________________
१२
विज्ञप्तिलेखसंग्रह गुरुभक्तिपाथोजिनीक्रीडाराजहंसैः श्रीविधिमार्गसमाराधनबद्धरिरंसः प्रभावकश्रावकजनवितानैर्वितन्तन्यमानां प्रवेशकमहामहोत्सवसविस्तरश्रीसङ्घपूजाविधानसाधम्मिकसन्मानप्रभावनादानप्रदानादिकां महामहिमां श्रीसङ्घस्य निजलोचनानां पीयूषपारणीकृत्य, श्रीमगधाभिधजनपदप्रसाधनहारे श्रीविहारे च श्रीसमुदायस्य मुदं समुत्पाद्य, श्रीराजगृहपुरे5 श्वरस्य श्रीमुनिसुव्रतजिनेश्वरस्य नमस्यां निर्माय, सं००० श्रीराजदेवादिश्रीसमुदायसूत्रितां गविगरीयाकविजनवचनरचनावर्णनार्हणां श्रीअर्हणां च समभिनन्द्य, सप्रमदहृदयेन:
तदनन्तरं श्रीचतुरसकलसङ्घसजुषः परमानन्दभावभरितवपुषः श्रीजिनशासनसेवाधन्यतापुषः आन्तरारिसर्वस्वमुषः सन्तो वयं श्रीचरमजिनवरचरणरेणुनिर्मलितोपत्यकाधित्यकापरिसरे असङ्ख्यपुण्यागण्यगुणप्रसाधितशरीरबहुलमुनिवीरमुक्तीन्दिरासुन्दरीपाणि10 पीडनसङ्केतमन्दिरे अहर्निशश्रीवर्द्धमानादिपुरुषोत्तमबन्धुरमधुरगुणगानमधुपानपरायणसहचरीसखसिद्धगन्धर्वकिन्नरनिकरसंसेव्यमानमनोहरकन्दरे, निःश्रेणिदण्ड इव श्रीवर्गापवर्गनिगममार्गयोः, मणिघृणिराजिविराजितशिखरे प्रकटकोटीरे इव श्रीमगधमण्डलरत्नगर्भादेवतायाः सर्वपर्वतोत्तरे श्रीवैभारविश्वम्भराधरे, तदीय इवाविच्छेदिसदनुचरे, तदीय इव परमप्रेमरसपरे च सहचरे, तदीय इव सरूपगुणधरे कनिष्ठसहोदरे श्रीविपुलश्री" विपुलाचलाधरे च श्रीतीर्थाधिराजजिनसमाजं नमोकृष्महि ।
तत्र च ठ० सं० श्रीराजदेवेन श्रीमन्त्रिदलीयापरश्रीसमुदायेन च महता श्रीसमुदयेन जन्यमानां विधिप्रधानां समयासमानां श्रीतीर्थपतिसपर्या समनुमोद्य च, लभामहि मनुष्यजन्मनः फलम् । निर्मल्यभावि चिराचीर्णचरित्रशरीरेण । फलेग्रहिणा समपनीपद्यत
अद्य विदूरदेशान्तरविहारकारिपदश्रमेण । धन्यम्मन्यतामगामि परिजनेन । अधिकतरकृता20 र्थतया प्रकर्षेण प्रानरीनृत्यत जीवातृकतया। पम्फुल्यते स्म पुरातनभवजनितपुण्यप्ररोहै। चंचूर्यते स्माद्यभवभ्रमविधायिभिः कालकूटं प्रमादमदमदनमोहैः । समारोरुह्यते स्म सम्प्रति हृदयाध्यवसितकार्यसिद्धिसौधशिरोगृहं मनोज्ञमनोरथसमूहै:- इत्येवमादिभिर्विशदनिश्छद्ममानसिकभावसारैः प्रकारात्मानं प्रकृष्टपुण्यभाजनमसृज्यामहि च ।
पुनस्तत्र पवित्रातिशयरसानूपश्रीज्ञातिनन्दनजिनैकादशगणधरमहास्तूपप्रादुर्भावः । 25 श्रीमदुपदेशमहाभिनिवेशवशंवदहृदयैः श्रीप्रभावकश्रावकनिचयैः कार्यमाणैः क्रियमाणमहाप्रमाणसुकृतसन्ततिप्रसूतगुणतरङ्गधौतमूर्तिमदकूटयशाकूटानुवादैर्नवीनश्रीजिनप्रासादैः श्रीवैभारश्रीविपुलधरयोः श्रीब्राह्मण-क्षत्रियकुण्डग्रामपुरयोश्च विशेषविभूषाविधानम् ।
ततो व्याघुट्य पुनर्विहारादिस्थानानि मध्येकृत्य कियन्तं पन्थानं गत्वा पुनावृत्य, नीवैभार-विपुलाचलयोरधिरुह्य जिनप्रतिकृतीरकृत्रिमोत्साहेन नमसित्वा सविस्तरप्रतिष्ठां " च जिनप्रतिमानां कृत्वा, भूयोऽपि यथागतानुसारिगतेन कुशलक्षेमेण श्रीपूर्वदेवगुरुसांनिध्येन च श्रीसङ्घसहिताः श्रीअयोध्यापुर्या ठ० सं० राजदेवसुश्रावककारितप्रवेशकोत्सवपूर्व श्रीपञ्चतीर्थीनमस्करणं निर्मितवन्तः। ततोऽपि श्रीपूज्यादेशगुणमवलम्ब्य मध्यदेशमनु विजिहीर्षवोऽपि भाखरश्रीदेवगुरुभूरिभक्तियुक्तस्य पुण्यचिकीर्षयाऽऽभ्यन्तरकालुष्य
Jain Education Intemational
Education Intermational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org