाः, प्रभाते च सकलश्रीसमुदायपुर:सरेण श्रीमालकुलनभःस्थलविमलीकारदिवसकरेण गुरुजनमानस निवासराजमरालसोदरेण अनुगुणानणुनिजगुण महामणिमहिमवशीकृतसमस्तनागरव्यवहारि सार्थवाह महीनाथप्रमुखमानसेन राजप्रसादप्राप्तप्रधान महत्त्वेन सा० भादासत्पुत्रेण सा० तोल्हासुश्रावकेण महता विस्तरेण, श्रेणीभूतेषु नगरश्रेष्ठवर्णज्येष्ठश्रेष्ठिनैगममेलकेषु, मिलितेषु च मधुरगान्धर्व नव्यकाव्यगाथकभाणकेषु मार्गणबन्दिलोकेषु, वाद्यमानेषु मुखरिताम्बरेषु ढोल्लझल्लरीमृदङ्गतालकांस्यतालवेणुवीणादिनादवर्द्धितपूरेषु गम्भीरखरतूरेषु, उभयपार्श्वचाल्यमानेषु प्रतप्ततपनीयमयप्रसृमरकपिशरश्मिदण्डप्रलम्बदण्डमण्डितगोक्षीरबलक्षचारुचामरेषु सघवाङ्गना - 10 गीयमानेषु सरस्धवलेषु, किं बहुना - प्रवर्त्तमानेषु तेषु तेषु कविजनवर्णनार्हेषु महाऽद्भुतरसाचारेषु, स्वकीयसौधं समाकार्य श्रीसङ्घसमन्वितानस्मान् श्रीवर्षग्रन्थिपर्वसमुचित सर्वविधिप्रकटीकरणेन श्रीजिनशासनप्रभावसौभाग्यं विशेषेण परमां कोटिमनेनीय्यत । Jain Education International १५ तत्र च दैवसिकं पञ्चदशकं स्थितिरास्माकीना बोभूयाञ्चक्रे । बहूनामासन्नसंनिवेशवासिनां श्रावक-श्राविका लोकानां चिरकालीनगुरुसङ्गमसम्भवो महापुण्यलाभः प्रकटीबभूव । 15 [ अथ आमन्त्रणार्थसमागत-स्वयंसाधुराजरामदेवेन सह जिनोदयसूरेर्भेदपाटप्रवेशवर्णनम् । ] ९१४. अथ च माध्यंदिनार्ककर्कश दीप्रकरप्रकर सम्पर्कप्रवर्द्धिष्णुप्रग्रहजालजटिली भवत्प्रचण्डदण्डशितकुन्तवेल्लद्भल्लपल्लवितहस्तैः परःशतैः पुरःसरानुचरपदातिसमाजै राजमानः, स्वकीयागमनसमुत्पादितभूजानिसमागमभ्रमः, उग्रैरपि मान्यसेवः साधुराजरामदेवः समाटाट्याञ्चक्रेऽस्माकं निनंसया जिघृक्षया च । ततस्तेन महताऽऽग्रहेण महता विनयेन महतानुभावेन महाभियोगेन महता प्रयोगेण वयं प्रास्थापयिष्महि । प्रहरद्वयेन समग्रं मार्ग सुखेनातिक्रम्य, सूचितमनः संभावितपुण्यप्रयोगसंयोगघटना समुद्घटितहर्ष समुत्साहजाते दत्तवति शुभशुभशकुन जाते जाते श्रीविभाते श्रीविभाते, विवेकपथागमसङ्गमोन्मूलनलालसतमस्तम्बस्तम्बेरमघटा विघटन पटिष्ठतेजस्विकेशरि किशोरा शौण्डीर्यभृति प्रतिमानसं निजविरहसङ्कचितवदनखबान्धवसरोरुहश्रेणिसप्रणय मृदुल सरागकरस्पर्शनसमुल्लासकृति सकलजगलोककल्याणकारिसमुदयवति पूर्वाचलचूलिकामलङ्कुर्वति भगवति भाखति, समधिरुह्यास्माभिरपि गरीयोगिरिशिखरं सम्मुखानीतनीतिप्रियप्रभूतप्रसिद्धक्षत्रियश्रोत्रिय सूत्र कण्ठवणिग्जनप्रभृतिनानां जातिसङ्गमे मनोहारि सारस्फारशृङ्गारशृङ्गारिताङ्गावयवनवीन युवतीजनोत्तमाङ्गरङ्गचङ्गशङ्खसुधारसधवलित विचित्र चित्र पवित्र पत्रावलीशालमान कण्ठपीठलुठत्कठोर कनककलिकाकारचम्पकमालोल्बणकल्याणकलश शोभमाने, परः सहस्रमानवन्नृत्यन्नवतुरङ्गमचराचरचरण- " प्रचारचञ्चूर्यमाणभूधराग्रभाविनानाविधधातुशकलोच्छलत्परमाणुपरागपुञ्ज प्रेङ्खोलनाछ्लेन प्रसृत्वराद्वैतध्वाननिःखानशङ्ख भेरी भरमधुरमृदङ्गझल्लरीप्रमुख मुखरतरानवद्यातोद्यप्रद्योत - मानोलूलध्वनिरुपस्वकीयगुणैकमयप्राधान्यं जगति संभाव्येव मूर्त्तिधररागप्रमोदमेदुरीभूतगगनाङ्गणे, मधुमधुरगीतिगान सावधान सलावण्यवर्णनीयवर्णिनीजनगणे, प्रतिसदनशिखरा For Private & Personal Use Only 5 20 25 www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy