________________
१०
विज्ञप्तिलेखसंग्रह
ङ्किता, मनोहरमुद्रावच्चिरकालात् प्रस्फुरितस्कन्धकन्धरम् , कण्टा कितप्रकोष्ठपरिसरम् , कुरुविन्दशोणारविन्ददलबालकिकिल्लिविद्रुमप्रत्यग्रविद्रुमसुकुमारमरीचिमञ्जरीराजिभासुरम् , जिघृक्षाविकस्वरीभूतप्रेङ्खदङ्गुलीमालाच्छलेनाभ्युत्थानमिव चेक्रीयमाणम् , प्रसृमरपद्मरागमणिगणारुणनखरकरप्रकरव्याजेन मूर्तिमन्तं प्रेमरसोद्गारमिव देध्रीयमाणम् , मृदुलप्रलम्बलक्ष5 णलेखाविशेषलक्षेण प्रौढप्रमोदरसप्रवाहानिवोद्वहन्तम् , महान्तं विकस्वरं परमप्रीतिधरम् , आस्माकीनकरपञ्जरं मधुरम् ॥ ॥
[विज्ञप्तिलाभेन प्राप्तहर्षोत्कर्षवर्णनम् ।] ६९. तदीयलाभेन च वयं समामन्त्रिता रणरणकेन, समाश्रिताः प्रश्रयेण, सुखासिका पृष्टाः स्वःश्रेयसेन, आलिङ्गिताः प्रीतिश्रिया, वाचालिताः श्रीमत्कुशलवार्तया-भोः " प्रभवः ! बहुतिथीभ्यस्तिथीभ्यः संस्मारिता वयम्' इति भणित्वैव प्रमोदाद्भुतरसैः प्रनतिता हृदयेन; 'पश्यत ! पश्यत! स्वाभीष्टानां शिष्टसमिष्टसमयवेष्टितानि पुण्यप्रभावनादिशुभचेष्टितानि' इति दर्शयन्त्येव विज्ञप्तिवाचितखरूपपरम्परया, विस्मेरिता नयनयुगलेन; 'बत ! बत! प्राचीनभवाचीर्णाजीर्णमहातपस्यापरिपाकिमप्रादुर्भूतप्रभूतपूताभङ्गुर
भाग्यसुभगता पुण्यवताम्' इति वर्णयतेव श्रीमतां महिमामण्डलेन पुलकिताःशरीरेण; 15 'अहो! अहो! असमयेऽपि श्रीजिनशासनप्रभावनामाग्भारप्रकाशनसाधीयःशक्तिरुपचितसुकृतसन्ततीनाम्' इति ज्ञापयितुं प्रेरयतेव यौष्माकीणारीणधर्मकार्यकरणस्मरणेन; धूनिता उत्तमाङ्गेन। किंबहुना-गर्जभाद्रपदोदकमेदुरमहाम्भोधरसमागमेन कलापिकलापा इव, तरलतरलमरीचिमालाविमलितककुम्भामिनीलपनपङ्कजराजिविराजमानानय॑मणिमाणिक्यताररज20 तकलधूतादिबहुविधधनाकीर्णप्रधानमहानिधानाधिगमेन दानभोगलालसविलासिपुरुषनिकरा इव, राकारजनीनायकजागरूकप्रग्रहसमूह विलाससम्पर्केण दुग्धोदधिस्निग्धकल्लोलनिवहा इव, अननुभूतपूर्वेण अनाकर्णितपूर्वेण अनवलोकितपूर्वेण अवाचितपूर्वेण अपठितपूर्वेण अनुपलक्षितपूर्वेण अनभ्यस्तपूर्वेण असंभावितपूर्वेण सवाङ्गीणसाप्तपदीनसूचनालङ्कम्र्माणाक्षीणसंमदसमुदयेन प्रगल्भितहृदया अबोभूयिष्महि । ७ पुनरपि निःशेषविशेषरत्नराशिमञ्जूषा, अस्मन्मनोमयूरवासयष्टिः, बहुविधमनोरथकिसलयविलासलतिका, मार्दवगुणमुनिमनोवृत्तिः, मरुत्पथवीथीव प्रयोगराशीनाम्, राजधानीव नानार्थसार्थानाम् , क्रीडास्थलीव प्रेक्षकभविकेक्षणहारिहरिणानाम् , सरसीव निर्मलरसलहरीणाम् , कषाश्मशिलेव सुवर्णपरीक्षायाः, प्रशस्तिपदिकेव साधुसाधुश्लोकमालायाः, पत्रविधिरिव श्रीमन्मानसमध्यभूमिस्थितस्वरूपश्रेणिनिधानकुम्भिकायाः, संमोहनविद्येव मन30 विमानसानाम् , सीमन्तिनीसीमन्तसरणिरिवानुरागसिन्दूरपूरस्य, कदलीस्तम्भगर्भभूमिरिव स्वकीयगुणावर्जितसकलजनवारसदाचारधनसारस्य, विद्याधरीवक्षःस्थलीव स्निग्धवैदग्ध्यचारुहारस्य, वेणीव प्रीतिप्रवाहस्य, सा अस्माकं सकलश्रीसङ्घसमन्वितानां हर्षप्रकर्षवर्षिणी सदा प्रजेघीयि ॥॥॥
१ अथ करविशेषणानि । २ हिंगुल। ३ पल्लव । ४ प्रवालरत्न ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org