________________
विज्ञप्तिलेखसंग्रह
[ मेदपाटीयसाधुराजरामदेवकृतामन्त्रवर्णनम् । ] ६१३. अथ च प्रथीयोविश्वभराभारधरणधौरेयप्रचण्डभुजादण्डप्रान्तावलम्बमानज्योतिजोलजटिलमण्डलाग्रसमाक्रान्तव्यनितोदरशात्रवव्रातप्रणिपातपुरःसरोपायनीक्रियमाणसौवकमलाविलासिनीविलासव्यसनाविज्ञातविशुद्धकमनीयकीर्त्तिकामिनीनिर्मलगुणपरवश5 मुखरीकृतजगत्रयनिवासिजनविततिश्रीषे(ख)तजगतीपतिपरमप्रसादपात्रेण, भवानीप्राणप्रियेणेव मधुरसुधाकरजाज्वल्यमानतृतीयेक्षणाभ्यां, मुनिवरेणेव प्रशमरसदीप्रतपोभ्यां, शौण्डीर्यभ्राजिष्णुवसुन्धराशक्रेणेवाभिषेकानन्तरप्रसाधितनिजशरीरमनोहरशोभासंभारदिदृक्षाकरगृहीतप्रसन्नदर्पणभावरकृपाणाभ्यां, महावनसरोवरेणेव रिरंसारसलालसराजहंसपयापिपासोपकण्ठीभूतकण्ठीरवाभ्यां, श्रीअर्हद्विशदगगनाग्रलग्नप्रासादशिखरेणेव धवल" ध्वजदेदीप्यमानगलितकलधूतकलशाभ्यां, सकलसाधववैदुष्यमानुष्यकराजकराजन्यकशात्रवब्राह्मण्यबन्धुताचित्तचमत्कारोत्पादनपटिष्ठाभ्यां भावयशःप्रतापाभ्यां विराजितेन, श्रीश्रेणिकाग्रजाङ्गजेनेव निजबुद्धिप्रपश्चप्रतीकृतमण्डलभूपालचक्रवालेन, निःसीमखरतरनीतिमूर्तिमदधिदैवतेन, सामयिकप्रभावकपुरुषशीर्षशेखरेण, स्वयंकार्यमाणा_लिहशिखर
सारश्रीजैनविहारनिजाजय्याक्षय्यप्रौढपराक्रमपरोपितश्रीकरहेटकाख्यश्रीपार्श्वनाथजिनचर15 णपरिचर्याप्राप्तप्रसादवरेण साधुराजलद्भूसुश्रावकोद्वहेन साधुराजरामदेवश्रावकवरेण, सु
धाकरेणेव सदैव गुरुसङ्गमस्पृहयालुना, पुराकृतसुकृतसञ्चयोदयवशवशीभूतराज्यप्रधानप्रधानपदेन्दिरायाश्चापल्यमवधारयता सुगुरुवचनेन स्थिरस्थापनां तस्याश्चिकीर्षणा, पूर्व वर्षद्वय-त्रयमारभ्य श्रीसिन्धुमण्डलविहारं चक्राणामस्माकं समाकारणाय प्रेषितहृदयान्तर्निलीनमनोज्ञमनोरथमालाविर्भावकलेखप्रकरेणापि बहुशः, साम्प्रतं समासन्नतया वारद्वय-त्रयं 20 प्रहितविवेकिश्रावकश्रेणिना बाढं समामत्रिता वयम् । तदनु च वारान् पञ्च षट् प्रस्थिता अपि शकुनदौर्बल्यान्न विहितवन्तः प्रस्थितिम् ।
[जिनोदयसूरिकृतमेदपाटदेशाभिमुखप्रस्थानवर्णनम् । ] अनन्तरं पुनरपि तत्प्रहिताभ्यां समाकारणायास्माकं समागताभ्यां श्रीगुरुपरिचर्याविधिविवेकनिपुणाभ्यां प्रभूतसार्थसहिताभ्यां मुनिजनवचननिरताभ्यां मं० भीमुड-नाह० 25 गज्जण-सुश्रावकाभ्यां सह प्रस्थाय, मार्गे समभिलषितप्रयोजनसंयोजनसाधीयोभिः भविष्यति किं विषमविरुद्धस्थानकेषु तेष्वित्यादिचिन्तालतावितानच्छेदनपरशुप्रायः शुभशकुनसमवायैः संजनितप्रदक्षिणावर्त्तभ्रमणाभिप्रायैः प्रतिवासरं मनःस्थैर्य विभ्राणाः, अन्तरा पथक्रमायाते कुशमानपुरख्याते श्रीमजिनचन्द्रसूरिगणेश्वरचरणकमलयुगलमुद्राविन्यासपवित्रतया अनुकृततुषारभूधरैकशिखरे तत्कालोद्राह्यमाणाप्रमाणहरिणमदविशदघनसारकालाग30 रुप्रोत्सर्पद् बहुलबहलधूमपटलपालीभिरकाण्डाडम्बरितनभःस्थलव्यापिसजलजलधरे सदा जाग्रदतिशयमहाभूपे श्रीस्तूपे नमस्करणस्मरणादिविधिभिः शुभयुतां परां प्राप्य, प्रतिग्रामं श्रावकलोकग्रामं प्रमोद्य, श्रीशुद्धदन्तीपुर्यां श्रीसमुदायमुदे दिनपञ्चकं स्थित्वा, शुचिमासप्रथमद्वादश्यग्रिमदिने श्रीनदकूलवत्यां मनोनयनसमानन्दनधीरं समग्रोपसर्गवर्गग्रहविग्रह
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org