________________
विज्ञप्तिमहालेख
[आगतविज्ञप्तिसमुलिखितकृत्यवर्णनविज्ञापनम् ।] ६१०. तथा विजाज्ञायांचक्रिरेऽस्माभिः समस्तानि प्रशस्तानि अविहस्तानि-वैयुष्टवेलावसरे श्रीगुरुव्याहारशुश्रूषाश्रद्धालुश्रद्धालुसंसदासमक्षं तृष्णानिष्णभव्यजन्तुजातमधुव्रतवातलेलिह्यमानसरससदुपदेशमकरन्दबिन्दुकदम्बकसुन्दरगाथानिकरविकखरकुसुमप्रकरविशालमालां संवेगरगावतारनाट्यक्रियारङ्गशालां श्रीमदुपदेशमालां व्याख्यानीकुर्वाणानां श्रीमतां कुशलेन श्रीचतुर्मासीसमयातिवाहनम् ।
मध्यंदिनसमये कुशाग्रीयशेमुषीकाणामपि विषमशास्त्रास्खलितधीराजितानाम् , भूतलक्षणानामपि न-भूतलक्षणानाम् , सुचरणवृत्तसाहित्यप्रौढि भाजामपि न-सुचरणवृत्तप्रौढिभाजाम्, प्रमाणसंस्कृतवाग्विलासानामपि अप्रमाणसंस्कृतवाग्विलासानाम्, अलङ्कारकविरमणीयभणितीनामपि नालङ्कारकविरमणीय भणितीनाम् , सदभ्यस्तच्छन्दःशास्त्राणा- 10 मपि मुक्तसुललितभ्रमरविलसितोचितमनोरमाशोकपुष्पमञ्जरीचम्पकमालाकामबाणादिपरिचयाणाम् , सुदृढीकृतकर्मग्रन्थागमानामपि शिथिलीकृतकर्मग्रन्थागमानाम् , वैज्ञानिकमनोविस्मयविधायिविद्यानवद्यविनोदपश्चालिकारङ्गमण्डपानां गुरुचरणविनयवसन्तकलकोकिलानां पण्डितरत्नसमुद्रगणि-पण्डितराजमेरुमुनि-पं० सुवर्णमेरुमुनिवराणां प्रमा. णातीतदुस्तरप्रमाणग्रन्थापारपारावारपरतारं स्वकीयद्रढीयःप्रसादप्रवहणेन प्रापय्य विशद- 15 श्रीकर्मग्रन्थार्थसार्थाप्रत्नरत्नश्रेणिग्रहणनिर्मापणम् ।
[ आगतविज्ञप्तिप्रेषकसूरिकृततीर्थयात्रावर्णनम् ।] १६११. तथा वितथीकृतप्रबलकलिकालवेतालविलसितेन प्राग्भवाविर्भावितप्राणिरक्षण-जिन यात्राक्षणसुपात्रव्रातपवित्रद्रविणवितरण-शिक्षणदेवगुरुपदपद्मपरिचर्याकरण-निर्मलशीलालङ्कारधरण-दुस्तपतपश्चरण-साधम्मिकमनःकामितभरण-दर्दमहृषीकसंवरण-श्रीजिनशास- 20 नप्रणीतमार्गानुसरण-नित्यसामायिकादिक्रियाकाण्डयतिजनाचारानुहरण-भागवतभाषितसमयसुधारसपान-प्रतिसमयश्रीपञ्चपरमेष्ठिप्रणिधान-विगलितनिदाननानाविधप्रत्याख्यानगुणिलोकप्रशंसाविधान-परदोषोद्गारव्यतिकरतूष्णीकाञ्चितान-शुभप्रणिधान-प्रमुखसङ्ख्यातीतशुद्धधर्मकर्मवितान-समुजृम्भितादम्भारम्भसंरम्भसंभूतप्रभूतलक्ष्मीविलासश्रीसार्वीयसमुपदिष्टविशिष्टोपाष्टोपनवक्षेत्रविन्यासप्रकाशीभूतमृगाङ्कमण्डलप्रसारिमरीचिवीचिवि- 25 शदयशोराशिधवलितवसुमतीवलयेन श्रीमन्त्रिदलीयवंशविशालसरोवरविभूषणप्रफुल्लकुवलयेन ठक्कुरचन्द्राङ्गरुहेण, पुण्यकार्यसिद्धिविधिविबुधेन दारिद्र्योद्रेकविद्रावकेण ठक्कुरसङ्घपुरुषश्रीराजदेवसुश्रावकेण सोसूत्रितायाम् , पुरन्दरपुर्यामिव सुरचितविचित्रचित्रचित्रीयितचतुरगुरुचित्तपरमरामणीयकभूमिदिव्यदेवालयसमलचेक्रीयितायाम् , सरस्यामिव स्वःप्रवाहमहिमविजिगीषयेव नभोमण्डलमभिप्रोच्छलद्भिः विदग्धसीमन्तिनीविसङ्कटकटाक्षचञ्चलवि- 3 पुलविभ्रमानुकारिभ्रमणैर्वहुलहरिगणैर्मनोहरायाम् , दुर्मदकलिप्रत्यर्थिप्रमथनसमर्थायां पताकिन्यामिव श्रीधर्मभूपालस्य, राजधान्यामिव दानशीलतपोभावनाममहाप्रभावधामचतुराशाधिपग्रामविराजितस्य विशुद्धयशःशक्रस्य, सर्वप्रकारप्रभावनेन्दिराप्रीणितपात्रायां श्रीतीर्थयात्रायां प्रतेष्ठीय्य, पुरि पुरि ग्रामे ग्रामे श्रीमन्त्रिदलीयकुलालङ्करणावतंसैः श्रीदेव
Jain Education Intemational
ucation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org